________________ आत्मविवेचनम् ] न्यायभाष्यम् / 225 च्छेदो वा प्रमापणलक्षणो वा वधो हिंसेति, कार्य तु सुखदुःखसंवेदनं तस्याऽऽयतनम्= अधिष्ठानम्= आश्रयः शारीरम्. कार्याश्रयस्य शरीरस्य स्वविषयोपलब्धेश्च कर्तृणामिन्द्रियाणां वधो हिंसा न नित्यस्यात्मनः, तत्र यदुक्तम्- " तदभावः सात्मकप्रदाहेपि तन्नित्यत्वात् 5" इति एतदयुक्तम् / यस्य सत्त्वोच्छेदो हिंसा तस्य कृतहानमकृताभ्यागमश्चेति दोषः / एतावचैतत् स्यात्- सत्त्वोच्छेदो वा हिंसा अनुच्छित्तिधर्मकस्य सत्त्वस्य कार्याश्रयकर्तृवधो वा. न कल्पान्तरमस्ति. सत्त्वोच्छेदश्च प्रतिषिद्धः, तत्र किमन्यच्छेषम् ? यथाभूतमिति / / अथ वा " कार्याश्रयकर्तृवधात् " इति कार्याश्रयः= देहेन्द्रियबुद्धिसंघातो नित्यस्यात्मनः तत्र सुखदुःखप्रतिसंवेदनं तस्याऽधिष्ठानम्= आश्रयः= तदायतनं तद् भवति न ततोऽन्यदिति स एव कर्ता- तन्निमित्ता हि सुखदुःखसंवेदनस्य निर्वृत्तिर्न तमन्तरेणेति. तस्य वधः= उपघातः= पीडा प्रमापणं वा हिंसा न नित्यत्वेनात्मोच्छेदः, तत्र यदुक्तम्- " तदभावः सात्मकप्रदाहेपि तन्नित्यत्वात् " ( इति ) एतन्नेति // 6 // वैकल्यलक्षणः प्रबन्धोच्छेदः= प्रवाहोच्छेदो यथा काणत्वादिः किं वा प्रमापणलक्षणः= विनाशलक्षणो वधः स एव हिंसेत्युच्यते एतादृशी च हिंसा नित्यात्मपक्षेपि नानुपपन्ना- आत्मनो नित्यत्वेपि शरीरादीनामुपघातसंभवादित्यर्थः, अत्राल्पोपघातेन पीडा ततोधिकेनोपघातेन विकृतिलक्षणं वैकल्यं ततोप्यधिकेन विनाशस्तदेतत् प्रत्यक्षमेव / कार्यपदार्थमाह- कार्यमिति, संवेदनम् = भोगः / तस्य= संवेदनस्य, आश्रयपदार्थमाह- आयतनमिति / संकलितमाह- कार्याश्रयस्येति / कर्तृपदार्थमाह- स्वेति / व्यवच्छेद्यमाह- नेति, नित्यस्यात्मनस्तु हिंसा नोच्यते येन नित्यात्मपक्षे हिंसाया असंभवात्पातकाभावापत्तिः म्यादित्यर्थः / उपसंहरति- तत्रेति, तथा च "तदभावः” इत्यादिपूर्वसूत्रं यदुक्तं तन्न युक्तमित्यन्वयः, पूर्वसूत्रेण नित्यात्मपक्षे यः पातकाभाव उक्तः स नोपपद्यते- आत्मनो नित्यत्वेपि शरीराापघातेन पातकसंभवादित्यर्थः / ननु सत्त्वोच्छेदः= आत्मविनाश एव हिंसा किं न स्यात् ? इत्याशङ्कयात्मविनाशपक्षे कृतहान्यकृताभ्यागमदोषमाह- यस्येति, यस्य मते इत्यर्थः / हिंसाया द्वैविध्यमेव संभवतीत्याहएतावदिति, एतत्= हिंसास्वरूपं एतावत्= विवक्षितद्विप्रकारमेव स्यात्= संभवतीत्यर्थः / द्वैविध्यमाहसत्त्वेति, सत्त्वोच्छेदः= आत्मविनाशो हिंसेति एकः कल्पः, अनुच्छित्तिधर्मकस्य= अविनाशिनः सत्त्वस्य= आत्मनः कार्याश्रयकर्तृवधः= देहेन्द्रियोपघातो हिंसेति द्वितीयः कल्पः. एतत्कल्पद्वयादन्यत्कल्पान्तरं हिंसाया नास्तीत्यन्वयः / एतादृशकल्पद्वये आत्मोच्छेदकल्पस्तु प्रतिषिद्ध एव- असंभवात् , आत्मोच्छेदपक्षे कृतहान्यकृताभ्यागमदोषप्रसङ्गादित्याह- सत्वोच्छेदश्चेति / शेषकल्पं जिज्ञासते- तत्रेति, तत्र= आत्मोच्छेदकल्पे प्रतिषिद्धे सतीत्यर्थः / शेषकल्पमाह- यथेति, हिंसाया यथाभूतम्= वास्तविकं यत्स्व. रूपं शरीराद्यपघातलक्षणं तदेव शिष्टं तदेव च संभवतीति न नित्यात्मपक्षे पातकाभावापत्तिः, उक्तलक्षणाया हिंसायाः संभवात्, आत्मविनाशस्तु न संभवतीत्यर्थः। कर्मधाग्यसमासमाश्रित्य सूत्रस्य वर्णकान्तरमाह- अथ वेति, नित्यस्यात्मनो देहेन्द्रियबुद्धिसंघात एव कार्याश्रयः यतः सुखदुःखसंवेदनलक्षणं कार्य तत्र देहादिसंघाते भवति तत्= उक्तसंघात एव तस्य= सुखादिसंवेदनस्याधिष्ठानम्= आश्रयः= तदायतनम्= सुखादिभोगस्थानं भवति- शरीरं विना सुखादिभोगाऽसंभवादिति ततः= संघातादन्यत् सुखादिभोगाश्रयो न भवतीति सः कार्याश्रयः= संघात एव कर्तेति सूत्रे कर्मधारयसमास इत्यन्वयः / उक्ते हेतुमाह- तन्निमित्तेति, कर्तृपदं च साधनपरमिति तन्निमित्ता= देहादिसंघातनिमित्तैव सुखादिभोगस्य निर्वृत्तिः= सिद्धिर्भवति न तम्= संघातं विनेति संघात एव कर्तेति सिद्धं, तस्य= सुखादिभोगसाधनीभूतस्य संघातस्य यो वधः= उपधात:- पीडा किं वा प्रमापणम्= विनाशः स एव हिंसापदार्थो न त्वात्मोच्छेदो हिंसा- आत्मनो नित्यत्वेनोच्छेदासंभवा