________________ 234 प्रसन्नपदापरिभूषितम्- [3 अध्याये. १आह्निके___ज्ञातुः खलु ज्ञानसाधनान्युपपद्यन्ते- 'चक्षुषा पश्यति' 'प्राणेन जिप्रति, 'स्पर्शनेन स्पृशति' एवं मन्तुः सर्वविषयस्य मतिसाधनमऽन्तःकरणभूतं सर्वविषयं विद्यते येनायं मन्यते इति, एवं सति ज्ञातर्याऽऽत्मसंज्ञा न मृष्यते मनस्संज्ञाऽभ्यनुज्ञायते. मनसि च मनस्संज्ञा न मृष्यते मतिसाधनसंज्ञा मृष्यते, तदिदं संज्ञाभेदमात्रं नाऽर्थे विवाद इति / प्रत्याख्याने वा सर्वे. न्द्रियविलोपप्रसङ्गः= अथ मन्तुः सर्वविषयस्य मतिसाधनं सर्वविषयं प्रत्याख्यायते- नास्तीति ? एवं रूपादिग्रहणसाधनान्यपि न सन्तीति सर्वेन्द्रियविलोपः प्रसज्यते इति // 17 // नियमश्व निरनुमानः // 18 // योऽयं नियम इष्यते- रूपादिग्रहणसाधनान्यस्य सन्ति मतिसाधनं सर्वविषयं नास्तीति. अयं नियमो निरनुमान:- नावानुमानमस्ति येन नियमं प्रतिपद्यामहे इति / रूपाऽपेक्ष्यते यदेव तत्करणं तदेव मया मन इत्युच्यते त्वया चात्मेति ज्ञातारं प्रति मनसो ज्ञानसाधनोपपत्तेः- मननादिज्ञानकरणत्वोपपत्ते:= मननाद्यान्तरज्ञानकरणत्वमावश्यकमेव तत्र त्वया मनसो यदात्मेति नाम कृतं तत् संज्ञाभेदमात्रं न तु पदार्थभेद:- मया स्वीकृतस्यैव मनसस्त्वयापि स्वीकृतत्वात् , मनोव्यतिरिक्तात्मनो यः प्रतिषेधः स तु विषयान्तरम / किं वा मत्स्वीकृतस्यात्मनस्त्वया मन इति संज्ञा कृतेति संज्ञाभेदमात्रम् , आत्ममनसोक्यं तु नोपपद्यते-- आत्मनो ज्ञातुश्चक्षुरादिवत् आन्तरज्ञानसाधनस्य मनसोऽवश्यापेक्षितत्वादिति सूत्रार्थः / सूत्रं स्वरूपेण तु कुटिलमेवेत्यनुसंधेयम् / व्याचष्टे- ज्ञातुरिति, स्पर्शनेन= त्वचा, चक्षुरादिनैवात्मनो रूपादिज्ञानं जायते इति रूपादिज्ञानेषु चक्षुरादीनां साधनत्वम् करणत्वमुपपन्नम्- चक्षुरादिकं विनाऽन्धादे रूपादिज्ञानादर्शनादित्यन्वयः / प्रकृतमाह- एवमिति, यथा रूपादिज्ञानेषु चक्षुरादिकं करणं तथा मन्तुः= मननकर्तुः सर्वविषयस्य= सर्वविषयप्राहकस्यात्मनो मतिसाधनम्= मननकरणं सुखादिज्ञानकरणं च सर्वविषयम्= सर्वविषयग्राहकम् अन्तःकरणभूतं किमपि वस्तु विद्यते= अस्त्येव येनान्तःकरणभूतेनायमात्मा मन्यते= मननं करोति, तदभावे मननक्रिया न स्यादिति यदेवान्तःकरणभूतं वस्तु मया मन इत्युच्यते तदेव त्वयाऽऽत्मेत्युच्यते इति संज्ञाभेदमात्रमेवेत्यर्थः / पर्यवसितमाह- एवं सतीति, ज्ञातरि= आत्मनः आत्मेतिसंज्ञा न मृष्यते= न स्वीक्रियते मन इति संज्ञा चाभ्यनुज्ञायते= स्वीक्रियते. मनसश्च मन इति संज्ञा न मृष्यते मतिसाधनमितिसंज्ञा स्वीक्रियते इति संज्ञाभेदमात्रमेव न तु पदार्थस्यात्मनो मनसश्च स्वरूपे सत्तायां च विवाद इत्यन्वयः। विपक्षे बाधकमाह- प्रत्याख्याने इति, यदि मनः स्वरूपेणैव न स्वीक्रियते तथा च न संज्ञाभेदमात्रं तदा मनोवत् सर्वेषामपीन्द्रियाणां विलोपः= अभावः प्रसज्यते / उक्तं विशदयति- अथेति, यदि मननकर्तुः सर्वविषयप्राहकस्यात्मनो मननसाधनं सर्वविषयग्राहकमन्तःकरणं नास्तीत्येवं प्रत्याख्यायते तदा तथैव रूपादिग्रहणसाधनानि चक्षुरादीन्यपि न सन्तु= न स्वीकार्याणि- यथा मननादिज्ञानं विनैव करणं भविष्यति तथा रूपादिज्ञानमपि चक्षुरादिकरणं विनैव भविष्यतीति सर्वेन्द्रियविलोपः प्रसज्यते. न च चक्षरादिकं विना रूपादिज्ञानं भवतीति यथा रूपादिज्ञानकरणं चक्षरादिकं स्वीक्रियते तथाऽऽन्तरमननादिकरणमन्तःकरणमपि स्वीकार्यमेव तदेव मन इत्युच्यते, कर्तृकरणयोश्च भेदस्य स्पष्टत्वान्नात्ममनसो. रैक्यं संभवतीति मनोव्यतिरिक्त एवात्मेत्यर्थः // 17 // विपक्षे बाधकमाह- नियम इति, रूपादिज्ञानकरणं चक्षुरादिकमस्ति आन्तरमननादिकरणमऽन्तःकरणं नास्तीति यो नियमः स निरनुमानः= निर्हेतुक एव- एतादृशनियमस्योपपादयितुमशक्यत्वादिति सूत्रार्थः / व्याचष्टे- योयमिति / नियमस्वरूपमाह-रूपादीति, अस्य= आत्मनः, मतिसाधनम्= मननादिसाधनमन्तःकरणम् / स्ववक्तव्यमाह- अयमिति / पर्यवसितमाह- नात्रेति, अत्र उक्तनियमे, अनुमानम्= हेतुः / अन्तःकरणावश्यकतामुपपादयति- रूपादिभ्य इति, तदुपलब्धौ- सुखा.