________________ आत्मविवेचनम् ] न्यायभाष्यम् / 233 अहं मम इति चोत्पद्यते देहान्तरवत् , अतोऽनुमीयते- अस्त्येकः सर्वविषयः ( यः ) प्रतिदेह स्वज्ञानप्रबन्धं स्मृतिप्रवन्धं च प्रतिसंधत्ते इति. यस्य देहान्तरेषु वृत्तेरभावान्न प्रतिसंधानं भवतीति // 15 // न- आत्मप्रतिपत्तिहेतूनां मनसि संभवात् // 16 // न देहादिसंघातव्यतिरिक्त आत्मा, कस्मात् ?. आत्मप्रतिपत्तिहेतूनां मनसि संभवात्= "दर्शनस्पर्शनाभ्यामेकार्थग्रहणात्१" इत्येवमादीनामाऽऽत्मप्रतिपादकानां हेतूनां मनसि संभव:यतो मनो हि सर्वविपयमिति, तस्मान्न शरीरेन्द्रियमनोबुद्धिसंघातव्यतिरिक्त आत्मेति // 16 // ज्ञातुर्ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् // 17 // ज्ञानसंतान एव सत्त्वम् आत्मा तदा संतानावयवभूताः संस्काराः= ज्ञानानि क्षणिकत्वादेव ते मते उत्पद्योत्पद्य तिरोभवन्ति= विनश्यन्तीति सः= तादृशः एकोपि संस्कारः= ज्ञानं नास्ति य उदाहृतं त्रिकालविशिष्टं ज्ञानं स्मरणं चानुभवेत्= प्रतिसंदधीत, त्रिकालविशिष्टज्ञानादीनां प्रतिसंधानं हि स्थिरस्यात्मनः संभवति न तु क्षणिकानां ज्ञानानामित्यर्थः। उक्तानुभवासंभवे उपपत्तिमाह- न चेति, अहमिति= 'अज्ञासिषमहम् ' इति, ममेति= 'मम ज्ञानमभूत् / इति, एतादृशं ज्ञानस्मृत्योः प्रतिसंधानमऽनुभवं विना नोत्पद्यते- प्रतिसंधानं प्रत्यनुभवस्य कारणत्वात् , यथा देहान्तरेणानुभूतस्य देहान्तरेण प्रतिसंधानं नोपपद्यते इति स्पष्टमेव तथा क्षणिकेषु विज्ञानेषु अन्येन ज्ञानेन दृष्टमन्येन ज्ञानेन स्मर्तु न शक्यते. भवति च स्मृतिरिति ज्ञायते क्षणिकविज्ञानसंतानादन्य एव नित्य आत्मा, तदाह- अत इति, प्रतिदेहम् = स्वस्वदेहावच्छेदेन, प्रबन्धम् संतानम् , तथा च नित्यस्यात्मनस्कालिकज्ञानादीनां प्रतिसंधानं नानुपपन्नमिति देहेन्द्रियज्ञानसंतानादिव्यतिरिक्तो नित्य एक आत्मा स्वीकार्यः सिद्धश्चेत्यर्थः / यस्यात्मनः देहान्तरेषु सत्त्वेपि स्वामित्वेन वृत्तेरभावादेव तत्रानुभूतपदार्थानां प्रतिसंधानं न भवतीत्याहयस्येति, चैत्रेणानुभूतं मैत्रः स्मर्तुं न शक्नोति. तत्कस्य हेतोः?. मैत्रात्मनः चैत्रदेहे स्वामित्वेन वृत्तेरभावादेवेत्येतादृशः स आत्मेति न तस्य प्रतिषेधो युक्त इत्यर्थः / यस्येत्यत्र तस्येतिवक्तव्यमासीत् // 15 // // इत्याऽऽत्मन इन्द्रियादिव्यतिरिक्तत्वप्रतिपादनं समाप्तम् // उक्तं पूर्वपक्षी निराकरोति- नेति, आत्मप्रतिपत्तिहेतूनाम्= आत्मसाधकानां प्रत्यभिज्ञादीनां हेतूनां मनस एकत्वेन तत्र संभवात् मन एवात्मा न तु मनोव्यतिरिक्तः कश्चिदात्मा, मनस्तु चक्षुरादीन्द्रियद्वारा रूपादिविषयाननुभवतीति कालान्तरे मनसः स्मृतिप्रत्यभिज्ञयो नुपपत्तिः- मनसः स्थिरत्वादेकत्वाच्च, इन्द्रियान्तरविकारस्याप्यत्र पक्षे नानुपपत्तिः- मनसाऽनुभूतस्य फलरसस्य फलदर्शनेन संस्कारोबोधद्वारा स्मृतिसंभवात् स्मृत्या च रसभोगेच्छा तया च दन्तोदकसंप्लवभूतस्येन्द्रियान्तरविकारस्यापि संभवादिति मन एवात्मेति सूत्रार्थः / ब्याचष्टे- नेति, देहेन्द्रियमनोबुद्धिवेदनासंघात एव देहादिसंघातस्तत्र च मनोप्यस्त्येवेत्युक्तम्- देहादीति / उक्ते हेतुं जिज्ञासते- कस्मादिति / उत्तरमाह- आत्मेति / उक्तं विशदयति- दर्शनेति, प्रथमसूत्रमिदम् , दर्शनेन= चक्षुषा स्पर्शनेन= त्वचा एकार्थग्रहणात्= 'यमद्राक्षं तं स्पृशामि' इत्यादिप्रत्यभिज्ञानादेव देहाद्यतिरिक्त आत्मा साधितस्तेषां हेतूनां मनसि संभवोस्ति- मनस एकत्वादित्यन्वयः / उक्त हेतुमाह- यत इति, मनः सर्वविषयम्= सवार्थग्राहकमस्तीति पूर्वदृष्टस्य कालान्तरे स्मृत्यादिकं मनसो नानुपपन्नमिति मन एवात्मेत्यर्थः / उपसंहरति- तस्मादिति, मनस आत्मत्वे संघातस्यात्मत्वं प्राप्तमेव- मनसः संघातानतिरिक्तत्वादित्याशयः // 16 // पूर्वोक्तं सिद्धान्ती प्रत्याचष्टे-- ज्ञातुरिति, आत्मनः सर्वार्थज्ञातुर्ज्ञानकरणान्यपेक्ष्यन्ते- ज्ञानकरणं विना ज्ञानक्रियाया असंभवात्तत्र यथा रूपादिज्ञानकरणं चक्षुरादि तथा मननसुखादिज्ञानकरणमप्य 30