________________ इन्द्रियविवेचनम् ] न्यायभाष्यम्। अभौतिकानीत्याह, कस्मात् ? महदणुग्रहणात् // 31 // महदिति- महत्तरं महत्तमं चोपलभ्यते यथा न्यग्रोधपर्वतादि, अण्विति- अणुतरमणुतमं च गृह्यते यथा न्यग्रोधधानादि, तदुभयमुपलभ्यमानं चक्षुषो भौतिकत्वं बाधते- भौतिकं हि यावत् तावदेव व्यामोति अभौतिकं तु विभुत्वात् सर्वव्यापकमिति // 31 // न महदणुग्रहणमात्रादभौतिकत्वं विभुत्वं चेन्द्रियाणां शक्यं प्रतिपत्तम्. इदं खलु रश्म्यर्थसंनिकर्षविशेषात् तद्ग्रहणम् // 32 // तयोर्महदण्वोहणं चक्षुरश्मरथस्य च संनिकर्षविशेषाद् भवति यथा प्रदीपरश्मेरथस्य चेति, रश्म्यर्थसंनिकर्षश्च आवरणलिङ्गः- चक्षुषो हि रश्मिः कुड्यादिभिरावृतमर्थं न प्रकाशयति यथा प्रदीपरश्मिरिति // 32 // अत्र सांख्यमतेन पूर्वपक्षमाह- अभौतिकानीति, आहङ्कारकाणीन्द्रियाणीत्यर्थः। अभौतिकत्वे हेतुं जिज्ञासते- कस्मादिति / सूत्रेण हेतुमाह- महदिति, महतोऽणोश्च विषयस्य ग्रहणादभौतिकानीत्यन्वयः, संयुक्तग्राहकत्वमिन्द्रियाणां नियतं तत्र भौतिकत्वपक्षे इन्द्रियापेक्षया महतो विषयस्येन्द्रियेण व्यापनं न संभवतीति महद्भाहकत्वं न स्यादेवं सूक्ष्मत्वाभावात् सूक्ष्मग्राहकत्वमपि न स्यात्, आहङ्कारिकत्वपक्षे विन्द्रियाणां विभुत्वेन महदणुविषयव्यापनसंभवादयं दोषो नास्तीति महदण्वोर्ग्रहणमुपपद्यते इत्यभौतिकानीन्द्रिणीति सूत्रार्थः / वस्तुतस्तु कृष्णसारं व्यतिरिच्यावस्थितस्य ग्रहणादभौतिकत्वं वक्त. व्यमासीत् / व्याचष्टे- महदिति, किंचित् महद् यथा घटादि किंचिन्महत्तरं यथा वटवृक्षादि किंचिन्महत्तमं यथा पर्वतादि. तत्सर्वमिन्द्रियेणोपलभ्यते, किंचिदणु यथाऽऽम्रबीजादि किंचिदणुतरं यथा गोधूमादि किंचिदणुतमं यथा न्यग्रोधधानादि वटबीजादि तदपि सर्वमिन्द्रियेणोपलभ्यते इत्यन्वयः / उपसंहरति- तदिति, तदुभयम्= महच्चाणु चोपलभ्यमानं चक्षुषो भौतिकत्वं बाधते / अत्र हेतुमाहभौतिकमिति, भौतिकं हि वस्तु यावत्= यत्परिमाणविशिष्टं भवति तावत्= तत्परिमाणविशिष्टमेव पदार्थ व्याप्नोति यथा वितस्तिपरिमितः पटो वितस्तिपरिमितमेव भूभागादिकं व्याप्नोति न न्यूनमधिकं वा तथा चक्षुरपि भौतिकं सत् स्वपरिमाणविशिष्टमेव पदार्थ व्याप्नुयात् तेन तादृशमेव गृह्णीयात् न न्यूनाधिकं न चैवमस्ति, अभौतिकम्= आहङ्कारिकं तु विभुत्वात् सर्वव्यापकं सत् सर्वग्राहकं संभवतीत्यभौतिकमेवेत्यर्थः, एवमन्येषामपीन्द्रियाणामाहङ्कारिकत्वं विज्ञेयम्-विषयदेशप्राप्ते. रिन्द्रियत्वसामान्याचेतिभावः // 31 // ____ उक्तं निराकरोति-नेति, महदणुग्रहणमात्रादिन्द्रियाणामभौतिकत्वं विभुत्वं च नोपपद्यते इत्यन्वयः / इदम् महदणुग्रहणं हि चक्षुरश्मेः पदार्थस्य च संयोगादेव भवति न त्वभौतिकत्वाद् विभुत्वाचेत्येवं सूत्रेणान्वयः / सूत्रेण पूर्वपक्षं परिहरति- रश्मीति, चक्षुरश्मेः पदार्थेन सह संनिकर्षविशेषात्= संयोगविशेषात् तद्ग्रहणम्= महदणुग्रहणं भवति. रश्म्यर्थसंयोगश्चेन्द्रियाणां भौतिकत्वेपि संभवति यथा भौतिकस्य प्रदीपस्य रश्मेः पदार्थेन संयोगो भवत्येव, रश्म्यर्थसंयोगं विना प्रकाशकत्वे व्यवहितस्यापि प्रकाशकत्वं स्याद् न चैवमस्ति, रश्मेश्च संकोचविकासशालित्वाद् महदणुव्यापकत्वं नानुपपन्नमिति भौतिकानीन्द्रियाणीति सूत्रार्थः / महता सह संयोगापेक्षयाऽणुना संयोगस्य विलक्षणत्वादेव सूत्रे संनिकर्षविशेषादित्युक्तम् / व्याचष्टे- तयोरिति, न विभुत्वादितिशेषः / दृष्टान्तमाह- यथेति, यथा प्रदीपरश्मेरर्थस्य च संनिकर्षविशेषात् संनिकृष्टस्य ग्रहणं भवतीत्यन्वयः / रश्म्यर्थसंनिकर्षस्यानुमापकमाह(इम्यर्थेनि, आवरणमेव लिङ्गमस्येत्यावरणलिङ्गः रश्म्यर्थसंनिकर्षः, उपपादयति- चक्षुष इति, यथा प्रदीप