________________ ____ प्रसन्नपदापरिभूषितम्- [3 अध्याये. १आह्निकेआवरणानुमेयत्वे सतीदमाह तदनुपलब्धेरहेतुः // 33 // रूपस्पर्शवद्धि तेजः महत्त्वादनेकद्रव्यवत्त्वाद् रूपवत्त्वाच्चोपलब्धिरिति प्रदीपवत् प्रत्यक्षत उपलभ्येत चाक्षुषो रश्मिर्यदि स्यादिति // 33 // नानुमीयमानस्य प्रत्यक्षतोऽनुपलब्धिरभावहेतुः // 34 // संनिकर्षप्रतिषेधार्थेनाऽऽवरणेन लिङ्गेनानुमीयमानस्य रश्मेर्या प्रत्यक्षतोऽनुपलब्धि - ऽसावऽभावं प्रतिपादयति यथा चन्द्रमसः परभागस्य पृथिव्याश्चाधोभागस्य // 34 // रश्मिरावृतं न प्रकाशयति तथा चक्षुरश्मिरप्यावृतं न प्रकाशयति तेन ज्ञायते चक्षुरश्मेः पदार्थेन संयोगे सत्येव पदार्थप्रकाशो भवतीति रश्म्यर्थसंनिकर्षः सिद्धः, आवरणं च प्रतिबन्धकत्वादेव रश्म्यर्थसंनिकर्षस्थानुमापकं भवतीत्यर्थः / वस्तुतस्तु 'अनावरणलिङ्गः' इतिवक्तव्यमासीत् अनावृतस्य प्रकाशो भवति आवृतस्य च न भवतीति अनावरणं रश्म्यर्थसंनिकर्षस्यानुमापकमिति स्यात् / यद्यप्यभौतिकत्वपक्षेपि रइम्यर्थसंनिकर्ष उपपद्यते तथाप्यभौतिकत्वेन विभुत्वं प्राप्नोति तेन चावृतेनापि पदार्थेन संयोग उपपद्यते इत्यावृतस्यापि प्रकाशः स्यादेव विभोश्च रश्मिरपि विभुरेव स्यादिति रश्मेरपि व्यवहितेन संयोगः स्यादेव न चावृतप्रकाशो भवतीति विभुत्वं निवर्तते ततश्चाभौतिकत्वमपि निवर्तते इत्याशयस्तथा च वार्तिकम्- " व्यापकत्वादिन्द्रियस्य न कुड्यादेरावरणसामर्थ्यमस्तीति" इति // 32 // ___ अग्रिमसूत्रमवतारयति- आवरणेति, रश्म्यर्थसंनिकर्षस्यावरणानुमेयत्वे पूर्वपक्षी सूत्रेण दोषमाहेत्यर्थः / तदिति- तत्= तस्य= चक्षुरश्मेः प्रत्यक्षेणानुपलब्धेः " रश्म्यर्थ " इतिपूर्वोक्तो हेतुरहेतुःसाध्यसाधको न भवतीत्यन्वयः, यदि चक्रश्मिः स्यात्तदा प्रदीपरश्मिवत् प्रत्यक्षेणोपलभ्येत न चोपलभ्यते ततश्च चक्षरश्मेरभावः प्राप्तस्तेन च रश्म्यर्थसंनिकर्षस्याप्यभावः प्राप्तस्तथा चेन्दियस्यैव पदार्थेन संयोगो वक्तव्यः स च विभुत्वमन्तरेण नोपपद्यते दूरस्थेनाविभोः संयोगासंभवाद् इति विभुत्वं प्राप्तं तेनेन्द्रियाणामभौतिकत्वं प्राप्तमिति सूत्रार्थः / व्याचष्टे- रूपेति, तेजः= चक्षुरश्मिस्तेजस्त्वादेव रूपस्पर्शवान् संभवति तेजोमात्रस्य रूपस्पर्शवत्त्वनियमात् तथा च चक्षुरश्मिलक्षणतेजसः महत्त्वादिकारणेभ्य उपलब्धिः स्यादेवेत्यन्वयः, चक्षुषो महत्त्वात्तद्रश्मेरपि महत्त्वं कारणबहुत्वादेवानेकद्रव्यत्वं रूपवत्त्वं च स्पष्टमेव, प्रत्यक्षकारणान्याह- महत्त्वादिति, महत्त्वादिकं च संमिलितं प्रत्यक्षकारणमिति यदि चक्रश्मिः स्यात्तदा तेजस्त्वेन रूपवत्त्वात् महत्त्वाच्च प्रदीपरश्मिवत् प्रत्यक्षत उपलभ्येत न चोपलभ्यते इति विज्ञायते नास्ति चक्षुरश्मिरिति विषयप्रकाशकत्वमिन्द्रियस्यैव प्राप्तमित्युक्तरीत्या ह्यभौतिकत्वं प्राप्तमित्यर्थः / अत्र- " महत्त्वं तावत् कारणमहत्त्वबहुत्वप्रचयेभ्यः, अनेकद्रव्यत्वमपि कारणबहुत्वादेव, रूपस्पर्शवद्धि तेज इति नाऽरूपं तत्, एवमशेषोपलब्धिकारणसंनिधाने सति येन नोपलभ्यते तेन गम्यते नास्तीति" इति वार्तिकम् // 33 // ___ उक्तं निराकरोति- नेति, अनुमीयमानस्य पदार्थस्य या प्रत्यक्षतोऽनुपलब्धिः साऽभावहेतुः= अभावसाधिका न भवति यथा 'वह्निमान् धूमात्' इत्यत्र वन्हेः, तथा चावरणेन रइम्यर्थसंनिकर्षस्य तेन चक्षुरश्मेरनुमानं भवति चक्रश्मि विना तत्संनिकर्षासंभवादिति सिद्धश्चक्रश्मिरिति तत्संनिकर्षेण पदार्थप्रकाशे सिद्धे पूर्वोक्तरीत्या भौतिकत्वमिन्द्रियाणां सिद्धमिति सूत्रार्थः / व्याचष्टे- संनिकर्षेति, संनिकर्षप्रतिषेधार्थेन= संनिकर्षप्रतिबन्धकेनावरणाख्यलिनेन रइम्यर्थसंनिकर्ष उक्तरीत्यानुमीयते तेन चक्षूरश्मि नुमीयते इत्यनुमानसिद्धस्य चक्षुरश्मेः प्रत्यक्षानुपलब्ध्या नाऽभावः संभवतीत्यन्वयः / अत्र दृष्टान्तमाहयथेति, यथा चन्द्रोपरिभागस्य पृथिव्यधोभागस्य चानुमानसिद्धस्य प्रत्यक्षानुपलब्ध्यापि नाऽभावः संभवति तथानुमानसिद्धस्य चक्षूरश्मेरपि नाऽभावः संभवति ततश्चोक्तरीत्येन्द्रियाणां भौतिकत्वं सिद्धमित्यर्थः॥३४॥