________________ 226 - प्रसन्नपदापरिभूषितम्- [3 अध्याये. १आह्निकेइतश्च देहादिव्यतिरिक्त आत्मा सव्यदृष्टस्येतरेण प्रत्यभिज्ञानात् // 7 // पूर्वपरयोर्विज्ञानयोरेकविषये प्रतिसंधिज्ञानं प्रत्यभिज्ञानम्- 'तमेवैतर्हि पश्यामि यमज्ञासिषम् ' स एवायमर्थः' इति, सव्येनं चक्षुषा दृष्टस्येतरेणापि चक्षुक्षा प्रत्यभिज्ञानात्- 'यमद्राक्षं तमेवैतर्हि पश्यामि' इति / इन्द्रियचैतन्ये तु नान्यदृष्टमन्यः प्रत्यभिजानातीति प्रत्यभिज्ञानानुपपत्तिः, अस्ति विदं प्रत्यभिज्ञानं तस्मादिन्द्रियव्यतिरिक्तश्चेतनः // 7 // न- एकस्मिन्नासास्थिव्यवहिते द्वित्वाभिमानात् // 8 // एकमिदं चक्षुः मध्ये नासास्थिव्यवहितं तस्यान्तौ गृह्यमाणौ द्वित्वाभिमानं प्रयोजयतः मध्यव्यवहितस्य दीर्घस्येव // 8 // दित्यन्वयः, तथा च नित्यात्मपक्षेपि शरीरादीनामुक्तलक्षणहिंसायाः संभवात् तत्फलभोगस्य च नित्यात्मनः संभवात् पातकाभावापत्तिर्नास्तीत्याशयेनोपसंहरति-तत्रेति, तत्र= नित्यात्मपक्षे हिंसास्वरूपे हिंसाफलभोगे पातके च सिद्धे पातकभावप्रसञ्जनार्थ यत् “तदभावः” इत्यादिपूर्वसूत्रमुक्तम् एतत= तन्न युक्तमित्यन्वयः // 6 // // इत्यात्मनः संघातातिरिक्तत्वव्यवस्थापनं समाप्तम् // अग्रिमसूत्रमवतारयति-- इतश्चेति, इतः= सूत्रोक्तहेतोः / आत्मन इन्द्रियातिरिक्तत्वव्यवस्थापनमारभते- सव्येति, “वामं शरीरं सव्यं स्यात् " इत्यमरः, सव्येन वामेन चक्षुषा दृष्टस्य इतरेण= दक्षिणेन चक्षुषा प्रत्यभिज्ञानाद् ज्ञायते- आत्मा इन्द्रियातिरिक्त एवेति. यदि इन्द्रियमेवात्मा स्यात्तदा वामेंन दृष्टस्य दक्षिणेन प्रत्यभिज्ञा न स्यात्- अन्येन दृष्टस्यान्येन प्रत्यभिज्ञानासंभवादित्यात्मा इन्द्रियातिरिक्त एव नित्यस्तस्य च वामेन दृष्टस्यापि दक्षिणेन प्रत्यभिज्ञा नानुपपन्नेति सूत्रार्थः / व्याचष्टे-पूर्वेति, पूर्वपरयोः= पूर्वोत्तरयोर्ज्ञानयोरेकविषये= विषयैक्ये सति एकविषयविषयकं यद् बाह्येन्द्रियजन्यं प्रतिसंधिज्ञानम्= उभयसंबद्धं ज्ञानम् तत्तेदन्ताविषयकं ज्ञानं तत् प्रत्यभिज्ञानमित्युच्यते यथा- 'सोयं देवदत्तः' इति. इत्यन्वयः, उदाहरति- तमिति / उदाहरणान्तरमाह-स इति, अर्थः= चैत्रादिः / सूत्रार्थमाह-सव्येनेति, इतरेण= दक्षिणेन / पुनरुदाहरति- यमिति, भवतीतिशेषः / इन्द्रियात्मपक्षे बाधकमाहइन्द्रियेति, इन्द्रियात्मपक्षे सर्वेषामेवेन्द्रियाणां पृथक् पृथगेव चैतन्यम्= आत्मत्वं स्यात्तथा च वामचक्षुर्लक्षणेनात्मना दृष्टस्य चैत्रादेर्दक्षिणचक्षुर्लक्षणात्मनः प्रत्यभिज्ञा नोपपद्यते यतोऽन्यदृष्टमन्यो न प्रत्यभिजानाति. अस्ति चेदम् वामेन दृष्टस्यापि दक्षिणेन प्रत्यभिज्ञानमिति तदुपपत्त्यर्थमिन्द्रियव्यतिरिक्त एव नित्य आत्मा स्वीकार्य इत्याह- तस्मादिति // 7 // पूर्वपक्षी नेत्रद्वित्वं निराकरोति-नेति, न द्वे नेत्रे किं त्वेकमेव नेत्रं तस्मिन्नेकस्मिन्नेव नेत्रे नासास्थिव्यवहिते= नासास्थिव्यवधानेन द्वित्वाभिमानात्= द्वे नेत्रे इति द्वित्वभ्रमो भवति यथैकस्मिनेव तडागे मध्ये सेतुव्यवधानेन द्वित्वभ्रमो भवति तथा तथा च सव्यगोलकनिष्ठनेत्रदृष्टस्य दक्षिणगोलकनिष्ठनेत्रेण प्रत्यभिज्ञा नानुपपन्ना- गोलकद्वित्वेप्यात्मभूतस्य चक्षुरिन्द्रियस्यैक्याद् अन्यथा ज्ञानेन्द्रियाणां पञ्चत्वं बाधितं स्यादिति नेन्द्रियातिरिक्तात्मनः स्वीकारापेक्षेति सूत्रार्थः / व्याचष्टेएकमिदमिति, नासास्थिना मध्ये व्यवहितम् , तस्य= चक्षुषः अन्तौ= गोलकलक्षणौ भागौ किं वा व्यवच्छेदौ गृह्यमाणौ चक्षुषि द्वित्वाभिमानस्य= द्वित्वभ्रमस्य प्रयोजको भवतः यथा दीर्घस्य= लम्बायमानस्य वंशादेर्मध्ये व्यवधानेन द्वित्वभ्रमो भवति तथा तथा चैकमेव चक्षुरिति न तस्य प्रत्यभिज्ञानुपपत्तिरिति नेन्द्रियातिरिक्त आत्मा स्वीकार्य इत्यर्थः // 8 //