________________ - 238 प्रसन्नपदापरिभूषितम्- [3 अध्याये. १आह्निके इतश्च नित्य आत्मा प्रेत्याऽऽहाराभ्यासकृतात् स्तन्याभिलाषात् // 22 // जातमात्रस्य वत्सस्य प्रवृत्तिलिङ्गः स्तन्याभिलाषो गृह्यते स च नान्तरेणाऽऽहाराभ्यासम् / कया युक्त्या ?, दृश्यते हि शरीरिणां क्षुधा पीड्यमानानामाहाराभ्यासकृतात् स्मरणानुबन्धादाहाराभिलाषः, न च पूर्वशरीराभ्यासमन्तरेणासौ जातमात्रस्योपपद्यते, तेनानुमीयतेभूतपूर्व शरीरम् यत्राऽनेनाहारोऽभ्यस्त इति, स खल्वयमात्मा पूर्वशरीरात् प्रत्य शरीरान्तरमापन्नः क्षुत्पीडितः पूर्वाभ्यस्तमाहारमनुस्मरन् स्तन्यमभिलपति, तस्मान्न देहभेदादात्मा भिद्यते= भवत्येवोर्ध्वं देहभेदादिति // 22 // अयसोऽयस्कान्ताभिगमनवत्तदुपसर्पणम् // 23 // त्वमाप्नोतीत्यर्थः / हर्षादीनामपि निमित्तं विनोत्पत्तिर्न संभवति येनानित्यत्वमात्मन आपद्यतेत्याह- नेति। यथा पद्मप्रबोधादीनामुष्णादिकं दृष्टं कारणं तथा हर्षादीनां निमित्तान्तरस्य= स्मृत्यनुबन्धातिरिक्तनिमित्तस्य ग्रहणं नोपपद्यते येन दृष्टनिमित्तकत्वेनात्मनित्यत्वसाधकत्वं न स्यादित्याह-नोष्णादीति / उपसंहरति- तस्मादिति, एवमात्मनो नित्यत्वे सिद्धे यदात्माऽनित्यत्वमुक्तं तन्न युक्तमित्यर्थः // 21 / / ___अग्रिमसूत्रमवतारयति- इतश्चेति, इतः= सूत्रोक्तहेतुतः / प्रेत्येति-प्रेत्य= मृत्वा= पूर्वशरीरत्यागानन्तरं शरीरान्तरग्रहणे कृते जातमात्रस्य बालस्य यः स्तन्याभिलाषः स आहाराभ्यासकृतः आहारानुभवजन्य एव. जातमात्रस्याहारानुभवश्च नास्मिन् जन्मनि संभवतीति पूर्वजन्मन्येव वक्तव्य इति पूर्वजन्म सिद्धम् एवं ततोपि पूर्व जन्मानि सिद्धानि तथा चानादित्वमात्मनः प्राप्तम् अनादिभावस्य च नित्यत्वनियमादात्मन आहाराभ्यासकृतात् स्तन्याभिलाषादपि नित्यत्वं सिद्धमिति सूत्रार्थः / व्याचष्टे- जातमात्रस्येति, प्रवृत्तिलिङ्गं यस्य स प्रवृत्तिलिङ्गः- प्रवृत्त्यनुमेय एव स्तन्याभिलाष:- प्रत्यक्षायोग्यत्वात् , स्तन्यपाने प्रवृत्त्या स्तन्याभिलाषोऽनुमीयते स्तन्याभिलाषं विना स्तन्यपानप्रवृत्तेरनुपपत्तेः / सः= स्तन्याभिलाषः, आहाराभ्यासम्= पूर्वजन्मकृताहारानुभवं विना नोपपद्यते इत्यन्वयः / आहाराभ्यासस्य कारणत्वे हेतुं जिज्ञासते- कयेति / उत्तरमाह- दृश्यते इति, क्षुधेति तृतीयान्तम् , तदनेन दृष्टान्तेनाहारानुभवजन्यसंस्कारजन्यस्मरणेनाहाराभिलाषो भवति नान्यथेति प्रतिपादितम् , एवं बालस्यापि स्तन्याभिलाष आहारानुभवजन्यसंस्कारजन्यस्मरणेनैव वक्तव्यस्तत्र जातमात्रस्याहारानुभवः पूर्वजन्मन्येव वक्तव्य इति पूर्वजन्मपरम्परा प्राप्तेत्याह- न चेति, पूर्वशरीरे य आहाराभ्यासः स पूर्वशरीराभ्यासस्तं विना जातमात्रस्याऽसौ= स्तन्याभिलाषो नोपपद्यते तेन भूतपूर्व शरीरमनुमीयते इत्यन्वयः, यत्र= पूर्वशरीरेपूर्वजन्मनि, अनेन= जातमात्रेण / संकलयति- स इति, प्रेत्य- निर्गत्य, तथा च पूर्वजन्मानुभूतस्याऽऽहारस्यानुस्मरणेन स्तन्याभिलाषो भवतीति पूर्वपूर्वजन्मपरम्परा सिद्धा तया चानादित्वं प्राप्तं तेनात्मनो नित्यत्वं सिद्धमित्यर्थः / उपसंहरति- तस्मादिति, तस्मात्= आत्मनो नित्यत्वादात्मा देहभेदान्न भिद्यते, एकस्मिन् काले चैत्रमैत्रादीनां देहभेदेनात्मभेदे सत्यपि एकस्यैव चैत्रस्य पूर्वोत्तरदेहेषु देहभेदादात्मभेदो न भवति किं तु तादृशपूर्वोत्तरदेहेषु सर्वेषु मोक्षपर्यन्तमेक एवात्मानुवर्तते= एक एवात्मा जन्मभेदेनोत्तरोत्तरं देहं गृह्णातीति आत्मनो नित्यत्वं सिद्धमित्यर्थः / उक्तस्याभिप्रायमाह- भवतीति, देहभेदात्= देहविशेषात् किं वा देहविनाशाद् ऊर्ध्वम्= अनतरमप्यात्मा भवतीति नित्य एवेत्यर्थः // 22 // ___ उक्तं पूर्वपक्षी प्रत्याचष्टे- अयस इति, अयसः= लोहस्य यथा पूर्वाभ्यासं विनैवाऽयस्कान्ताभिगमनम्= चुम्बकपाषाणोपसर्पणं भवति तथैव तत्= तस्य बालस्यापि पूर्वाभ्यासं विनैव उपसर्पणम्= स्तनो पसर्पणम्= स्तन्यपानप्रवृत्तिर्भवतीति न पूर्वजन्मनि आहारानुभवापेक्षा ततश्च न पूर्वजन्मापेक्षा येनात्मनो