________________ 244 प्रसन्नपदापरिभूषितम्- [3 अध्याये. १आह्निकेतत्र मानुषं शरीरं पार्थिवम् , कस्मात् ?. गुणान्तरोपलब्धेः= गन्धवती पृथिवी गन्धवच्च शरीरम् , अबादीनामऽगन्धत्वात् तत्प्रकृति अगन्धं स्यात् / न विदमबादिभिरसंपृक्तया पृथिव्याऽऽरब्धं चेष्टेन्द्रियार्थाश्रयभावेन कल्पते इत्यतः पञ्चानां भूतानां संयोगे सति शरीरं भवति, भूतसंयोगो हि मिथः पञ्चानां न निषिद्ध इति / आप्यतैजसवायव्यानि लोकान्तरे शरीराणि तेष्वपि भूतसंयोगः पुरुषार्थतन्त्र इति / स्थाल्यादिद्रव्यनिष्पत्तावपि निस्संशयः- नाऽबादिसंयोगमन्तरेण निष्पत्तिरिति / _ 'पार्थिवाप्यतैजसम्- तद्गुणोपलब्धेः 'निःश्वासोच्छ्वासोपलब्धेश्चातुभौतिकम् ' 'गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम् ' ते इमे संदिग्धा हेतव इत्युपेक्षितवान् सूत्रकारः। कथं संदिग्धाः 1, सति च प्रकृतिभावे भूतानां धर्मोपलब्धिः असति च संयोगाप्रतिषेधात् व्याचष्टे- तत्रेति, तत्र= विविधशरीरेषु मध्ये मानुषम्= मनुष्यलोकीयं शरीरं पार्थिवम्- वरुणा दिलोकेषु जलीयादिशरीरस्वीकारादित्यर्थः / उक्ते हेतुं जिज्ञासते- कस्मादिति / हेतुमाह-गुणेति / उक्तं व्याचष्टे- गन्धेति, गन्धवत्त्वात् पार्थिवमित्यर्थः / विपक्षे बाधकमाह- अबादीनामिति, यदि मनुष्यादिशरीरं तत्प्रकृति= जलादिप्रकृतिकं स्यात्तदा गन्धरहितं स्यात्- जलादीनां गन्धरहितत्वात् , कारणगुणानामेव कार्यगुणारम्भकत्वात् , न च शरीरं गन्धरहितमिति पार्थिवमेवेत्यर्थः / स्वाभिप्रायमाह- नेति, इदं शरीरं जलादिभिरसंपृक्तया= असंयुक्तया पृथिव्याऽऽरब्धम्= उत्पादितं न चेष्टादीनामाश्रयभावेनआश्रयत्वेन= आश्रयः कल्पते= संभवतीति पञ्चानामपि भूतानां संयोगेन शरीरं भवति= उत्पद्यते तत्र पृथिव्याः प्राधान्यादेव पार्थिवमित्युच्यते- “प्राधान्येन व्यपदेशा भवन्ति" इतिन्यायात् तथा च वेदान्तसूत्रम्- “वैशेष्यात्तु तद्वादः" इति, चेष्टा= क्रिया इन्द्रियं चक्षुरादि, अर्थः= सुखादिभोगस्तेषामश्रयः / ननु पञ्चानां भूतानां संयोगः कथमित्याशङ्कयाह- भूतसंयोग इति, पञ्चानां भूतानां संयोगो नात्र निषिद्ध इति शरीरे पञ्चभूतसंयोग उपपद्यते इत्यन्वयः। शरीरान्तराण्याह- आप्येति, आप्यानिजलीयानि शरीराणि वरुणलोके. तैजसानि शरीराणि सूर्यलोके. वायव्यानि शरीराणि वायुलोके सन्तीत्यन्वयः, तत्राप्येकभूतारब्धेन शरीरेण भोगो न संभवतीति तेष्वपि शरीरेषु भूतसंयोगःभूतचतुष्टयसंयोगः पुरुषार्थतत्र:= भोगाधीनोस्त्येव तथापि जलादीनां प्राधान्यादेव जलीयत्वादिव्यपदेश इत्यर्थः / अत्र दृष्टान्तमाह- स्थाल्येति, घटादिपदार्थोत्पत्तावपि भूतसंयोगो निस्संशयः अपेक्ष्यतेजलादिसंयोगं विना केवलया मृदा घटाद्युत्पत्तेरसंभवात् तथैव शरीरेष्वपि भूतान्तरसंयोगः स्वीक्रियते इत्यर्थः / निष्पत्तिः= घटाद्युत्पत्तिः / / त्रिभूतप्रकृतिकमतमाह- पार्थिवेति, पार्थिवाप्यतैजसम्= पृथिवीजलतेजःप्रकतिकं शरीरम्-पृथिव्यादित्रयाणामपि गुणोपलब्धेः, तत्र गन्धादिकं पृथिवीगुणः प्रस्वेदादिकं जलविकारः रसो जलगुणः उष्णत्वं च तेजोगुणः। भूतचतुष्टयप्रकृतिकमतमाह- निःश्वासेति, पृथिव्यादिभूतत्रयस्य गुणोपलब्धिः प्रकृतैव तत्रापि वायुस्वरूपयोनिःश्वासोच्छासयोरप्युपलब्ध्या चातुभौतिकत्वं शरीरस्य प्राप्तमित्यर्थः / पञ्चभूतात्मकत्वमतमाह- गन्धेति, गन्धः पृथिव्या:. क्लेदः= आर्द्रता जलस्य. अन्नपाकस्तेजसः. व्यूहः= निश्श्वादिः किं वा श्वासेन बाह्यपदार्थाकर्षणं वायो.. अवकाशदानम्= भक्षितस्य स्थानदानं चाकाशस्य गुण इति पञ्चानामपि भूतानां शरीरे गुणोपलब्ध्या शरीरं पाञ्चभौतिकमित्यर्थः, पार्थिवाप्येत्यादिवाक्यत्रयस्य सूत्रत्वनिर्देशस्तु ते इमे इत्याद्यग्रिमभाष्यविरुद्ध एवेति विभाव्यम् / सूत्रकारेणैतत्पक्षानुक्तौ हेतुमाह- ते इमे इति / तद्गुणोपलब्धेरित्यादिहेतवः / उक्तहेतूनां संदिग्धत्वे हेतुं जिज्ञासतेकथमिति / उत्तरमाह- सतीति, पृथिव्यतिरिक्तानां जलादिभूतानां शरीरप्रकृतित्वे सत्यपि शरीरे तेषां भूतानां गुणोपलब्धिः संभवति. असत्यपि च शरीरप्रकृतित्वे जलादीनां पृथिव्याः संयोगस्वीकारात्