________________ 228 प्रसन्नपदापरिभूषितम्- [ ३अध्याये. १आहिके____ अथ वा दृश्यमानार्थविरोधो दृष्टान्तविरोधः- मृतस्य हि शिरःकपाले द्वावऽवटौ नासास्थिव्यवहितौ चक्षुषः स्थाने भेदेन गृह्यते न चैतद् एकस्मिन् नासास्थिव्यवहिते संभवति, अथ चैकविनाशस्याऽनियमाद् द्वाविमावऽर्थों. तौ च पृथगावरणोपघातौ अनुमीयेते- विभिन्नाविति / अवपीडनाच्चैकस्य चक्षुषो रश्मिविषयसंनिकर्षस्य भेदाद् दृश्यभेद इव गृह्यते तच्चैकत्वे विरुध्यते, अवपीडननिवृत्तौ चाभिन्नप्रतिसंधानमिति, तस्मादेकस्य व्यवधानानुपपत्तिः // 11 // अनुमीयते चायं देहादिसंघातव्यतिरिक्तश्चेतन इति इन्द्रियान्तरविकारात् // 12 // बहुष्विति, बहुष्ववयविषु मध्ये इत्यन्वयः, यस्य अवयविनः / येषामवयविनाम् / तथा चावयवनाशेऽवय. विनाश आवश्यक इत्यवयवनाशेऽत्रयविनो नेत्रस्यापि नाश आवश्यकस्तथा च काणस्य रूपज्ञानं न स्यादेव न चैवमस्तीति नेत्रद्वित्वं स्वीकार्य तथा च काणस्यैकचक्षुर्नाशेपि द्वितीयेन चक्षुषा रूपग्रहणं नानुपपन्नं. तत्रैकदृष्टस्य द्वितीयेन प्रत्यभिज्ञानुपपत्त्या इन्द्रियातिरिक्त एवात्मा स्वीकार्य इत्यर्थः / ___ सूत्रस्य वर्णकान्तरमाह- अथ वेति, अत्र पक्षे दृष्टान्तशब्दः प्रत्यक्षपदार्थपरस्तदाह- दृश्येति / उक्तमुपपादयति- मृतस्येति, शिरःकपाले= मस्तकास्थिनि, अवटौ= गतौं, स्थाने= स्थानभूतौ, भेदेन= भिन्नौ, प्रत्यक्षेण गृह्येते इत्यन्वयः, तथा च मस्तकस्थनेत्रस्थानद्वित्वान्नेत्रद्वित्वं सिद्धमित्यर्थः / व्यवच्छेद्यमाह- न चेति, एतत्= स्थानद्वित्वम् , यद्येकमेव चक्षुः स्यात्तस्य च नासास्थिव्यवधानेन द्वित्वं भ्रान्त्या प्रतीयेत तदा तस्यैकस्य स्थानद्रित्वं न स्यादित्यर्थः। नेत्रद्रित्वे उपपत्त्यन्तरमाह- अथेति, एकविनाशस्य= सव्यस्यैव वा दक्षिणस्यैव वा विनाशो भवतीति नियमो नास्ति किं वा एकविनाशस्य नाम सर्वथा नेत्रविनाशस्य नियमो नास्ति- काणस्यैकमात्रनेत्रदर्शनादित्यर्थः तस्मादनियमादनुमीयतेइमावौँ= नेत्रपदार्थों पृथगावरणोपघातौ परस्परं भिन्नौ द्वावेवेति, पृथग् आवरणौ उपघातौ ययोस्तौ पृथगावरणोपघातौ, आवरणौ= नेत्रपटलौ / अत्र- " एकत्वे चक्षुषो विनाशनियमो न स्यात्- सव्यस्यैव चक्षुषो न दक्षिणस्येति, एकत्वात् सव्यविनाशे दक्षिणस्यापि नाशप्रसङ्गात् , दृश्यते चायं नियमस्तस्माद् द्वावौँ पृथगावरणौ पृथगुपघातौ चेति" इति तात्पर्यटीका / एकस्य नेत्रस्यावरणोपघाताभ्यां द्वितीयस्यावरणोपघातौ न भवतस्तदेतदेकत्वे नोपपद्यते इति नेत्रद्वित्वं सिद्धमित्यर्थः / " एकविनाशस्य " इत्यत्र 'द्वितीयविनाशस्य ' इति वक्तव्यमासीत् / नेत्रद्वित्वे उपपत्त्यन्तरमाह- अवपीडनेति, नेत्रस्याङ्गल्यप्रेणावपीडने कृते नेत्ररश्मेः चन्द्रादिविषयस्य च यः संनिकर्षस्तस्य भेदात्= द्वित्वातू दृश्यभेद इव= चन्द्रादिद्वित्वं गृह्यते तदेतद् नेत्रैकत्वे विरुध्यते= नेत्रैकत्वे हि रश्म्येकत्वं तेन संयोगैकत्वं स्यात् तेन विषयस्यैकस्यैकत्वमेव गृह्येत न चैवमस्तीति चक्षुर्भेदाद्रश्मिभेदस्तेन संयोगभेदस्तेन ज्ञानभेद इति 'द्वौ चन्द्रौ' इत्यादिज्ञानं नेत्रद्वित्वे संभवति तत्रावपीडनाद् नेत्रयो रश्मिद्वयं पृथक् पृथगेव विषयं गृह्णातीति। अवपीडननिवृत्तौ च रश्मिद्वयस्यापि परस्परं संयोगादभिन्नप्रतिसंधानम्= एकत्वज्ञानं जायते / न च नेत्रद्वित्वे पदार्थमात्रस्य द्विधा भानं स्यात्- द्वाभ्यामपि नेत्राभ्यां पृथक् पृथगेव पदार्थग्रहणादिति वाच्यम्द्वयोरपि नेत्रयो रश्मीनामसति प्रतिबन्धके संभूय एव पदार्थेन संयुज्यमानत्वात् / किं च नेत्रैकत्वे काणत्वं न स्यात्- एकनेत्रविनाशे सत्यऽपरनेत्रवत्वं हि काणत्वमिति प्रत्यक्षमेव / उपसंहरति- तस्मादिति, तथा च नेत्रद्वित्वे सिद्धे यत्पूर्वमेकस्यैव नेत्रस्य नासास्थिव्यवधानेन द्वित्वभ्रम उक्तः स नोपपद्यते- नेत्रद्वित्वस्य वास्तविकत्वादित्यर्थः / एकस्य नेत्रस्य / / 11 // अग्रिमसूत्रमवतारयति- अनुमीयते इति, अयं चेतनो देहादिसंघातव्यतिरिक्त:- इन्द्रियान्तरविकारादित्यनुमीयते इत्यन्वयः। इन्द्रियान्तरेति- आम्रादौ फले दृष्टे तद्रसस्मृत्या इन्द्रियान्तरस्यरसनेन्द्रिमस्य मुखे जलवृद्धिलक्षणो विकारो जायते तस्मादपि विकाराद्विज्ञायते इन्द्रियातिरिक्त एवा