________________ 227 आत्मविवेचन] न्यायभाष्यम्। एकविनाशे द्वितीयाविनाशाद् नैकत्वम् // 9 // एकस्मिन्नुपहते चोधृते वा चक्षुषि द्वितीयमवतिष्ठते चक्षुर्विषयग्रहणलिङ्गं तस्मादेकस्य व्यवधानानुपपत्तिः // 9 // अवयवनाशेप्यऽवयव्युपलब्धेरहेतुः // 10 // “एकविनाशे द्वितीयाविनाशात्" इत्यहेतुः, कस्मात् ?. वृक्षस्य हि कासु चिच्छाखासु च्छिन्नासूपलभ्यते एव वृक्षः // 10 // ___ दृष्टान्तविरोधादप्रतिषेधः // 11 // न कारणद्रव्यविभागे कार्यद्रव्यमवतिष्ठते- नित्यत्वप्रसङ्गात् , बहुष्ववयविषु यस्य कारणानि विभक्तानि तस्य विनाशः येषां कारणान्यऽविभक्तानि तान्यऽवतिष्ठन्ते / सिद्धान्ती नेत्रद्वित्वं समाधत्ते- एकेति, एकस्य चक्षुषो विनाशेपि द्वितीयस्याऽविनाशात= सत्त्वदर्शनाद् चक्षुष एकत्वं नोपपद्यते, यद्येकमेव चक्षुः स्यात् तदा तस्य विनाशे जाते द्वितीयं चक्षुर्नोपलभ्येत, यदा च द्वे चक्षुषी तदैकस्य विनाशेपि द्वितीयसत्त्वमुपद्यते तथा च सिद्धं नेत्रद्वित्वं तत्र सव्यदृष्टस्य दक्षिणेन प्रत्यभिज्ञानादुक्तरीत्याऽऽत्मा इन्द्रियातिरिक्त एव. इन्द्रियाणां पञ्चत्वं च जात्यभिप्रायेण विज्ञेयमिति सूत्रार्थः / व्याचष्टे- एकस्मिन्निति, द्वितीयं चक्षुः, विषयग्रहणमेव लिङ्गम्= साधकं यस्य तद् विषयग्रहणलिङ्गं चक्षुः, एकस्मिन्नष्टेपि नेत्रे रूपज्ञानं जायते तेन ज्ञानेन ज्ञायते- अस्ति द्वितीयं नेत्रमिति. यद्येकमेव नेत्रं स्यात्तदा काणस्य रूपज्ञानं न स्यात् न चैवमस्तीति नेत्रद्वित्वं सिद्धं तथा चैकस्य नेत्रस्य नासाव्यवधानेन यो द्वित्वभ्रम उक्तः स नोपपद्यते- नेत्रद्वित्वस्य वास्तविकत्वादित्याह- तस्मादिति, एकस्य नेत्रस्येत्यर्थः / पर्यवसितं चोक्तमेव // 9 // उक्तं पूर्वपक्षी प्रत्याचष्टे- अवयवेति, शाखादिलक्षणावयवस्य नाशेपि यथाऽवयवी वृक्ष उपलभ्यते तथाऽवयवभूतस्यैकगोलकनिष्टस्य नेत्रावयवस्य नाशेष्यवयविनो नेत्रस्य सत्त्वसंभवाद् रूपज्ञानं काणस्य नानुपपन्नमिति पूर्वसूत्रे नेत्रद्वित्वसाधनाथ यो हेतुरुक्तः सोऽहेतुः= नेत्रद्वित्वसाधको न भवतीति नेत्रैक्यं प्राप्तं तथा चोक्ता प्रत्यभिज्ञा नेत्रस्य नानुपपन्नेति नेन्द्रियातिरिक्त आत्मा स्वीकार्य इति सूत्रार्थः / व्याचष्टे- एकेति, अयं हि पूर्वोक्तसूत्रस्यानुवादः / उक्तहेतोरहेतुत्वं जिज्ञासते- कस्मादिति / उत्तरमाह- वृक्षस्येति, दृष्टान्तभागोयम् / तथा चैकस्यावयवस्य विनाशेपि अवयविनो नेत्रस्य सत्त्वं नानुपपन्नमिति नैकगोलकनिष्ठभागविनाशेपि काणस्य रूपज्ञानानुपपत्तिरिति नेत्रैक्यं सिद्धं तेन प्रत्यभिज्ञानं सिद्धं तेनेन्द्रिग्रस्यात्मत्वमयि सिद्धमित्यर्थः / / 10 // उक्त सिद्धान्ती प्रत्याचष्टे- दृष्टान्तेति, अवयवनाशेनाऽवयविनाशस्यावश्यकत्वेन दृष्टान्ते शाखानाशेन वृक्षनाशः स्वीक्रियते इति दृष्टान्तविरोधस्तस्माद् नेत्रावयवनाशेपि नेत्रनाश आवश्यक एवेति यो नेत्रद्वित्वस्य प्रतिषेध उक्तः स प्रतिषेधो न युक्तः, किं वा वृक्षस्य बहवः खल्ववयवास्तेषु केषांचिदवयवानां नाशेपि वृक्षसत्त्वं नानुपपन्नं प्रकृते च यथा घटस्य कपाललक्षणो द्वावेवावयवावित्येककपालनाशे घटनाश आवश्यकस्तथा नेत्रस्यापि गोलकानुसारेण द्वावेवावयवाविति वक्तव्यं तत्रैकस्यावयवस्य नाशेऽवयविनो नेत्रस्य सत्त्वं नोपपद्यते इति दृष्टान्तविरोध इत्युक्तप्रतिषेधेन नत्रैक्यं न सिध्यति तथा चोक्तप्रत्यभिज्ञाया उपपत्त्यर्थमिन्द्रियातिरिक्तो नित्य आत्मा स्वीकार्य इति सूत्रार्थः / व्याचष्टेनेति, कारणद्रव्याणाम्= अवयवानां विभागे= विनाशे कार्यद्रव्यं नावतिष्ठते यद्यवतिष्ठेत तदा नित्यमेवस्यात्- विनाशस्य कारणान्तरासंभवादित्यन्वयः, अन्यथा नित्यत्वप्रसङ्गादितियोजना / उपपादयति