________________ आत्मविवेचनम् ] न्यायभाष्यम्। दिभ्यश्च विषयान्तरं सुखादयस्तदुपलब्धौ करणान्तरसद्भावः, यथा चक्षुषा गन्धो न गृह्यते इति करणान्तरं घ्राणम् एवं चक्षुर्घाणाभ्यां रसो न गृह्यते इति करणान्तरं रसनम् एवं शेषेप्वपि. तथा चक्षुरादिभिः सुखादयो न गृह्यन्ते इति करणान्तरेण भवितव्यं तच्च ज्ञानाऽयोगपद्यलिङ्गम् , यच्च सुखाद्युपलब्धौ करणं तच्च ज्ञानायौगपद्यलिङ्गम् तस्येन्द्रियमिन्द्रियं प्रति संनिधेरसंनिधेर्न युगपत् ज्ञानान्युत्पद्यन्ते इति, तत्र यदुक्तम्- " आत्मप्रतिपत्तिहेतूनां मनसि संभवात् 16" इति तदयुक्तम् // 18 // किं पुनरयं देहादिसंघातादन्यो नित्यः ? उताऽनित्यः 1 / कुतः संशयः 1, उभयथा दृष्टत्वात् संशय:- विद्यमानमुभयथा भवति नित्यमनित्यं च, प्रतिपादिते चात्मसद्भावे संशयानिवृत्तेरिति / आत्मसद्भावहेतुभिरेवास्य प्राग्देहभेदादवस्थानं सिद्धम् ऊर्ध्वमपि देहभेदादवतिष्ठते / कुतः ?ग्रुपलब्धौ चक्षुराद्यपेक्षया करणान्तरस्याऽन्तःकरणस्य सद्भाव आवश्यक एवेत्यर्थः / उक्ते दृष्टान्तमाहयथेति, गन्धग्रहणकरणं नाणं चक्षुरतिरिक्तं यथास्ति. यथा च रसज्ञानकरणं रसनमस्ति, शेषेषु रूपादिष्वप्येवमेव योज्यं यथा घ्राणादिना रूपग्रहणं न संभवतीति रूपज्ञानकरणं चक्षुः शब्दज्ञानकरणं श्रोत्रं स्पर्शज्ञानकरणं त्वगस्ति / प्रकृतमाह- तथेति, चक्षुरादीनां बाह्यानामान्तरसुखादिज्ञानेषु करणत्वाऽसंभवात् करणान्तरं चक्षुराद्यतिरिक्तं सुखादिज्ञानकरणमन्तःकरणं मनस्संज्ञकं स्वीकार्यमेवेत्यर्थः / तच्च मनो ज्ञानायौगपद्यं लिङ्गं यस्य तत् ज्ञानायौगपद्यलिङ्गम् , न केवलं सुखादिज्ञानानुपपत्त्यैव मनः स्वीक्रियते किं तु बाह्यरूपादिज्ञानानामयोगपद्यादपि स्वीक्रियते अन्यथा तदयोगपद्यानुपपत्तेरित्यर्थः / उक्तमेव विस्तरेणाह- यच्चेति / उक्तं व्याचष्टे- तस्येति, यदि सूक्ष्ममन्तःकरणं न स्यात्तदा विभोरात्मनः सर्वैरपीन्द्रियैः संयोगस्य सत्त्वादेव इन्द्रियाणामपि सर्वेषां स्वस्वविषयैरेकस्मिन् काले संयोगसंभवादेकस्मिन् काले रूपादीनां सर्वेषामपि ज्ञानं स्यात् न च भवतीति सूक्ष्ममन्तःकरणमनुमीयते तथा च तस्य अन्तःकरणस्य मनसः सूक्ष्मत्वात् इन्द्रियमिन्द्रियं प्रति= एकस्मिन् क्षणे सर्वैरिन्द्रियैः सह संनिधेरसंनिधेः= संयोगसंबन्धाभावाद् युगपद् ज्ञानानि नोत्पद्यन्ते- आत्मनो मनोद्वारैव विषयग्राहकत्वकल्पनात् , इत्येव ज्ञानायौगपद्यं मनसो लिङ्गम्= अनुमापकमित्यर्थः / उपसंहरति- तत्रेति, तदेवं मनसोऽन्तःकरणत्वेन ज्ञानकर्तृत्वलक्षणमात्मत्वं नोपपद्यते इति आत्मप्रतिपत्तिहेतूनां प्रत्यभिज्ञानादीनां मनसि संभवाभावाद् यदुक्तम्- "आत्मप्रतिपत्तिहेतूनां मनसि संभवात्" इति तदयुक्तमेवेत्यन्वयः।।१८॥ // इत्याऽऽत्मनो मनोव्यतिरिक्तत्वव्यवस्थापन समाप्तम् // एवमात्मनो देहादिसंघातव्यतिरिक्तत्वमुपपाद्य नित्यत्वोपपादनमारभते- किमिति, अयम्= आत्मा / आत्मनि नित्यत्वानित्यत्वयोः संशयकारणं जिज्ञासते- कुत इति / उत्तरमाह- उभयथेति, किं चिन्नित्यमपि भवति किंचिदनित्यमपि भवतीति हेतोरेवात्मनि नित्यत्वानित्यत्वयोः संशयस्तदेवाहविद्यमानमिति / स्वाभिप्रायमाह- प्रतिपादिते इति, आत्मसद्भावे प्रतिपादितेपि आत्मनित्यत्वानित्यत्वयोः संशयस्य निवृत्तेरसंभवात् . प्रत्युत सद्भावे सिद्धे नित्यत्वानित्यत्वयोः संशय उपतिष्ठते एवेत्यर्थः / सिद्धान्ती स्वसिद्धान्तमाह- आत्मेति, अस्य= आत्मनः, देहभेदात्= तत्तदेहविशेषात् , ऊर्ध्वम् अनन्तरमप्ययमात्माऽवतिष्ठते तथा च देहेभ्यः पूर्वोत्तरकालेषु सत्त्वेन नित्यत्वं सिद्धमित्याशयः, संघातारिक्तात्मनः सद्भावहेतुः पूर्वानुभूतस्य स्मरणादिकमेव तच्च स्मरणं पूर्वजन्मानुभूतस्यापि स्तन्यपानादिकस्य वक्ष्यमाणस्य भवत्येवेति तेनात्मनः पूर्वजन्मनि सिद्धे तद्वदेवोत्तरं जन्मापि संभवतीत्यनेकजन्मसंबन्धित्वे प्राप्ते अनेकजन्मानन्तरं विनाशे च कारणासंभवात् अनादिभावस्य नित्यत्वनियमाञ्च