________________ 243 शरीरविवेचनम् ] न्यायभाष्यम् / जातिविशेषाच्च रागविशेष इति / कर्म खल्विदं जातिविशेषनिर्वर्तकं तादात्म्यात् ताच्छब्धं विज्ञायते, तस्मादनुपपन्नम्संकल्पादन्यद् रागकारणमिति // 27 // अनादिश्चेतनस्य शरीरयोग इत्युक्तम्. स्वकृतकर्मनिमित्तं चास्य शरीरं सुखदुःखाधिष्ठानं तत् परीक्ष्यते- किं घ्राणादिवदेकप्रकृतिकम् ? उत नानाप्रकृतिकम् ? इति / कुतः संशयः ?, विप्रतिपत्तेः संशयः- पृथिव्यादीनि भूतानि संख्याविकल्पेन शरीरप्रकृतिरिति पतिजानते इति / किं तत्र तत्त्वम् ? . पार्थिवं गुणान्तरोपलब्धेः॥ 28 // ___सामान्यरागस्याऽसाधारणं कारणमुक्त्वा संप्रति रागविशेषस्य कारणमाह- जातीति, जातिविशेषात्= गवादिजातिविशेषसंपादकाददृष्टाद् रागविशेषो जायते यथा मनुष्यदेहप्राप्तौ तत्कारणीभूतादृष्टादन्ने रागो जायते गवादिदेहप्राप्तौ तत्कारणीभूताददृष्टात् तुषादौ रागो जायते. अयमेव रागविशेष इत्यर्थः / व्याचष्टे- कर्मेति, जातिविशेषनिर्वर्तकम्= गवादिजातिसंपादकं कर्मात्र जातिविशेषशब्देन ग्राह्यमित्यर्थः, उक्ते हेतुमाह- तादात्म्यादिति, कार्यकारणयोरभेदस्वीकारेण कारणस्य कर्मणः कार्यस्य जातेश्च तादात्म्यात्= अभेदात् ताच्छब्द्यम्= कर्मणो जातिशब्देन प्रतिपादनम्= जातिशब्दबोध्यत्वं विज्ञायते- विज्ञेयमिति अदृष्टविशेषादेव रागविशेषो जायते इत्यर्थः / तथा च योगसूत्रम्- " सति मूले तद्विपाको जात्यायुभोंगाः" इति / उपसंहरति- तस्मादिति / तथा च कर्मणामदृष्टस्य च साधारणकारणत्वादसाधारणकारणान्वेषणायामनुभूतार्थस्मरणजन्यसंकल्पादेव रागो जायते नान्यथेति सिद्धम् , अर्थानुभवश्च जातमात्रस्य पूर्वजन्मन्येव संभवतीति सिद्धमुक्तरीत्याऽऽत्मनो नित्यत्वमित्यर्थः / अत्र- " कर्मणः संस्कारोद्बोधकत्वात् करभजात्यर्थेन कर्मणा जन्मसहस्रव्यवहितापि करभभावनोद्बोध्यते नाऽनन्तरापि मनुष्यभावना प्रायणाभिभूतेतिभावः” इति तात्पर्यटीका // 27 // // इत्याऽऽत्मनित्यत्वप्रतिपादनम् आत्मविवेचनं च समाप्तम् // आत्मविवेचनं समाप्य शरीरविवेचनमारभते- अनादिरित्यादिना / शरीरयोगः= शरीरसंबन्धः / आत्मनः सुखादिकं शरीरावच्छेदेनैव भवतीति शरीरं सुखाद्यधिष्ठानम् , तत्= शरीरम् / अत्र संशयमाह- किमिति, घ्राणं पृथिवीजन्यमेव चक्षुस्तेजोमात्रजन्यमिति घ्राणादिकमिन्द्रियमेकप्रकृतिकम्= एकभूतकारणकं तथैव शरीरमपि किमेकभूतकारणकं किं वा नानाभूतकारणकमिति संशयः / संशयकारणं जिज्ञासते- कुत इति / संशयकारणमाह- विप्रतिपत्तेरिति / विप्रतिपत्ति प्रदर्शयति- पृथिव्यादीनीति, संख्याविकल्पेनेति- एका पृथिव्येव शरीरकारणमिति केचित् शास्त्रकाराः प्रतिजानते= प्रतिज्ञां कुर्वन्ति. केचित् पृथिवीजलेतिभूतद्वयं केचित् भूतत्रयं केचिद् भूतचतुष्टयं केचिद् भूतपञ्चकं शरीरकारणमिति संख्याविकल्पेन प्रतिजानते. एतादृशविप्रतिपत्त्यैव संशय इत्यन्वयः / एषु परस्परविरुद्धपक्षेषु यथार्थपक्षं जिज्ञासते-किमिति / . सूत्रेण तत्त्वमाह- पार्थिवमिति, भूलोके शरीरं पार्थिवम्= पृथिवीकारणकम्- गुणान्तरोपलब्धेः= पृथिव्यतिरिक्तजलादिगुणानां शरीरेषूपलब्धेः, यदि शरीरमनेकभूतप्रकृतिकं स्यात्तदा वक्ष्यमाणरीत्या गुणान्तरोपलब्धिर्न स्यादित्यग्रे स्पष्टम् , भूलोकीयशरीराणां प्रधानं कारणं पृथिव्येव जलादिकं भूतचतुष्टयमप्रधानं कारणमस्त्येव- केवलपृथिव्याः कार्योत्पत्तेरसंभवादिति सूत्रार्थः /