________________ 230 प्रसन्नपदापरिभूषितम्- [3 अध्याये. १आहिकेतस्या आत्मगुणत्वे सति सद्भावादप्रतिषेध आत्मनः= यदि स्मृतिरात्मगुणः एवं सति स्मृतिरुपपद्यते- नान्यदृष्टमन्यः स्मरतीति / इन्द्रियचैतन्ये तु नानाकर्तृकाणां विषयग्रहणानामप्रतिसंधानम्. प्रतिसंधाने वा विषयव्यवस्थानुपपत्तिः / एकस्तु चेतनोऽनेकार्थदर्शी भिन्ननिमित्तः पूर्वदृष्टमर्थ स्मरतीति / एकस्याऽनेकार्थदर्शिनो दर्शनप्रतिसंधानात् स्मृतेरात्मगुणत्वे सति सद्भावः, विपर्यये चानुपपत्तिः, स्मृत्याश्रयाः प्राणभृतां सर्वे व्यवहाराः / आत्मलिङ्गमुदाहरणमात्रमिन्द्रियान्तरविकार इति // 14 // अपरिसंख्यानाच स्मृतिविषयस्य // 15 // गुणत्वात् तदाश्रयस्यात्मनः प्रतिषेधोऽनुपपन्न इत्यर्थः / व्याचष्टे- तस्या इति, तस्याः= स्मृतेः / तादृशस्मृतेराधारत्वेनात्मा स्वीकार्य इति नात्मप्रतिषेध उपपद्यते इत्यर्थः / उक्तं विशदयति- यदीति, एवम् आत्मगुणत्वे सति / उक्ते हेतुमाह- नान्येति, यदीन्द्रियातिरिक्त आत्मा न स्यात्तदा रसनानुभूतस्य रसस्य चक्षुषः स्मृतिर्न संभवतीति फलदर्शनसमये रसस्मृतिर्न स्यादेव भवति च स्मृतिरिति ज्ञायतेइन्द्रियातिरिक्त एवात्मेति- तेन रसस्यानुभूतत्वाद्रूपदर्शनेन रससंस्कारे उबुद्धे रसस्मृतिर्जायते इत्युपपद्यते / इन्द्रियात्मपक्षे बाधकमाह- इन्द्रियेति, रसग्रहणं रसनकर्तृकमेव रूपग्रहणं चक्षुःकर्तृकमेवेत्येवं रसादिग्रहणं भिन्नभिन्नकर्तृकमेवेति प्रसिद्धमेव तत्र यदीन्द्रियाणामेवात्मत्वं स्यात्तदोक्तरीत्या फलस्य रूपदर्शनेन रसस्मृतिर्न स्यात्- चक्षुषा पूर्व रसस्यागृहीतत्वात् रसनस्य च स्मृतिकारणीभूतफलरूपज्ञानाभावादित्यर्थः / विपक्षे बाधकमाह- प्रतिसंधाने वेति, अन्यदृष्टमन्यो न स्मरतीति नियमोस्ति यमुक्तस्थले चक्षुषो रसस्मृतिः स्वीक्रियते तदा चक्षुषा पूर्व रसग्रहणमपि स्वीकार्य तथा च रसो रसनग्राह्य एव न चक्षुर्ग्राह्य इत्यादिरूपा या विषयस्य व्यवस्था नियमस्तदनुपपत्तिः प्राप्तेत्यर्थः / इन्द्रियातिरिक्तात्मपक्षे उपपत्तिमाह- एक इति, आस्मन्मते चेतनः= आत्मा एको नित्यश्च स चाऽनेकार्थदर्शी रूपरसादिसर्वपदार्थग्राही भिन्ननिमित्तः= तस्यात्मनश्चक्षुरादीनीन्द्रियाणि परस्परं भिन्नान्येव निमित्तानि रूपादिग्रहणकरणानि स चात्मा पूर्वदृष्टं पदार्थ स्मर्तुमर्हति नात्र काप्यनुपपत्तिः- यतः तस्य रूपदर्शनेनापि रसस्मृतिः संभवति तेन पूर्व रसस्यानुभूतत्वादित्यन्वयः / स्मृतेरात्मगुणत्वमाह- एकस्येति, इन्द्रियातिरिक्तस्यैकस्यानेकार्थदर्शिन आत्मनो दर्शनं च प्रतिसंधानं चेति दर्शनप्रतिसंधानं तस्मात् विषयग्रहणस्य तेन विषयस्मरणस्य च संभवात्. एकस्यात्मनो दृष्टविषयकं स्मरणमुपपद्यते इत्यर्थः किं वा दर्शनप्रतिसंधानम्= ज्ञानविषयकं स्मरणमुपपद्यते इत्यर्थः- ज्ञानस्यापि स्मरणसंभवात् तत्र यदि स्मृतिरात्मगुणस्तदा स्मृतिसद्भाव उपपद्यते- आत्मना स्वदृष्टस्य स्मर्तु शक्यत्वात्. विपर्यये= यदि च स्मृति त्मगुणस्तदा स्मृतिसद्भावो नोपपद्यते- एवं हि स्मृतेरिन्द्रियगुणत्वं वक्तव्यं तत्र फलस्य रूपदर्शनकाले रसस्मृतिर्न संभवति- अन्यदृष्टस्यान्येन स्मर्तुमशक्यत्वादित्युक्तमेवेत्यर्थः / ननु मा भवतु स्मृतिसद्भावः का हानिरित्याशङ्कयाह- स्मृत्याश्रया इति, यत्करोति जनस्तत् स्मृत्वैव करोति यथा पाकप्रकारं स्मृत्वा पाकं प्रबुद्धश्च पूर्वविचारितमित्यादि स्पष्टमेव, तत्र तत्र व्यवहारे स्मृतेः परामर्शाभावेपि सत्त्वं तु स्पष्टमेव / उपसंहरति- आत्मेति, इन्द्रियान्तरविकारलक्षणं यदात्मलिङ्गमुदाहृतं तद् उदाहरणमात्रम्= निदर्शनमात्रमेव-विस्तरभिया सर्वेषामात्मलिङ्गानां वक्तुमशक्यत्वादित्यर्थः // 14 // "न स्मृतेः" इति पूर्वपक्षे दोषान्तरमुद्घाटयति- अपरीति, स्मृतिविषयस्य= स्मृतिविषयाणाम् अपरिसंख्यानात्= परिगणनामकृत्वैवोक्तम्- " न स्मृतेः स्मर्तव्यविषयत्वात् " इति. इत्यन्वयः, स्मृतेः स्मर्यमाणरसादिविषयकत्वं स्वीक्रियते न तु तन्मात्रविषयकत्वं यतो रसादिव रसाद्यनुभवस्य रसादि. ग्राहकस्यात्मनश्चापि स्मृतिविषयत्वं स्पष्टमेवास्ति तथा च स्मृतिविषयत्वादपि सिद्ध आत्मा, तत्रेन्द्रियाणां स्मृतेरसंभवस्योपपादितत्वादिन्द्रियातिरिक्त एवात्मा सिध्यति तथा चात्मादिलक्षणस्य स्मृतिविषयस्य परिसंख्यानमकृत्वोक्तम्- "न स्मृतेः' इतीति न तेनात्मप्रतिषेध उपपद्यते इति सूत्रार्थः / अनियमपरो