________________ आत्मविवेचनम् ] न्यायभाष्यम् / 239 यथा खल्यऽयोऽभ्यासमन्तरेणाऽयस्कान्तमुपसर्पति एवमाहाराभ्यासमन्तरेण बालः स्तन्यमभिलपति // 23 // किमिदमयसोऽयस्कान्ताभिगमनं निनिमित्तम् ? अथ निमित्तात् ? इति, निनिमित्तं तावत् न- अन्यत्र प्रवृत्त्यभावात् // 24 // यदि निनिमित्तम् ? लोष्टादयोप्ययस्कान्तमुपसर्पयेयुः- न जातु नियमे कारणमस्तीति / अथ निमित्तात् ?. तत् केनोपलभ्यते ? इति, क्रियालिङ्गः क्रियाहेतुः क्रियानियमलिङ्गश्च क्रियानियमहेतुः तेनान्यत्र प्रवृत्त्यभावः / बालस्यापि नियतमुपसर्पणं क्रियोपलभ्यते. न च स्तन्याभिलापलिङ्गम् अन्यदाहाराभ्यासकृतात् स्मरणानुबन्धात् , निमित्तं दृष्टान्तेनोपपाद्यते. न चाऽसति निमित्ते कस्य चिदुत्पत्तिः, न च दृष्टान्तो दृष्टमभिलापहेतुं बाधते, तस्मादयसोऽस्कान्ताभिगमनमऽदृष्टान्त इति / नित्यत्वं प्राप्नुयादित्य नित्य एवात्मा. अयसश्च पूर्वजन्म नैव संभवति-विनाशित्वात्तथापि प्रवृत्तिर्दृश्यते तथैवात्मपक्षेपि योज्यमिति सूत्रार्थः / व्याचष्टे- यथेति / प्रकृतमाह- एवमिति, स्तन्यमभिलपति स्तन्यपानार्थ प्रवर्तते, स्पष्टं सर्वम् / तदनेनात्मनो नित्यत्वानुपपत्तिः प्रदर्शितेत्याशयः // 23 / / ____ अग्रिमसूत्रावतारायाऽयसोऽयस्कान्ताभिगमनं सकारणं वा निष्कारणं वेति विकल्पयतिकिमिदमिति, निमित्तात्= सनिमित्तमित्यर्थः / प्रथमकल्पं निराकरोति- निनिमित्तमिति, अयसोऽयस्कान्ताभिगमनं निर्निमित्तं न भवति- असंभवादित्येवं सूत्रघटकनकारेणान्वयः। नेति- अयसोऽय. स्कान्ताभिगमनमपि न निर्निमित्तम् अकारणकम्- अन्यत्र= लोष्टादौ प्रवृत्त्यभावात्= प्रवृत्त्यदर्शनात् , यदीदमभिगमनं निनिमित्तं स्यात्तदा लोप्टादीनामपि अस्कान्तोपसर्पणाय प्रवृत्तिः स्यात् न चैवं दृश्यते किं वा लोहस्याऽन्यत्र लोष्टादौ प्रवृत्तिः स्यात्- अयस्कान्तोपसर्पणनियमे निमित्ताभावात् न चैवमपि दृश्यते- लोहस्याप्यन्योपसर्पणं न दृश्यते किं त्वयोऽयस्कान्तमेवोपसर्पतीति नियमात् तादृशोपसर्पणस्य निमित्तं स्वीकार्यमेव तच्च निमित्तमयस्कान्ते लोहाकर्षणशक्तिरेव एवं बालस्यापि स्तनोपसर्पणं स्तन्याभिलापश्च सनिमित्त एवेति सिद्धम् अभिलापनिमित्तं च पूर्वानुभूतस्मरणमेव संभवति. जातमात्रस्य पूर्वानुभवश्च पूर्वजन्मन्येव संभवतीति पूर्वजन्मपरम्परयात्मनो नित्यत्वं सिद्धमिति सूत्रार्थः / ब्याचष्टेयदीति, तदनेन निर्निमित्तकल्पः प्रत्याख्यातः, यद्यऽयस्कान्ताभिगमनं निर्निमित्तमित्यन्वयः / उक्त हेतुमाह- नेति, निनिमित्तपक्षे अय एवोपसपेंदिति नियमे कारणं न संभवतीत्यन्वयः / सनिमित्तपक्षमुपस्थापयति- अथेति / अत्र वक्तव्यमाह- तदिति, तत्= निमित्तं केन= कथमुपलभ्यते= ज्ञायते इति वक्तव्यमित्यर्थः / उत्तरमाह- क्रियेति, क्रियाहेतुस्तादृशक्रिययैवानुमेयः, क्रियानियमहेतुश्च ताह. शक्रियानियमेनानुमेय:- क्रियादीनां हेतुं विनानुपपत्तेहेंत्वनुमानमावश्यकमित्यन्वयः / पर्यवसितमाहतेनेति, तेन= क्रियानियमहेतुना, यथा क्रियाहेतुर्भवति तथा क्रियानियमहेतुरपि भवत्येवेति अयस्येवाऽयस्कान्तोपसर्पणप्रवृत्तिर्भवति नान्यत्रेत्युपपद्यते इत्यर्थः / एवं पूर्वपक्षिणा निर्वचने कृते सिद्धान्ती स्वपक्षमुपपादयति- बालस्यापीति, यथोक्तोपसर्पणनियमस्तथा बालस्यापि स्तनोपसर्पणलक्षणा क्रिया नियतोपलभ्यते इति तादृशक्रियानियमस्यापि निमित्तं स्वीकार्यमेव / स्तनोपसर्पणस्य निमित्तमाह-न चेति, आहारानुभवजन्यात् स्मरणानुबन्धादन्यत् स्तन्याभिलाषस्य लिङ्गम्= निमित्तं नोपपद्यते इति बालस्य स्मरणकारणीभूतः पूर्वजन्मनि स्तन्यपानानुभवः स्वीकार्य इति सिद्धमात्मनो नित्यत्वमित्यर्थः / ननु स्तन्याभिलापोपि सनिमित्त इति कथं प्राप्तमित्याशङ्कयाह-निमित्तमिति, उक्तेन " अयस्कान्ताभिगमनवत् " इति दृष्टान्तेन निमित्तम्= क्रियायाः सनिमित्तकत्वं प्रतिपाद्यते तेन स्तनोपसर्पणक्रियाया अपि सनिमित्तकत्वं लब्धमित्यर्थः / उक्त विनिगमनामाह- न चेति, जायमानस्य निमित्तमवश्यं