________________ इन्द्रियविवेचनम् ] न्यायभाष्यम् / 249 द्रव्यगुणधर्मभेदाचोपलब्धिनियमः // 35 // भिन्नः खल्वयं द्रव्यधर्मो गुणधर्मश्च, महदनेकद्रव्यवच्च विषक्तावयवमाप्यं द्रव्यं प्रत्यक्षतो नोपलभ्यते स्पर्शस्तु शीतो गृह्यते. तस्य द्रव्यस्यानुबन्धात् हेमन्तशिशिरौ कल्पेते, तथाविधमेव च तैजसं द्रव्यमनुभूतरूपं सह रूपेण नोपलभ्यते स्पर्शस्त्वऽस्योष्ण उपलभ्यते तस्य द्रव्यस्यानुबन्धाद् ग्रीष्मवसन्तौ कल्पेते // 35 // यत्र त्वेषा भवति अनेकद्रव्यसमवायाद् रूपविशेषाच रूपोपलब्धिः // 36 // यत्र रूपं च द्रव्यं च तदाश्रयः प्रत्यक्षत उपलभ्यते, रूपविशेषस्तु यद्भावात् कचिद्रूपो ननु यद्यस्ति चक्षुरश्मिस्तदा किं न प्रत्यक्षेणोपलभ्यते ? इत्याशङ्कय चक्षुरश्मेरुपलब्ध्यभावोपपादनार्थमुपलब्धिप्रयोजकमाह- द्रव्येति, द्रव्यगुणयोर्धमभेदात्= धर्मविशेषादुपलब्धिनियमः= प्रत्यक्षे. णोपलब्धिर्भवतीत्यन्वयः, द्रव्यधर्मो महत्त्वादिः गुणधर्म उद्भूतत्वादिस्तादृशधर्मविशेषात् . तथा च यत्र द्रव्ये महत्त्वादिकमुद्धृतरूपादिकं च भवति तस्य प्रत्यक्षं संभवति. यत्र च गुणे उद्भूतत्वं भवति तस्य गुणस्य प्रत्यक्षं संभवति नान्यस्य यथा परमाणुतद्रूपयोस्तथा च चक्षुरश्मौ उद्भूतरूपादिकं प्रत्यक्षप्रयोजक नास्तीति हेतोरेव सतोपि चक्षुरश्मेः प्रत्यक्षोपलब्धिर्न भवतीति सूत्रार्थः / व्याचष्टे- भिन्न इति, द्रव्यधर्मो महत्त्वादिः, गुणधर्मश्च उद्भूतत्वादिः स च परस्परं भिन्न एवेति सूत्रे द्रव्यगुणधर्मभेदादित्युक्तम् . द्रव्यगुणयोधर्माणां भेदात् तत्तद्गुणपुरस्कारेणैवोपलब्धिनियमो भवतीत्यर्थः / सतोपि द्रव्यस्यानुपलब्धिमुदाहरति- महदिति, आप्यं द्रव्यम्= जलद्रव्यं महदेव अनेकद्रव्यवत्= अनेकद्रव्यकारणकम्= अनेकपरमाणुकारणकं च भवति तत्र महत्त्वमनेकद्रव्यत्वं च प्रत्यक्षप्रयोजकमस्ति अथापि तदेवाप्यं द्रव्यं विषक्तावयवम्= विश्लथावयवम्= विभक्तावयवं सत् शीतकाले व्याप्तं प्रत्यक्षतो नोपलभ्यते तस्य स्पर्शस्तु शीतो गृह्यते तेन गृहीतेन स्पर्शेनैव तादृशाप्यद्रव्यस्यानुमानं भवति तस्यैवानुबन्धात्= व्यापनाद हेमन्तशिशिरौ ऋतू कल्पेते= प्रवर्तेते= शीतकाल: संपद्यते, तथा च यथा तादृशाप्यद्रव्यस्य प्रत्यक्षेणानुपलब्धावपि सत्त्वं स्वीक्रियते तथा प्रत्यक्षेणानुपलब्धस्यापि चक्षुरश्मेः सत्त्वं स्वीक्रियते इत्यर्थः / उदाहरणान्तरमाह- तथेति, तथाविधम्= महद् अनेकद्रव्यवच्च तैजसं द्रव्यम्= तेजोद्रव्यं प्रत्यक्षयोग्यमपि अनुभूतरूपं सत् ग्रीष्मकाले व्याप्तं सह रूपेण नोपलभ्यते= न तत् तेजोद्रव्यमुपलभ्यते न च तस्य रूपमप्युपलभ्यते तस्य तेजोद्रव्यस्य स्पर्शस्तूष्ण उपलभ्यते तेन स्पर्शेनैव तस्यानुमानं भवति. तस्यैव तेजोद्रव्यस्यानुबन्धात्= व्यापनाद् ग्रीष्मवसन्तौ ऋतू कल्पेते= प्रवर्तेते न चोपलब्ध्यभावादसत्त्वं तस्य भवति. तथा च यथा तादृशतेजोद्रव्यस्य प्रत्यक्षेणानुपलब्धावपि सत्त्वं स्वीक्रियते तथा प्रत्यक्षेणानुपलब्धावपि चक्षुरश्मेः सत्त्वं स्वीक्रियते, प्रत्यक्षाभवश्च प्रत्यक्षप्रयोजकानां महत्त्वादीनामभावेदेवेति न प्रत्यक्षाभावाच्चक्षुरश्मेरभावः संभवतीत्यर्थः // 35 // - अग्रिमसूत्रमवतारयति- यत्रेति, एषा चाक्षुषप्रत्यक्षेणोपलब्धियंत्र भवति तत्रानेकद्रव्यसमवायाद् रूपविशेषाञ्च भवतीति सूत्रेण सहान्वयः / रूपोपलब्धिप्रयोजकमाह- अनेकेति, अनेकद्रव्यसमवायात्= अनेकपरमाणुकारणकद्रव्यसमवायात्= महबव्यसमवायात् रूपविशेषात्= उद्भूतत्वाच्च रूपस्योपलब्धिर्भवतीत्यन्वयः, महद्व्यसमवेतस्योद्भूतस्य च रूपस्य प्रत्यक्षं भवति यथा घटादिरूपस्येत्यर्थः, द्रव्यस्य च चाक्षुषप्रत्यक्षं रूपप्रत्यक्षद्वारैव भवतीति यत्र द्रव्ये महत्त्वम् उद्भूतरूपं च भवति तस्य प्रत्यक्षं चाक्षुषं भवति नान्यस्य. चक्षुरश्मौ चोद्भूतं रूपं नास्तीतिहेतोरेव सतोपि चक्षुरश्मेः प्रत्यक्षं न जायते तद्रूपस्य चानुद्भूतत्वात् प्रत्यक्षं न जायते इतिसूत्रार्थः / अत्र- "अत्र रूपविशेषग्रहणेन रूपधर्म उद्भवसमाख्योऽभिधीयते " इति वार्तिकम् / व्याचष्टे- यत्रेति, यत्र घटादौ रूपम् उद्भूतरूपं द्रव्यम्= द्रव्यत्वम्