________________ आत्मविवेचनम् ] न्यायभाष्यम्। 237 विषयेषु हर्षादिसंप्रतिपत्तिः स्मृत्यनुबन्धकृता प्रत्यात्मं गृह्यते सेयं पद्मादिसंमीलनदृष्टान्तेन न निवर्तते. यथा चेयं न निवर्तते तथा जातमात्रस्यापीति / क्रियाजातश्च पर्णविभागसंयोगः प्रबोधसंमीलने. क्रियाहेतुश्च क्रियानुमेयः, एवं च सतिं किं दृष्टान्तेन प्रतिषिध्यते ? // 20 // ___ अथ निर्निमित्तः पद्मादिषु प्रबोधसंमीलनविकार इति मतम् एवमात्मनोपि हर्षादिसंप्रतिपत्तिरिति ? तच्च न- उष्णशीतवर्षकालनिमित्तत्वात् पञ्चात्मकविकाराणाम् // 21 // ___ उष्णादिषु सत्सु भावाद असत्स्वभावाद् तन्निमित्ताः पञ्चभूतानुग्रहेण निर्दृत्तानां पद्मादीनां प्रबोधसंमीलनविकारा इति न निर्निमित्ताः, एवं हर्षादयोपि विकारा निमित्तान भवितुमर्हन्ति न निमित्तमन्तरेण. न चान्यत् पूर्वाभ्यस्तस्मृत्यनुबन्धाद् निमित्तमस्तीति / न चोत्पत्तिनिरोधकारणानुमानमाऽऽत्मनः- अदृष्टान्तात् / न हर्षादीनां निमित्तमन्तरेणोत्पत्तिः / नोष्णादिवद् निमित्तान्तरोपादानं हर्षादीनाम्, तस्मादयुक्तमेतत् // 21 // द्धार्थकमेव अत एवाऽपार्थकम्= मिथ्यार्थबोधकम् / स्वाभिप्रायमाह- दृष्टान्तादिति, यथा पद्मादिषु प्रबोधादेनिमित्तमस्त्येव तथात्मनो हर्षादेरपि निमित्तं सिद्धमित्यर्थः, उक्तं व्याचेष्ट- येति, या चेयमासेवितेषु= अनुभूतेषु विषयेषु तदनन्तरं तद्दर्शनेन हर्षादिसंप्रतिपत्तिः सा स्मृत्यनुबन्धकृतैवेति तस्याः कारणं सिद्धं हर्षादिसंप्रतिपत्तेरभावोपि न संभवति प्रत्यक्षत्वादित्यर्थः / पर्यवसितमाह- यथेति, यथा चेयं हर्पादिसंप्रतिपत्तिरस्मदादीनां स्मृत्यनुबन्धकृतैवेति न निवर्तते उक्तदृष्टान्तेन तथा जातमात्रस्यापि हर्षादिसंप्रतिपत्तिः स्मृत्यनुबन्धकृतैवेति न निवर्तते तत्र स्मृत्यनुबन्धेन पूर्वानुभवः प्राप्तस्तेन पूर्वजन्म प्राप्तं तेन चात्मनोऽनादित्वं तेन च नित्यत्वं सिद्धम्- अस्मिन् जन्मनि जातमात्रकर्तृकानुभवस्यासंभवादित्यर्थः / दृष्टान्ते प्रबोधादेनिमित्तमाह- क्रियेति, क्रियाजातः= क्रियाजन्यः पर्णविभाग एव प्रबोधः पर्णसंयोगश्च संमीलनं तत्र प्रबोधादिकारणीभूतायाः क्रियायाश्च जलादिसंयोगो हेतुस्तादृशक्रिययैवानुमेयः- हेतुं विना क्रियाया असंभवात् , तथा च यथा प्रबोधादिकारणं सिद्धं तथा हर्षादिकारणमपि सिद्धं तच्च स्मृत्यनुबन्ध एवेत्युक्तरीत्या पूर्वजन्म सिद्धं तेनात्मनो नित्यत्वमपि सिद्धमिति नात्मनित्यत्वस्योक्तदृष्टान्तेन प्रतिषेध उपपद्यते इत्याक्षिपति- एवमिति, एवम् हर्षादिकारणसिद्धयात्मनित्यत्वे सिद्धे सतीत्यर्थः // 20 // ___अग्रिमसूत्रावतारार्थ निष्कारणकत्वपक्षमुत्थापयति- अथेति / प्रकृतमाह- एवमिति, पद्मादिषु प्रबोधादिवदात्मनोपि हर्षाद्युत्पत्तिर्निनिमित्तेति यदि मतं तच्च न संभवतीति सूत्रघटकनकारेणान्वयः / हर्षादीनां निनिमित्तत्वे आत्मनो नित्यत्वापत्तिास्तीत्याशयः / नेति- पञ्चात्मकविकाराणाम्= पाञ्च. भौतिकपदार्थविकाराणां प्रबोधादीनाम् उष्णकालादिनिमित्तत्वात्= केचिद्विकारा उष्णकालनिमित्ताः केचित् शीतकालनिमित्ताः केचिद्वर्षाकालनिमित्ता इति पद्मादिषु प्रबोधादीनामुष्णकालादिकं निमित्तं सिद्धमेव तथैव हर्षादीनामपि स्मृत्यनुबन्धादिकं निमित्तं सिध्यति तस्य पूर्वानुभवस्तेन पूर्वजन्म सिध्यतीति सिद्धमात्मनो नित्यत्वम् , विकाराणां निर्मित्तत्वं च न सिध्यति येनानित्यत्वमात्मन आपद्येतेति सूत्रार्थः / व्याचष्टे- उष्णादिष्विति, पञ्चभूतानुग्रहेण निर्वृत्तानाम्= जातानाम्= पाञ्चभौतिकानां पद्मादीनां प्रबोधसंमीलनविकाराः तन्निमित्ता:= उष्णादिनिमित्ताः- उष्णादिषु सत्सु प्रबोधादीनां भावात् उष्णादिष्वऽसत्सु चाऽभावादिति न निर्निमित्ता इत्यन्वयः / प्रकृतमाह- एवमिति / हर्षादीनां पूर्वानुभूतस्मृतिरेव कारणमित्याह- न चेति, हर्षादीनामिति शेषः / स्मृतेश्च पूर्वानुभवः कारणं स च जातस्य पूर्वजन्मनीति सिद्धमात्मनो नित्यत्वमित्यर्थः / आत्मन उत्पत्तिविनाशकारणस्याप्यनुमानं न संभवतिअनादिभावस्योत्पत्तिविनाशप्रसाधकस्य दृष्टान्तस्याभावादित्याह- न चेति, तथा चात्मनो नाऽनित्य