________________ 229 आत्मविवेचनम् ] न्यायभाष्यम् / कस्य चिदम्लफलस्य गृहीततद्रससाहचर्ये रूपे गन्धे वा केन चिदिन्द्रियेण गृह्यमाणे . रसनस्येन्द्रियान्तरस्य विकारो रसानुस्मृतौ रसगर्धिप्रवर्तितो दन्तोदकसंप्लवभूतो गृह्यते तस्येन्द्रियचैतन्येऽनुपपत्तिः- नान्यदृष्टमन्यः स्मरति // 12 // न- स्मृतेः स्मर्तव्यविषयत्वात् // 13 // स्मृति म धर्मो निमित्तादुत्पद्यते, तस्याः स्मर्तव्यो विषयः तत्कृत इन्द्रियान्तरविकारो नात्मकृत इति // 13 // तदात्मगुणसद्भावादप्रतिषेधः॥ 14 // ऽऽत्मेति. तत्र संघातातिरिक्तात्मपक्षे फलज्ञानवत आत्मनः फलज्ञानेन तद्रसस्मृतेः संभवात् तद्रसस्मृत्या च रसनेन्द्रियविकारसंभवात् , यदि चेन्द्रियमेवात्मा स्यात्तदा येन चक्षुषा फलं दृष्टं तेन तु तद्रसो नानुभूत इति न चक्षुषो रसस्मृतिः संभवति. यस्य च रसनेन्द्रियस्य रसस्मृतिर्वक्तव्या तेन फलं न दृष्टमिति कथं तस्य रसस्मृतिः स्यात्. भवति च रसस्मृतिरिति ज्ञायते इन्द्रियादिव्यतिरिक्त एवात्मा- कार्यकारणभूतयोः स्मृत्यनुभवयोः सामानाधिकरण्यनियमादिति सूत्रार्थः / अत्र- "इन्द्रियान्तरविकारेण तत्कारणीभूताऽनुमीयमाना स्मृतिरात्मानमनुमापयतीति विकारस्यात्माऽवृत्तित्वेपि नानुपपत्तिरिति बोध्यम्" इति श्रीगुरुचरणाः / व्याचष्टे- कस्येति, गृहीतं तद्रसेन साहचर्य यस्य तस्मिन् गृहीततद्रससाहचर्ये रूपे गन्धे वा चक्षुरादिना गृह्यमाणे सति रसानुस्मृतौ= तत्फलस्य रसस्मृतौ जातायां इन्द्रियान्तरस्य रसनस्य रसगर्धिप्रवर्तितः= रसाभिलाषिणा चेतनेन प्रवर्तितो दन्तोदकसंप्लवभूतः= दन्तेषूदकसंचारलक्षणो विकारो गृह्यते तस्य विकारस्येन्द्रियचैतन्येऽनुपपत्तिः- यतोऽन्यदृष्टमन्यो न स्मरतीति नियमोस्ति, अत्र च चक्षुषा फले दृष्टे रसनेन्द्रियस्य तद्रसस्मृतिर्न संभवति येन तस्य विकारः स्यात् चक्षुषश्च न रसस्मृतिः संभवति- रसाऽग्राहकत्वादित्यनुपपत्तिः / इन्द्रियातिरिक्तात्मपक्षे तु स आत्मा रूपरसादिसर्वग्राहक इति तस्य रूपदर्शनेन तत्सहचरितरसादीनां स्मृतिः संभवति स्मृत्या चेच्छा जायते इच्छया चोक्तविकार उत्पद्यते इत्युपपद्यते इत्यन्वयः स्पष्टमन्यत् / अम्लरसस्मृत्या चायं विकारो विशेष उत्पद्यते इत्यभिप्रायेणोक्तम्- अम्लफलस्येति // 12 // उक्तं पूर्वपक्षी निराकरोति-नेति, स्मृतिः स्मर्तव्यविषया भवतीति रसस्मृतिरपि रसविषया संभवति नात्मविषयेति कथं रसस्मृत्या इन्द्रियातिरिक्त आत्मा सिध्येदिति सूत्रार्थः, पूर्व रसनेन्द्रियेण तद्रसस्यानुभूतत्वादेतादृशकाले रसनेन्द्रियस्य रसस्मृतिर्नानुपपन्ना- गगननिष्ठेनापि चन्द्रेण नायकनिष्ठस्य प्रियावदनविषयकसंस्कारस्योद्बोधवत् चक्षुरादीन्द्रियान्तरनिष्ठेनाप्युद्बोधकेन रूपादिदर्शनेन रसनादीन्द्रियान्तरनिष्ठसंस्कारस्योद्बोधसंभवादित्याशयः / व्याचष्टे-स्मृतिरिति, निमित्तात्= संस्कारात्, तस्या:= स्मृतेर्यः स्मृतिविषयीभूतो रसः स एव विषयो न त्वात्मापि, तत्कृतः= स्मर्यमाणरसकृत एवोक्तो रसनेन्द्रियविकारो न त्वात्मकृतो येन तद्विकारादात्मा सिध्येदित्यन्वयः / / 13 / / / ___ उक्तं सिद्धान्ती प्रत्याचष्टे- तदात्मेति, तत्= तस्याः= रसादिस्मृतेरात्मगुणत्वे सति आत्मगुणत्वेन वा सद्भावात्= सत्त्वसंभवाद् य इन्द्रियातिरिक्तात्मप्रतिषेध उक्तः स नोपपद्यते इत्यन्वयः, 'अहं स्मरामि' 'रसादिविषयकस्मृतिमानहम् ' इत्यादिज्ञानेन स्मृतेरात्मधर्मत्वं सिद्धमेवेति रसस्मृतिरप्यात्मधर्म एवेति रसस्मृत्या तदाधार आत्मा सिद्ध एव तत्रापि चक्षुषा फलस्य दर्शनेन रसनेन्द्रियस्य रसस्मृतिनोपपद्यते भवति च फलस्य रूपदर्शनेनापि रसस्मृतिरुक्तविकारगम्येति इन्द्रियातिरिक्त आत्मा स्वीकार्यः तस्य च रूपरसादिसर्वग्राहकत्वाद्रूपदर्शनेनापि रसस्मृतिर्नानुपपन्नेति, आत्मा इन्द्रियाद्यतिरिक्त एव नित्यः स्वीकार्य इति सूत्रार्थः / अत्र 'तस्या आत्मगुणभावादप्रतिषेधः' इत्येवं सूत्रं पठनीयमासीत् , तस्याः= स्मृतेरात्म