________________ 242 प्रसन्नपदापरिभूषितम्- [3 अध्याये. १आह्निकेन खलु सगुणद्रव्योत्पत्तिवद् उत्पत्तिरात्मनो रागस्य च / कस्मात् ?. संकल्पनिमितत्वाद्रागादीनाम्= अयं खलु प्राणिनां विषयानाऽऽसेवमानानां संकल्पजनितो रागो गृह्यते. संकल्पश्च पूर्वानुभूतविषयानुचिन्तनयोनिः तेनानुमीयते- जातस्यापि पूर्वानुभूतार्थचिन्तनकृतो राग इति / आत्मोत्पादाधिकरणात्तु रागोत्पत्तिर्भवन्ती संकल्पादन्यस्मिन् रागकारणे सति वाच्या कार्यद्रव्यगुणवत्, न चात्मोत्पादः सिद्धः नापि संकल्पादन्यद् रागकारणमस्ति, तस्मादयुक्तम्- 'सगुणद्रव्योत्पत्तिवत्तयोरुत्पत्तिः' इति / अथापि संकल्पादन्यद् रागकारणं धर्माधमेलक्षणमदृष्टमुपादीयते तथापि पूर्वशरीरयोगोऽप्रत्याख्येयः- तत्र हि तस्य निदृत्तिनर्नाऽस्मिन् जन्मनि // तन्मयत्वाद्राग इति / विषयाभ्यासः खल्वयं भावनाहेतुस्तन्मयत्वमुच्यते इति // सरागस्योत्पत्तिः संभवतीति सूत्रार्थः / व्याचष्टे- नेति, संभवतीविशेषः / सरागस्योत्पत्तिस्वीकारेपि तादृशरागस्य कारणं जातमात्रस्य पूर्वजन्मगतविषयानुभव एव स्यादित्यपि विज्ञेयम् / उक्ते कारणं जिज्ञासते- कस्मादिति / उत्तरमाह- संकल्पेति / उक्तमुपपादयति- अयमिति, अयं रागः, प्राणिनाम्= जीवानाम् इत्यन्वयः। रागकारणीभूतसंकल्पस्य कारणमाह- संकल्पश्चेति, पूर्वानुभूतविषयानुचिन्तनं योनिः= कारणं यस्य स पूर्वानुभूतविषयानुचिन्तनयोनिः / तेन= रागस्य संकल्पजन्यत्वेन संकल्पस्य च पूर्वानुभूतविषयस्मरणजन्यत्वेन / अपीति- यदा ह्यस्माकं रागः संकल्पद्वारा पूर्वानुभूतार्थचिन्तनजन्यस्तदा जातमात्रस्यापि रागः संकल्पद्वारा पूर्वानुभूतार्थचिन्तनजन्य एवेत्यनुमीयते इत्यन्वयः / पूर्वपक्षिमते दोषमाह- आत्मेति, आत्मोत्पादाधिकरणात्= आत्मोत्पत्तिकारणात्= आत्मसमवायिकारणाद् यदि रागोत्पत्तिरात्मनि स्यात्तदा संकल्पादन्यस्मिन् रागकारणे सति वाच्या संकल्पादन्येनैव कारणेन रागोत्पत्तिर्वक्तव्या कार्यद्रव्यगुणवतू= यथा कार्यद्रव्यगुणस्योत्पत्तिर्न संकल्पात् किं तु कारणगुणादेव तथा तथा च यद्यात्मोत्पादः= आत्मोत्पत्तिः सिद्धा स्यात्तदाऽऽत्मोत्पत्तिकारणेभ्यो रागोत्पत्तिः सिद्धा स्यादपि न चात्मोत्पत्तिः सिद्धास्ति येनैवं स्यादित्याह-न चेति / रागस्यापि संकल्पादन्यत् स्वभावादिकं कारणं न संभवति येन संकल्पं विना रागः सिध्येदित्याह- नापीति, तथा च रागस्य संकल्पेन संकल्पस्य पर्वानुभूतार्थस्मरणेन तत्स्मरणस्य पूर्वानुभवेन तस्य पूर्वजन्मना पूर्वजन्मनश्वाऽऽत्मनित्यत्वेन सिद्धिः संभवतीति सिद्धमात्मनो नित्यत्वमित्यर्थः। उपसंहरति- तस्मादिति / तयोः= रागात्मनोः / स्वसिद्धान्तमाह- अथेति, अथापि= यद्यपि अदृष्टस्य साधारणकारणत्वात् संकल्पादन्यद् अदृष्टमपि रागकारणमस्ति तथापि अदृष्टस्य रागकारणत्वेप्यात्मनः पूर्वजन्मीयशरीरसंबन्धः प्रत्याख्यातुं न शक्यतेतत्र पूर्वजन्मीयशरीरे एव तस्य= अदृष्टस्य= वर्तमानजन्मनि रागादिकारणीभूतस्यादृष्टस्य निर्वृत्तिः= सिद्धिः संभवति नास्मिन् वर्तमाने जन्मनि- पूर्वजन्मकृतकर्मणामेव विशेषतो भोगस्वीकारात् तथा च यथा जातमात्रस्य पूर्वानुभवार्थ पूर्वजन्मापेक्षास्ति तथा रागकारणीभूतस्यादृष्टस्यापि सिद्धयर्थं पूर्वजन्मा. पेक्षास्त्येवेत्यनेकजन्मसंबन्धित्वादात्मनो नित्यत्वं सिद्धमेवेत्यर्थः // रागस्याऽदृष्टलक्षणं साधारणकारणमुक्त्वा संप्रति सिंहावलोकितन्यायेन पुनरसाधारणं कारणमाह- तन्मयत्वादिति, तन्मयत्वम् = विषयपरायणत्वम्= विषयाभ्यास इतियावत् तथा च तन्मयत्वात्= विषयाभ्यासादेवाऽभ्यस्ते विषये रागो जायते नान्यथा. विषयाभ्यासश्च जातमात्रस्य पूर्वजन्मन्येव वक्तव्य इत्युक्तरीत्या पूर्वजन्मसिद्धथाऽनादित्वेनात्मनो नित्यत्वं सिद्धमित्यर्थः / स्वयं व्याचष्टेविषयाभ्यास इति, भावनाहेतुः= वासनाहेतुः= संस्कारकारणीभूतः= संस्कारोत्पादको विषयाभ्यास:विषयभोग एव तन्मयत्वमित्युच्यते तथा च तन्मयत्वात् विषयाभ्यासादेव रागो जायते इत्यर्थः / /