________________ 236 प्रसन्नपदापरिभूषितम्- [3 अध्याये. १आह्निकेपूर्वाभ्यस्तस्मृत्यनुबन्धाजातस्य हर्षभयशोकसंप्रतिपत्तेः // 19 // __ जातः खल्वयं कुमारोऽस्मिन् जन्मन्यऽगृहीतेषु हर्षभयशोकहेतुषु हर्षभयशोकान् प्रतिपद्यते लिङ्गानुमेयान्. ते च स्मृत्यनुबन्धादुत्पद्यन्ते नान्यथा. स्मृत्यनुबन्धश्च पूर्वाभ्यासमन्तरेण न भवति. पूर्वाभ्यासश्च पूर्वजन्मनि सति नान्यथा इति सिध्यत्येतत्- अवतिष्ठतेऽयमूर्ध्वम् (प्राक् च ) शरीरभेदादिति // 19 // पद्मादिषु प्रबोधसंमीलनविकार वत्तविकारः // 20 // यथा पद्मादिष्वऽनित्येषु प्रबोधः संमीलनं ( च ) विकारो भवति. एवमनित्यस्यात्मनो . हर्षभयशोकसंप्रतिपत्तिर्विकारः स्यात् // हेत्वभावादयुक्तम्= अनेन हेतुना पद्मादिषु प्रबोधसंमीलनविकारवद् अनित्यस्यात्मनो हर्षादिसंप्रतिपत्तिरिति नात्रोदाहरणसाधात् साध्यसाधनं हेतुर्न वैधादस्ति, हेत्वभावात्असंबद्धार्थकमपार्थकमुच्यते इति / दृष्टान्ताच्च हर्षादिनिमित्तस्यानिवृत्तिः= या चेयमासेवितेषु नित्यत्वमात्मन आत्मसद्भावहेतुभिरेव सिद्धमित्यर्थः / आत्मनित्यत्वे विशेषरूपेण हेतुं जिज्ञासते- कुत इति / सूत्रेणोत्तरमाह- पूर्वेति, पूर्वाभ्यस्तानाम्= पूर्वजन्मन्यनुभूतानां हर्षादिहेतूनां स्तन्यपानादीनां स्मृत्यनुबन्धात्= स्मृत्यनुवृत्त्यैव जातस्य= जातमात्रस्य बालस्यात्र जन्मनि हर्षादिदेतुप्राप्तौ हर्षादीनां संप्रतिपत्तिः= उत्पत्तिः संभवति तादृशोत्पत्तेरेवात्मनो नित्यत्वं सिध्यति, जातमात्रबालेन स्तन्यलाभादेहर्षादिहेतुत्वमत्र तु नानुभूतं स्तन्यलाभादिना हर्षादिकं तु जातमात्रस्यापि भवत्येव तेन जातस्य पूर्वानुभूतस्मृतिरनुमीयते स्मृत्या च पूर्वजन्मनि स्तन्याद्यनुभवः प्राप्तस्तेन पूर्वजन्म सिद्धम् एवमेव पूर्वजन्मापेक्षयापि पूर्वपूर्व जन्म सिद्धं तेनात्मनोऽनादित्वं सिद्धम् अनादिभावस्य नित्यत्वनियमाचाऽऽत्मनो नित्यत्वं सिद्धमिति सूत्रार्थः / व्याचष्टे- जात इति, येषां पदार्थानां हर्षादिहेतुत्वमस्मिन् जन्मनि न गृहीतं तेष्वपि दृष्टेषु लिङ्गानुमेयान् हर्षादीन् प्रतिपद्यते= प्राप्नोतीत्यन्वयः, लिङ्गानुमेयं च पदार्थानां हर्षादिहेतुत्वमेव. किं वा बालस्य ये हर्षादयस्ते परेण चेष्टालक्षणलिङ्गेनानुमेयास्तानित्यर्थः / हर्षादिकारणमाह- ते चेति, ते= हर्पादयः / स्मृत्यनुबन्धकारणमाह- स्मृत्यनुबन्ध इति / पूर्वाभ्यासकारणमाहपूर्वाभ्यास इति, पूर्वाभ्यासः= पूर्वानुभवः स च जातस्यात्र जन्मनि न संभवतीति पूर्वजन्म सिद्धम् / पर्यवसितमाह- सिध्यत्येतदिति / सिद्धमाह- अवतिष्ठते इति, अयम्= आत्मा, स्पष्टमन्यत् // 19 // ____ आत्मनो नित्यत्वाभावेपि पूर्वपक्षी हर्षादिकं जातस्योपपादयति- पद्मादिष्विति, हर्षादयो हि विकारा एव तत्रानित्येष्वपि पद्मादिषु सामग्रीवशाद् यथा प्रबोधादयो विकारा भवन्ति तथैवानित्यस्यापि तत्= तस्यात्मनो हर्षादयो विकारा उपपद्यन्ते विकारविशिष्टस्य चानित्यत्वनियम इति नात्मा नित्य इति सूत्रार्थः / अत्र- " पद्मपत्रावयवविभागो विनश्यत्कार्यः प्रबोधः, पद्मपत्रावयवानामारब्ध. कार्याणां यत्पुनः परस्परेण प्राप्तयस्तत् संमीलनम्" इति वार्तिकम् / प्रफुल्लत्वं प्रबोधः, मुकलीभावश्च संमीलनमिति यावत् / व्याचष्टे- यथेति, संप्रतिपत्तिः= हर्षाद्युत्पत्तिः सा च विकार एवेति, स विकारोऽनित्यस्याप्यात्मन उपपद्यते इति न नित्य आत्मेत्यन्वयः // . उक्तपूर्वपक्षं प्रत्याचष्टे- हेत्वभावादिति, उक्तदृष्टान्तेनात्मनो यदनित्यत्वमुक्तं तदयुक्तम्- हेत्वभावात् / उक्तं विशदयति- अनेनेति, इति नात्रेति= इत्यत्र नेत्यन्वयः, हेतुः= कोपि हेतुरुदाहरणसाधर्म्यात्= अन्वयव्याप्त्या साध्यस्य= आत्मानित्यत्वस्य साधनम्= साधको नास्ति, वैधात्= व्यतिरेकव्याप्त्यापि च साध्यसाधको हेतुर्नास्तीत्यन्वयः, हर्षादीनां विकारत्वे आत्मनश्चानित्यत्वे हेतु स्तीत्याशयः। पर्यवसितमाह- हेत्वभावादिति, आत्मानित्यत्वे हेतोरभावात् " पद्मादिषु " इत्युक्तमसंब