________________ आत्मविवेचनमा न्यायभाष्यम् / 241 पद्यते. सोयमात्मा पूर्वशरीरानुभूतान् विषयान् अनुस्मरन् तेषु तेषु रज्यते. तथा चायं द्वयोर्जन्मनोः प्रतिसन्धिः, एवं पूर्वशरीरस्य पूर्वतरेण पूर्वतरशरीरस्य पूर्वतमेन इत्यादिनाऽनादिश्चेतनस्य शरीरयोगः अनादिश्च रागानुबन्ध इति सिद्धं नित्यत्वमिति // 25 // कथं पुनर्ज्ञायते- पूर्वविषयानुचिन्तनजनितो जातस्य रागः न पुनः सगुणद्रव्योत्पत्तिवत्तदुत्पत्तिः ? // 26 // यथोत्पत्तिधर्मकस्य द्रव्यस्य गुणाः कारणत उत्पद्यन्ते तथोत्पत्तिधर्मकस्यात्मनो रागः कुतश्चिदुत्पद्यते / अत्रायमुदितानुवादो निदर्शनार्थः // 26 // न- संकल्पनिमित्तत्वाद्रागादीनाम् // 27 // इत्यन्वयः, वृद्धादीनां पूर्वानुभवस्यास्मिन् जन्मन्यपि संभवे जातमात्रस्य तु पूर्वानुभवोऽस्मिन् जन्मनि न संभवतीति तदर्थ पूर्वजन्म पूर्वशरीरं च स्वीकार्यमेवेत्यर्थः / पर्यवसितमाह- सोयमिति, तेषु तेषु विषयेषु रज्यते= रागवान् भवति / तथा चायमात्मा द्वयोः= पूर्वोत्तरयोजन्मनोः प्रतिसन्धिः= सबंन्धकर्ता अर्गलादिवत् शृङ्खलावद्वा- उभयसंबन्धित्वात् , किं वा प्रतिसन्धिः= प्रतिसंबन्धिः= संबन्धवानित्यर्थः, एवं पूर्वशरीरस्य पूर्वतरेण शरीरेण पूर्वतरशरीरस्य पूर्वतमेन शरीरेण प्रतिसन्धिः , किं वा पूर्वशरीरस्यात्मन पूर्वतरशरीरेण सह पूर्वतरशरीरस्य चात्मनः पूर्वतमशरीरेण संबन्धः सिद्ध इत्यात्मनः शरीरसंबन्धो रागसंबन्धश्चानादिरेव सिद्धस्तेनात्मनोप्यनादित्वं तेन च नित्यत्वं सिद्धमिति नाऽनित्यविज्ञानादेरात्मत्वं संभवतीत्यर्थः // 25 // ____ अग्रिमसूत्रमवतारयति- कथमिति, जातस्यात्मनो यो रागः स पूर्वानुभूतविषयस्मरणजन्यो भवतीति कथं ज्ञायते ? सगुणद्रव्योत्पत्तिवत् सरागस्योत्पत्तिर्न भवतीति च कथं ज्ञायते इत्येवं सूत्रेण सहान्वयः / पूर्वपक्षी स्वाभिप्रायमाह- सगुणेति, यथा द्रव्यस्य घटादेः सगुणस्य= रूपादिविशिष्टस्यैवोत्पत्तिर्भवति तथा तत्= तस्य= आत्मनोपि सरागस्यैवोत्पत्तिः संभवति तथा च रागसिद्धयर्थं पूर्वजन्मनि विषयानुभवापेक्षा नास्ति तेन पूर्वजन्मापेक्षापि नास्तीति न सरागत्वेनात्मनो नित्यत्वापत्तिरित्यऽनित्य आत्मेति सिद्धमिति सूत्रार्थः / आत्मनोऽनित्यत्वपक्षेप्यात्मोत्पत्तिकारणादेवात्मनि रागोत्पत्तिः संभवतिकारणगणानां कार्यगणोत्पादकत्वदर्शनादित्याशयः। व्याचष्टे- यथेति. उत्पत्तिधर्मकस्य= जायमानस्य. कारणत इति- "कारणगुणाः कार्यगुणानारभन्ते" इतिस्मर्तव्यम् / प्रकृतमाह- तथेति, कुतश्चिदितिआत्मनोऽनित्यत्वे कारणादुत्पत्तिः प्राप्ता तथा चात्मकारणेभ्य एवात्मनि रागो जायते= संभवतीति न रागस्य पूर्वानुभूतविषयस्मरणजन्यत्वं स्वीकार्यमित्यर्थः / किं वा कुतश्चित्= स्वभावादेव जायते यथा बीजाज्जायमानोङ्कुरः स्वभावादेव हरितरूपवान् जायते- कारणीभूते बीजादौ तादृशरूपाभावादिति नात्मनो रागोपपत्त्यर्थं नित्यत्वस्वीकारप्रसङ्ग इत्यनित्य एवात्मेत्यर्थः / सूत्रनिर्माणकारणमाह- अत्रेति, "अयसः" " पद्मादिषु " इत्यादिसूत्ररात्मनो यदनित्यत्वमुक्तं तदेवानेन सूत्रेणोच्यते इत्ययमुदितस्य= उक्तस्यानुवाद एव स च निदर्शनार्थः= " सगुणद्रव्योत्पत्तिवत्" इति दृष्टान्तान्तरप्रदर्शनार्थ इत्यर्थः, अत्र- "उदितमिदं चोद्यमयस्कान्तदृष्टान्तचोद्येन तथापि तस्यानुवादो निदर्शनार्थः= पूर्वमयस्कान्तो निदर्शनम् इदानीं घटादीनामुत्पद्यमानानां रूपदयोनिदर्शनमिति तदर्थः” इति तात्पर्यटीका // 26 // उक्तं सिद्धान्ती परिहरति- नेति, न सगुणद्रव्यवत् सरागस्यात्मन उत्पत्तिः संभवति- रागादीनां संकल्पनिमित्तत्वात् इष्टसाधनताज्ञानजन्यत्वात्. यस्मिन् दुग्धादाविष्टसाधनताज्ञानं भवति तस्मिन्नेव रागोपि संभवतीति रागस्येष्टसाधनताज्ञानजन्यत्वं प्राप्तम् इष्टसाधनताज्ञानं च पूर्वानुभवं विना न संभवति पूर्वानुभवश्च जातमात्रस्य पूर्वजन्म विना न संभवतीत्युक्तरीत्यात्मनो नित्यत्वं प्राप्तम् , सरागस्योत्पत्तिस्वीकारे रागस्येष्टसाधनताज्ञानजन्यवाभावादनिष्टपदार्थेष्वपि रागः स्याद् न चैवमस्तीति न