________________ 240 प्रसन्नपदापरिभूषितम्- [3 अध्याये. १आह्निके___ अयसः खल्वपि नान्यत्र प्रवृत्तिर्भवति= न जात्वऽयो लोष्टमुपसर्पति / किंकृतोस्य नियमः ? इति, यदि कारणनियमात् स च क्रियानियमलिङ्गः, एवं बालस्यापि नियतविषयोऽभिलाषः कारणनियमाद् भवितुमर्हति, तच्च कारणमभ्यस्तस्मरणम् अन्यद्वेति दृष्टेन विशिप्यते= दृष्टो हि शरीरिणामभ्यस्तस्मरणादाहाराभिलाष इति // 24 // इतश्च नित्य आत्मा, कस्मात् ? वीतरागजन्मादर्शनात् // 25 // सरागो जायते इत्यादापद्यते, अयं जायमानो रागानुविद्धो जायते. रागस्य पूर्वानुभूतविषयानुचिन्तनं योनिः. पूर्वानुभवश्च विषयाणां पूर्वस्मिन् जन्मनि शरीरमन्तरेण नोपभवतीति जायमानस्य स्तन्याभिलाषस्यापि निमित्तेनावश्यं भवितव्यमित्यर्थः / विपक्षे बाधकमाह- न चेति, दृष्टान्तेनोक्तेन दृष्टस्याभिलाषहेतोर्बाधो नोपपद्यते इत्यन्वयः, अभिलाषस्य पूर्वानुभूतार्थविषयकं स्मरणं कारणं दृष्टमेवेति स्पष्टमेव तथा च बालस्यापि पूर्वानुभूतविषयकं स्मरणं तेन पूर्वानुभवस्तेन पूर्वजन्म तेनानादित्वं तेनात्मनो नित्यत्वं स्वीकार्यमेवेत्यर्थः / उपसंहरति- तस्मादिति, अदृष्टान्तःआत्माऽनित्यत्वसाधने किं वा स्तन्याभिलाषस्यानिमित्तकत्वसाधने दृष्टान्तो न भवति- अयस्कान्ताभिगमनवत् स्तन्याभिलापस्यापि सनिमित्तकत्वप्राप्त्या उक्तरीत्यात्मनो नित्यत्वस्यैव सिद्धेरित्यर्थः / द्वितीयप्रकारेण व्याचष्टे- अयस इति, यथाऽयस्कान्तोपसर्पणं लोष्टादिषु नास्ति तथा लोहस्यापि अन्यत्र= अयस्कान्तातिरिक्ते लोष्टादावुपसर्पणं न भवति / उक्तमेवाह-न जात्विति. अय इति प्रथमान्तम् / अस्य= अयसः किं वाऽयस्कान्तोपसर्पणस्य लोहनिष्ठस्य यो नियमः स किंकृतः= किंनिमित्तक इति जिज्ञासते- किमिति / अत्राप्ययं नियमो निनिमित्तो न संभवतीति सनिमित्तपक्षमनुवदति- यदीति, स च= कारणनियमः क्रियानियम एव लिङ्गमस्येति क्रियानियमलिङ्गः= क्रियानियमानुमेयः- क्रियाया नियमेन तत्कारणनियमोऽनुमीयते, क्रियानियमश्चाऽयसोऽयस्कान्तमात्रोपसर्पणं तस्य कारणनियमे प्राप्ते बालस्यापि यो नियमेन स्तन्याभिलाषस्तस्यापि कारणनियम आवश्यक एवेति प्रकतमाह- एवमिति / कारणस्वरूपमाह- तच्चेति, सामान्यतः प्राप्तमप्यभिलाषकारणमनुभूतस्मरणं वाऽन्यदेति दृष्टेन= लोकदृष्टमार्गेण विशिष्यते= विशेषरूपेण ज्ञातुं शक्यते. तत्र शरीरिणाम जीवानामनुभूतस्याहारस्य स्मरणादेवाहाराभिलाषो दृश्यते इति बालस्यापि स्तन्याभिलाषः पूर्वानुभूतस्तन्यस्मरणादेव वक्तव्यः जातमात्रस्यानुभवश्वास्मिन् जन्मनि न संभवतीति तदनुभवार्थ पूर्वजन्म स्वीकार्य तेनानादित्वं तेन च नित्यत्वमात्मनः सिद्धमित्यर्थः // 24 // अग्रिमसूत्रमवतारयति- इतश्चेति, इतः= सूत्रप्रतिपाद्यहेतोः / पूर्वपक्षिमतेनैवात्मनो नित्यत्वमुपपादयति- वीतेति- वीतरागस्य= रागादिदोषरहितस्य जन्म न भवतीति सरागस्य जन्म भवतीत्यर्थादेव प्राप्तं रागश्च पूर्वानुभवं विना न सिध्यति जातमात्रस्य पूर्वानुभवश्व पूर्वजन्म विना न संभवतीति पूर्वजन्म सिद्धं तेनाऽनादित्वं तेन चात्मानो नित्यत्वं सिद्धम्- अनादिभावस्य नित्यत्वनियमात् , वीतरागस्य जन्माभावस्तु बौद्धैरपि स्वीकृतस्तदुक्तम् ___ " रागादिज्ञानसंतानवासनोच्छेदसंभवा / चतुर्णामपि बौद्धानां मुक्तिरेषा प्रकीर्तिता" इति, तथा च सिद्धमात्मनो नित्यत्वमिति सूत्रार्थः / व्याचष्टे- सराग इति, यदि वीतरागो न जायते तदा सरागो जायते इत्यर्थादेव सिद्धमित्यर्थः / पर्यवसितमाह- अयमिति, रागानुविद्धः= सरागः / रागकारणमाह- रागस्येति, योनिः कारणम् / पूर्वानुभवस्थलमाह- पूर्वानुभव इति, विषयाणां पूर्वानुभव