________________ 232 प्रसन्नपदापरिभूषितम्- [3 अध्याये. १आह्निकेयुज्यमानो नाऽकर्तृको न नानाकर्तृकः, किं तर्हि 1. एककर्तृक इति, सोऽयं स्मृतिविषयोऽपरिसंख्यायमानो विद्यमानः प्रज्ञातोऽर्थः प्रतिषिध्यते- 'नास्त्यात्मा- स्मृतेः स्मर्तव्यविषयत्वात् ' इति / न चेदं स्मृतिमात्रं स्मर्तव्यमात्रविषयं वा, इदं खलु ज्ञानप्रतिसंधानवत् स्मृतिप्रतिसंधानम् / एकस्य सर्वविषयत्वात= एकोऽयं ज्ञाता सर्वविषयः स्वानि ज्ञानानि प्रतिसंधत्ते- 'अमुमर्थ ज्ञास्यामि' असमर्थ विजानामि' 'अमुमर्थमज्ञासिषम् ' अमुमर्थ जिज्ञासमानश्चिरमऽज्ञात्वाऽध्यवस्यति-' अज्ञासिषम्' इति, एवं स्मृतिमपि त्रिकालविशिष्टां सुस्मूर्षाविशिष्टां च प्रतिसंधत्ते / संस्कारसंततिमात्रे तु सत्त्वे उत्पद्योत्पद्य संस्कारास्तिरोभवन्ति, स नास्त्येकोपि संस्कारो यस्त्रिकालविशिष्टं ज्ञानं स्मृति चानुभवेत्. न चानुभवमन्तरेण ज्ञानस्य स्मृतेश्च प्रतिसंधानम् ज्ञानत्रयं संकलयति- एवमिति, एकोथः स्मर्यमाणोऽर्थः, प्रत्यभिज्ञायमानोऽर्थो वा, युज्यमानः= विषयी. क्रियमाणः, तत्र प्रत्यभिज्ञायमानस्य पदार्थस्य पूर्वकालिकप्रत्यक्षविषयत्वम् एतत्कालिकप्रत्यक्षविषयत्वं च स्पष्टमेव. पूर्वकालिकप्रत्यक्षविशेषणत्वाच्च तादृशप्रत्यक्षविषयकज्ञानविषयत्वमपि विज्ञेयम् , किं वा तृतीय ज्ञानमत्र स्मृतिरूपं विज्ञेयं तद्विषयत्वमपि पदार्थस्य स्पष्टमेवेत्यर्थः / एतेषां त्रयाणामपि ज्ञानानां कर्ता एक आत्मैवेति एतादृशज्ञानतृत्वेनाप्यात्मा सिद्ध इत्याशयः, न चैतानि ज्ञानानि नानाकर्तृकाणि संभवन्तिअन्येन दृष्टस्य अन्येन प्रत्यभिज्ञातुमशक्यत्वात्। ज्ञानक्रियाद्वारा च विषयस्यापि सकर्तृकत्वं विज्ञेयम् / सूत्रार्थमुपसंहरति- सोयमिति, स्मर्यमाणपदार्थ एव स्मृतिविषय इति परिसंख्या यस्य नास्ति सोऽपरिसंख्यायमानस्तदनेन ज्ञातृज्ञानयोरपि स्मृतिविषयत्वमुक्तम् , विद्यामानः= सन्नेव, प्रज्ञातः अर्थः= विषयः स्मृतिविषयः अर्थाद् आत्मा 'नास्त्यात्मा' इत्यादिना प्रतिषध्यते. सोयं प्रतिषेधः प्रत्यक्षविरुद्ध इत्यर्थः / तथा चोक्तरीत्या स्मृतिविषयत्वेनापि सिद्ध आत्मा. तस्येन्द्रियानतिरिक्तत्वे उक्त इन्द्रियान्तरविकारो नोपपद्यते इत्यात्मा इन्द्रियातिरिक्त एवेति सिद्धमित्याशयः / किं वा 'अपरिसंख्यायमानः' इति सामान्यतः स्मृतिविषयस्य विशेषणं न त्वात्मविशेषणम् , किं वा -- अपरिसंख्यायमान इति' इत्येवं व्याख्येयम् / ननु स्मृतेरप्रमाणत्वात् कथं स्मृत्याऽऽत्मा सिध्येत् पदार्थसिद्धेः प्रमाणाधीनत्वादित्याशङ्कयाहन चेति, इदम्= 'अद्राक्षम् ' इत्यायुदाहृतं ज्ञानं स्मृतिमात्रं न किं तु प्रत्यभिज्ञात्मकं न चापि स्मर्तव्यरसादिमात्रविषयकं येनात्मविषयकं न स्यात्. प्रत्यभिज्ञा च प्रमाणमेवेति तया सिद्ध आत्मेत्यर्थः / अत्र" स्मृतिरिति प्रत्यभिज्ञानमाह- स्मृतिच्छायावाहित्वात्" इति तात्पर्यटीका / स्वाभिप्रायमाह- इदं, खल्विति, यथा ज्ञानस्य प्रतिसंधानम्= परामशों भवति तथैव स्मृतिप्रतिसंधानमपि भवतीति ‘अद्राक्षम' इत्यादि उदाहृतं ज्ञानं स्मृतिप्रतिसंधानम्= प्रत्यभिज्ञानात्मकमेव न तु स्मृतिमात्रमित्यर्थः / ज्ञानप्रतिसंधानमाह- एकस्येति, एकोयमात्मा ज्ञाता सर्वविषयः= सर्वपदार्थग्राही स्वानि स्वकर्तृकाणि ज्ञानानि प्रतिसंधत्ते- तस्यैकस्यात्मनः सर्वविषयत्वात्= सर्वपदार्थग्राहकत्वादित्यन्वयः, सर्वग्राहकत्वेन ज्ञानग्राहकत्वमपि सिद्धमित्यर्थः / ज्ञानप्रतिसंधानमुदाहरति- अमुमिति, अत्र ज्ञानपरामर्शः स्पष्ट एव, तदनेन वाक्यत्रयेण त्रैकालिकं ज्ञानप्रतिसंधानमुदाहृतम् / विलम्बेन जायमानं ज्ञानप्रतिसंधानमुदाहरति-अमुमर्थमिति, कंचिदर्थमित्यर्थः / उक्तं स्मृतिप्रतिसंधानेऽतिदिशति- एवमिति, त्रिकालविशिष्टाम्= त्रैकालिकाम् , सुस्मूर्षा विशिष्टाम्= स्मरणेच्छाविषयाम् , स्मरणेच्छां विना स्मृतिप्रतिसंधानानुपत्तेरित्याशयः, अत्र 'स्मरामि ' 'स्मरिष्यामि ' ' अस्मार्षम्' इत्युदाहरणानि विज्ञेयानि, 'अद्राक्षम्' इत्यादिकं च प्रत्यभिज्ञोदाहरणं तत्रापि स्मृतिप्रतिसंधानं स्पष्टमेव तादृशप्रत्यभिज्ञायाः कर्तृत्वाद्विषयत्वाञ्चात्मा पूवोक्तरीत्या सिद्ध इति प्रघट्टकार्थः / किं वा 'जानामि' इत्यस्य ' ज्ञानवानहम् / " स्मरामि' इत्यस्य च ' स्मृतिमानहम्' इत्यर्थस्तथा च ज्ञानस्मृत्योराश्रयत्वेनात्मा सिद्ध इति भावः / बौद्धमते बाधकमाह- संस्कारेति, संस्कारशब्दोत्र क्षणिकविज्ञानपर:- पूर्वपूर्वसंस्काराणामुत्तरोत्तरं ज्ञानेषु संक्रमस्वीकारात् नीलादिधर्मवाचकशब्दानामपि धर्मिणि प्रयोगदर्शनादित्यनुसंधेयम् / यदि