________________ न्यायभाष्यम्। शरीरविवेचनम् ] 245 संनिहितानामिति, यथा स्थाल्यामुदकतेजोवाय्वाकाशानामिति / तदिदमनेकभूतप्रकृति (सत् ) शरीरम् अगन्धमऽरसमऽरूपमऽस्पर्श च प्रकृत्यनुविधानात् स्यात् . न त्विदमित्यम्भूतं तस्मात् पार्थिवं गुणान्तरोपलब्धेः // 28 // श्रुतिप्रामाण्याच // 29 // " सूर्य ते चक्षुर्गच्छताम्" इत्यत्र मन्त्रे “पृथिवीं ते शरीरम् " इति श्रूयते तदिदं प्रकृतौ विकारस्य प्रलयाभिधानमिति / " सूर्य ते चक्षुः स्पृणोमि " इत्यत्र मन्त्रान्तरे " पृथिवीं ते शरीरं स्पृणोमि" इति श्रूयते सेयं कारणाद् विकारस्य स्पृत्तिरभिधीयते इति / स्थाल्यादिषु च तुल्यजातीयानामेककार्यारम्भदर्शनाद् भिन्नजातीयानामेककार्यारम्भानुपपत्तिः // 29 // शरीरे संनिहितानामपि भूतानां जलादीनां गुणोपलब्धिः संभवतीति " तद्गुणोपलब्धेः” इत्यादिहेतवो जलादिभूतानां मनुष्यादिशरीरप्रकृतित्वसाधने संदिग्धा एवेति न तादृशसाध्यसाधकाः संभवन्तीत्यर्थः / अत्र दृष्टान्तमाह- यथेति, यथा घटादावुदकतेजोवाय्वाकाशानां पृथिव्या संयोगादेव तत्तद्गुणोपलब्धिभवति घटादीनामुत्पत्तिश्च भवति न तु भूतपञ्चकप्रकृतिकत्वेन- पृथिव्या एव घटादिप्रकृतित्वस्य प्रसिद्धत्वात् तथैव शरीरेपि जलादिभूतानां गुणोपलब्धावपि न शरीरं पञ्चभूतप्रकृतिकं किं तु पृथिवीमात्रप्रकृतिकमेव भूतान्तराणां तु संयोगमात्रमेव तादृशसंयोगेनापि भूतान्तरगुणोपलब्धिसंभवादऽनेकभूतप्रकृतिकत्वस्वीकारे गौरवादित्यर्थः / विपक्षे बाधकमाह- तदिदमिति, अनेकभूतप्रकृति सदित्यन्वयः, यदीदं शरीरमनेकभूतप्रकृतिकं स्यात् तदाऽगन्धम्= गन्धादिगुणरहितमेव स्यात्- भूतानां परस्परं विरोधेन परकीयगुणोपमर्दकत्वात् , यथा तेजसा जलनाशे जलगुणोपलब्धिर्न स्यात् जलेन च तेजोनाशे तेजोगुणोपलब्धिर्न स्यात् / प्रकृत्यनुविधानात्= प्रकृतिभूतभूतानुरोधात् गन्धादिरहितं स्यादित्यन्वयः, अत्र- "पृथिव्युदकाभ्यामारभ्यमाणमगन्धम्- कारणगन्धस्यैकस्याऽनारम्भकत्वात्. पृथिव्यनलाभ्यामारभ्यमाणमगन्धमरसं च- कारणगन्धरसयोः केवलयोरनारम्भकत्वात् " इत्यादिवार्तिकम् , अस्य- " अयमभिसंधिः-पृथिव्याप्यपरमाणू तावन्नैकं ब्यणुकमारब्धुमर्हतः- तयो रूपरसस्पर्शवत्त्वेन तदारम्भसंभवेपि गन्धवत्त्वाभावप्रसमात्" इति तात्पर्यटीका च / किं वा प्रकृत्यनुविधानं हि स्वसमवायिकारणसादृश्यं तच्च कार्यमाने नियतमस्ति. तत्र गन्धदयो गुणाः पृथिव्यादिमात्रगुणा एव न तु भूतपञ्चकगुणा इति शरीरस्यानेकभूतप्रकृतिकत्वे गन्धादिशून्यत्वं स्यादेव- प्रकृत्यनुविधानात्. अनेकभूत. समुदायस्य गन्धादिसमवायिकारणत्वाभावादित्यर्थः / पर्यवसितमाह- नेति, यदि शरीरमनेकभूतप्रकृतिकं स्यात्तदा इत्थम्भूतम्= दृष्टस्वरूपम्= भूतपञ्चकगुणविशिष्टं न स्यादुक्तहेतोरित्यन्वयः / उपसंहरति- तस्मादिति, गुणान्तरोपलब्धेः= जलादिगुणानामुपलब्धेः, शरीरस्यैकभूतप्रकृतिकत्वे तु शरीरे संनिहितानां भूतानामप्राधान्यात् परकीयगुणोपमर्दकत्वं नापद्यते. वार्तिकोत्तरीत्यापि च गन्धादिराहित्यं नापद्यते इति सर्वभूतगुणानामुपलब्धिः संभवति // 28 // उक्ते श्रुतिं प्रमाणयति- श्रुतीति, “पृथिवीं ते शरीरम्" इत्यादिश्रुतिप्रतिपाद्यत्वादपि भूलो. कीयशरीराणां पृथिवीप्रकृतिकत्वं सिद्धमिति सूत्रार्थः / व्याचष्टे- सूर्यमिति, अनया श्रुत्या चक्षुषः सूर्यप्रकृतिकत्वं सिद्धम् / प्रकृतोपयुक्तां श्रुतिमाह-पृथिवीमिति, गच्छतामित्यनुवर्तनीयम्, श्रुतिरियं यज्ञ पशुमुद्दिश्य प्रवृत्तास्ति / श्रुतिप्रतिपाद्यमाह- तदिदमिति, अनया श्रुत्या प्रकृती विकारस्य लयाभिधानात् पृथिवीशरीरयोः प्रकृतिविकारभावः प्राप्त इति शरीरस्य पृथिवीप्रकृतिकत्वं सिद्धमित्यर्थः / उत्पत्तिवाक्यमुदाहरति- सूर्यमिति, स्पृणोमि= करोमि / प्रकृतोपयुक्तां श्रुतिमाह- पृथिवीमिति, श्रुतिप्रतिपाद्यमाह- सेयमिति, कारणात्= पृथिव्याः विकारस्य= शरीरस्य स्पृत्तिः= उत्पत्तिरभिधीयते. तदनेनोक्तशरीराणां पृथिवीप्रकृतिकत्वं स्पष्टमेव सिद्धम्- अनेकभूतप्रकृतिकत्वे शरीरस्य श्रुत्या पृथिव्यां