________________ प्रसन्नपदापरिभूषितम्- [3 अध्याये. १आह्निके___ अथेदानीमिन्द्रियाणि प्रमेयक्रमेण विचार्यन्ते- किमाऽऽव्यक्तिकानि ? आहोस्विद् भौतिकानि ? इति / कुतः संशयः ? कृष्णसारे सत्युपलम्भाद् व्यतिरिच्य चोपलम्भात्संशयः // 30 // कृष्णसारं भौतिकं तस्मिन्नऽनुपहते रूपोपलब्धिः उपहते चानुपलब्धिरिति, व्यतिरिच्य कृष्णसारमवस्थितस्य विषयस्योपलम्भो न कृष्णसारप्राप्तस्य, न चाआप्यकारित्वमिन्द्रियाणाम्. तदिदमभौतिकत्वे विभुत्वात् संभवति, एवमुभयधर्मोपलब्धेः संशयः // 30 // लयाभिधानं पृथिव्याश्चोत्पत्त्यभिधानं मिथ्या स्यात् / विपक्षे बाधकमाह- स्थाल्यादिष्विति, घटादिषु तुल्यजातीयानाम्= एकजातीयानामेव परमाणूनामेकस्य घटादिकार्यस्यारम्भकत्वं दृश्यते इति भिन्नजातीनां परमाणूनामेककार्यारम्भकत्वं नोपपद्यते इति अनेकभूतपरमाणूनामुक्तशरीरारम्भकत्वं नोपपद्यते इतिहेतोरपि शरीराणामेकभूतप्रकृतिकत्वं स्वीकार्यमिति भूलोकीयं शरीरं पार्थिवम् पृथिवीमात्रप्रकृतिकमिति सिद्धमित्यर्थः // 29 // // इति शरीरविवेचनम् समाप्तम् // * क्रमप्राप्तमिन्द्रियविवेचनमारभते- अथेति, प्रमेयक्रमश्च " आत्मशरीरेन्द्रिय " इति प्रमेयोद्देशसूत्रे द्रष्टव्यः / विकल्पयति- किमिति, आव्यक्तिकानि= आहङ्कारिकाणि= अहङ्कारोत्पन्नानि, सांख्यमतेऽव्यक्तस्यैव मूलकारणत्वादाव्यक्तिकानीन्द्रियाणि, भौतिकानि= पृथिव्यादिभूतजन्यानि वेति संशयः / संशयकारणं जिज्ञासते- कुत इति / सूत्रेणोत्तरमाह- कृष्णेति, कृष्णसारे= कनीनिकाख्ये नेत्रगोलके सति उपलम्भात्= रूपोपलब्धिर्भवति असति च न भवतीति अन्वयव्यतिरेकाभ्यां कृष्णसारस्य चक्षुरिन्द्रियत्वं प्राप्तम्- रूपग्राहकस्यैव चक्षुरिन्द्रियत्वस्वीकारात्. कृष्णसारश्च भौतिक एव-रूपादिलक्षणभूतगुणविशिष्टत्वात् तथा च भौतिकश्चतुर्गोलक एव चक्षुरिन्द्रियं न तदतिरिक्तम् एवं ब्राणादिष्वपि योज्यमिति बौद्धपक्षः, अत्र " कृष्णसारमेव चक्षुरिति बौद्धाः” इतितात्पर्यटीका / व्यतिरिच्य= पृथग्भूय- कृष्णसारात पृथग्भूतस्योपलम्भो भवति न तु कृष्णसारसंलग्नस्य कजलादेः. इन्द्रियं च संयक्तमाहकम अन्यथा व्यवहितस्यापि ग्रहणं स्यात तत्र यदि कृष्णसार इन्द्रियं स्यात्तदा स्वसंयक्तं ग्रहीयादेव न च कृष्णसारसंयुक्तस्य ग्रहणं भवतीति न कृष्णसार इन्द्रियं किं तु तदतिरिक्तमेवेन्द्रियं, तदतिरिक्तमपि किं भौतिकं वाऽऽहङ्कारिकं वेति संशय इतिसूत्राशयः, सूत्राक्षरैस्तु कृष्णसारे इन्द्रियत्वसंशयः प्रतिपाद्यते, किं वा सूत्रस्य प्रथमदलेन भौतिकत्वं प्राप्तम्- भूतगुणविशिष्टत्वात द्वितीयदलेन च दूरस्थग्रहणाद् विभुत्वं तेन चाहङ्कारिकत्वमिन्द्रियाणां प्राप्तम्- भौतिकानां विभुत्वासंभवादित्याशयः / __ व्याचष्टे- कृष्णसारमिति, रूपादिभूतगुणयुक्तत्वाद् भौतिकम् , तस्मिन् = कृष्णसारे, अनुपहतेविद्यमाने इत्यन्वयव्यतिरेकाभ्यां चक्षोलकस्य भौतिकस्येन्द्रियत्वं प्राप्तम / द्वितीयपक्षमाह-व्यतिरिच्येति, कृष्णसारं व्यतिरिच्य= पृथग्भूय% कृष्णसारापेक्षया पृथगवस्थितस्य, कृष्णसारप्राप्तस्यकृष्णसारसंलग्नस्य कजलादेः / स्वाभिप्रायमाह- न चेति, अप्राप्यकारित्वम्= असंयुज्य ग्राहकत्वं असंयुक्तग्राहकत्वं चेन्द्रियाणां नास्त्येव- व्यवहितग्रहणाभावात् / पर्यवसितमाह- तदिदमिति, इदम= कृष्णसारं व्यतिरिच्य स्थितस्य ग्रहणम् , अभौतिकत्वे आहङ्कारिकत्वे, यदीन्द्रियं भौतिक स्यात्तदा दूरस्थस्य ग्रहणं न स्यात्- भौतिकस्य विभुत्वाभावेन दूरस्थेन सह संयोगासंभवात्. यदा चाहकारिकं तदा तु विभुत्वाद् दूरस्थेनापि संयोगसंभवाद् दूरस्थग्रहणं संभवति, संयुक्तग्राहकत्वं चेन्द्रियाणां नियतमेवेत्यर्थः / उपसंहरति- एवमिति, कृष्णसारे रूपादीनां भूतधर्माणामुपलब्धिः, विभुत्वस्य चाहकारधर्मस्योक्तरीत्योपलब्धिरिति हेतोरिन्द्रियेषु भौतिकत्वाऽऽहङ्कारिकत्वयोः संशय इत्यर्थः // 30 //