________________ 231 आत्मविवेचनम् ] न्यायभाष्यम् / अपरिसंख्याय च स्मृतिविषयमिदमुच्यते- " न स्मृतेः स्मर्तव्यविषयत्वात्१३” इति, येयं स्मृतिरगृह्यमाणेऽर्थे- 'अज्ञासिषमहममुमर्थम् 1' इति एतस्या ज्ञातृज्ञानविशिष्टः पूर्वज्ञातोर्थो विषयो नार्थमात्रम्. 'ज्ञातवानहममुमर्थम् 2' 'असावर्थो मया ज्ञातः 3' 'अस्मिन्नर्थे मम ज्ञानमभूत 4' इति. चतुर्विधमेतद्वाक्यं स्मृतिविषयज्ञापकं समानार्थम्= सर्वत्र खलु ज्ञाता ज्ञानं ज्ञेयं च गृह्यते / __ अथ प्रत्यक्षेऽर्थे या स्मृतिस्तया त्रीणि ज्ञानानि एकस्मिन्नर्थे प्रतिसंधीयन्ते समानकर्तृकाणि न नानाकर्तृकाणि नाऽकर्तृकाणि, किं तर्हि ?. एककर्तृकाणि / 'अद्राक्षममुमर्थ यमेवैतर्हि पश्यामि' अद्राक्षमिति दर्शनं दर्शनसंविच्च- न खल्वसंविदिते स्वे दर्शने स्यादेतत्अद्राक्षमिति. ते खल्वेते द्वे ज्ञाने. 'यमेवैतर्हि पश्यामि' इति तृतीयं ज्ञानम्. एवंमेकोर्थस्त्रिभिर्ज्ञानवाऽपरिसंख्यानशब्दो विज्ञेयः। व्याचष्टे- अपरिसंख्यायेति / स्वाभिप्रायमाह- येयमिति, अगृह्यमाणेथे= अप्रत्यक्षपदार्थविषया स्मृतिः। स्मृतिमुदाहरति-अज्ञासिषमिति, अज्ञासिषमहम्= पूर्व ज्ञातदानहमित्यर्थः। स्मृतिविषयमाह- एतस्या इति, एतस्याः स्मृतेः स्वविषयकस्मृतिविषयत्वसंबन्धेन समानज्ञानविषयत्वसंबन्धेन वा ज्ञातृज्ञानाभ्यां विशिष्ट एव पूर्वज्ञातो रसादिपदार्थो विषयोस्ति न तु रसादिपदार्थमात्रं येन स्मृतेः स्मर्तव्यरसादिमात्रविषयकत्वं स्यादित्याक्षेपः, तत्राहमित्यनेनात्मनः अज्ञासिषमित्यनेन च धात्वर्थस्य ज्ञानस्य स्मृतिविषयत्वं प्राप्तं तथा चैतादृशस्मृतिविषयत्वेनाप्यात्मा सिद्ध इत्यर्थः, तदेतत्प्रतिपादन प्रभाकरमुखेन विज्ञेयम्- तेनैव प्रत्येकं ज्ञानेष्वात्मनो विषयत्वस्वीकारात् / ज्ञातृप्रधानां स्मृतिमुदाहरति- ज्ञातवानिति, प्रथमान्तपदार्थस्य प्राधान्यादत्र ज्ञाता प्रधानः। विषयप्रधानां स्मृतिमुदाहरति- असाविति / ज्ञानप्रधानां स्मृतिमुदाहरति- अस्मिन्निति, अत्र ज्ञानमेव प्रथमान्तपदार्थः / संकलयति- चतुर्विधमिति, समानार्थम्= ज्ञातृज्ञानज्ञेयानां समानमेव प्रकाशकमित्यर्थः, उक्तपदं स्वयं व्याचष्टे- सर्वत्रेति, सर्वत्र= सर्वासु स्मृतिषु / गृह्यते= विषयो भवति / अत्र- " मानसानुव्यवसायजनितसंस्कारकारणासु चतसृष्वपि स्मृतिषु नार्थमात्रं विषयः अपि तु ज्ञानज्ञातृज्ञेयानि सर्वे एव विषयाः / चतुर्पु वाक्येषु एकत्र ज्ञानं क्रिया कारकाद् निष्कृष्टा यथा- 'अमुष्मिन् मम ज्ञानमभूत् / इति. अगृह्यमाणोप्यर्थः स्मृतिसंनिधापनात् ' अमुष्मिन् ' इत्युच्यते / कारकादनिष्कृष्टाप्येकत्र पूर्वापरीभूतभावनाप्रधाना ज्ञानक्रिया गम्यते- 'अज्ञासिषमहममुमर्थम् ' इति / अन्यत्र ज्ञानभावने कारकादनिष्कृष्टे कर्तृप्रधाने यथा- 'ज्ञातवानहममुमर्थम् ' इति / अन्यत्र ज्ञानभावने कारकादनिष्कृष्टे कर्मप्रधाने यथा'असावर्थो मया ज्ञातः' इति / समानार्थमिति- ज्ञानज्ञेयज्ञातृप्रकाशनं समानमित्यर्थः / " इति तात्पर्यटीका / कारकादनिष्कृष्टत्वं चात्र कारकविशेषणत्वं विज्ञेयम् / __आत्मसत्त्वं प्रकारान्तरेणोपपादयति- अथेति, अथ= किं च प्रत्यक्षे= पूर्वमनुभूते पदार्थे या स्मृतिः= प्रत्यभिज्ञा जायते तया एकार्थविषयकाणि त्रीणि ज्ञानानि प्रतिसंधीयन्ते= विज्ञायन्ते प्रकाश्यन्ते तानि च ज्ञानानि समानकर्तृकाणि= एकात्मकर्तृकाणि भवन्ति न तु नानाकर्तृकाणि येनेन्द्रियाणामात्मत्वं स्याद् न चाऽकर्तृकाणि वा येनात्मसिद्धिर्न स्यादित्यन्वयः / ज्ञानकर्तृसंख्यां जिज्ञासतेकिमिति / उत्तरमाह- एकेति / उक्तानां त्रयाणामपि ज्ञानानां स्वरूपमाह- अद्राक्षमिति, अद्राक्षमित्यनेन भूतकालिकं रसादिपदार्थविषयकं यद् दर्शनं तदेकं ज्ञानम् दर्शनसंवित्= पदार्थदर्शनविषयकं यद ज्ञानं भूतकालिकं तद् द्वितीयं ज्ञानम् , ननु पदार्थ एव भासते न तु पदार्थज्ञानमपीत्याशंक्य दर्शनसंविसंत्तायां हेतुमाह-नेति, स्वे= स्मर्यमाणरसादिपदार्थविषयके दर्शने असंविदिते= अननुभूते ' अद्राक्षम्' इति प्रयोग एव नोपपद्यते- अनेन पदार्थविषयकदर्शनस्यापि विषयीकरणात्, सूक्ष्मदृष्ट्या हि दर्शनज्ञानमनुसंधेयम / उक्तज्ञानद्यं संकलयति- ते इति, एते= प्रदर्शिते / तृतीयं ज्ञानमाह- यमिति /