________________ 224 प्रसन्नपदापरिभूषितम्- [3 अध्याये. १आह्निकेतदभावः सात्मकप्रदाहेपि- तन्नित्यत्वात् // 5 // यस्यापि नित्येनात्मना सात्मकं शरीरं दह्यते तस्यापि शरीरदाहे पातकं न भवेद् दन्धुः, कस्मात ?. नित्यत्वादात्मनः, न जातु कश्चित् नित्यं हिसितुमहेति, अथ हिंस्यते 1. नित्यत्वमस्य न भवति, सेयमेकस्मिन् पक्षे हिंसा निष्फला. अन्यस्मिस्त्वऽनुपपन्नेति // 5 // न-कार्याश्रयकर्तृवधात् // 6 // न ब्रमः- नित्यस्य सत्त्वस्य वधो हिंसा अपि त्वनुच्छितिधर्मकस्य सत्त्वस्य कार्याश्रयस्य शरीरस्य स्वविषयोपलब्धेश्च कर्तृणामिन्द्रियाणामुपघात:= पीडा वैकल्यलक्षणः प्रबन्धो"मोनार्थश्च प्रयासो नोपपद्यते- अयत्नसिद्धत्वात् . जातमात्र एवायं मुच्यते इति मुक्त्यर्थ ब्रह्मचर्यवासो व्यर्थः” इति / वस्तुतस्त्विदमप्ययुक्तम्- संघात्मवादिना ब्रह्मचर्यमोक्षादेरस्वीकारात् / उपसंहरतितदिति, सत्त्वम् = आत्मा, संघातात्मपक्षे जीवच्छरीरदाहे पातकं न भवेत्- शरीरदाहकस्य तदत्तरक्षणे विनाशेन फलभोगासंभवात् पातकाभावश्च तत्फलभोगाभाव एवेत्यर्थः, एतद्दोषपरिहारार्थ संघातातिरिक्तो नित्य आत्मा स्वीकार्यस्तस्य नित्यत्वेनोक्तदोषाणामापत्तिनास्तीत्याह- तस्मादिति // 4 // पर्वपक्षी नित्यात्मपक्षेपि पातकाभावदोषस्यापत्तिमाह- तदभाव इति, नित्यात्मपक्षेपि सात्मकप्रदाहे= जीवच्छरीरदाहे तदभावः= पातकाभावः प्रसज्यते- तन्नित्यत्वात्= आत्मनो नित्यत्वात नित्यस्य च हिंसाया एवाऽसंभवात् हिंसां विना च पातकस्याप्यसंभवादिति सूत्रार्थः, पूर्वत्र पातकाभावो हि पातकफलभोगाभावः अत्र तु पातकस्य स्वरूपेणैवाभावः- नित्यस्यात्मनो हिंसाया एवासंभवादितिविवेकः / व्याचष्टे- यस्येति, यस्य= नैयायिकादेर्मते नित्य आत्मा तस्यापि मते जीवच्छरीरदाहे दग्धुः= दाहकस्य पातकं न संभवति / नित्येनात्मना सात्मकम्= नित्यात्मविशिष्टं शरीरं दह्यते= दह्यतेत्यर्थः / स्वमते पातकाभावे हेतुं जिज्ञासते- कस्मादिति / उत्तरमाह- नित्यत्वादिति, उक्तं विशदयति-न जात्विति, नित्यस्यात्मनो हिंसैव न संभवतीति कथं जीवच्छरीरदाहेपि तव मतेपि पातकं स्यादित्यर्थः / विपक्षे बाधकमाह- अथेति, यद्यात्मा हिंस्यते तदा विनाशित्वादेवास्य= आत्मनो नित्यत्वं न संभवतीत्यर्थः / उपसंहरति- सेयमिति, सेयं हिंसा एकस्मिन् पक्षे= संघातात्मपक्षे स्वरूपसत्यपि निष्फलाहिंसकस्योक्तरीत्या हिंसाफलप्राप्तेरसंभवात् , अन्यस्मिन्= नित्यात्मपक्षे तु हिंसाऽनुपपन्ना- आत्मनो नित्यत्वेन हिंसाया असंभवादिति. तथा च पातकाभावस्तव मतेपि समान एवेत्यर्थः / अत्र- “यस्यात्मा नित्यस्तस्यापि हिंसाफले न प्राप्नुत:- हिंसा तावन्न प्राप्नोति नित्यत्वात. फलमपि नात्मनो युक्तम्अनुपकार्यत्वात् " इति वार्तिकम् // 5 // उक्तपूर्वपक्षम्= नित्यात्मपक्षे पातकाभावं प्रतिक्षिपति- नेति, कार्य सुखदुःखभोगस्तस्याश्रयः शरीरम्- शरीरावच्छेदेनैवात्मनः सुखादिभोगसंभवात् कर्तृणि= विषयोपलब्धिकारणानीन्द्रियाणि तयोः कार्याश्रयकोंर्यो वधः= उपधातः सा हिंसा एतादृशी च हिंसा नित्यात्मपक्षेपि नानुपपन्ना येन पातकाभावः प्रसज्येत, किं वा कार्याश्रयकर्तृपदं शरीरपरमेव शरीरस्य सुखादिभोगाश्रयत्वात् कर्तृत्वाच्च तस्य वधो हिंसेति सूत्रार्थः / अत्र- " तत्र कार्याश्रयशब्देन शरीरमुच्यते- तन्निमित्तत्वादुपभोगस्येति. कर्तणीन्द्रियाणि तत्साधनत्वात् , अथ वा समानाधिकरणसमासाच्छरीरमेव कार्याश्रयकर्तृशब्दाभ्यामुच्यते " इति वार्तिकम् / व्याचष्टे- नेति, यद्यात्मवधो हिंसेत्युच्येत तदा नित्यस्यात्मनो हिंसाया असंभवाद् नित्यात्मपक्षे पातकाभावापत्तिः स्यादपि न चैवमुच्यते इत्यर्थः / स्वमतेन हिंसास्व. रूपमाह- अपीति, अनुच्छित्तिधर्मकस्य= अविनाशिनः सत्त्वस्य= आत्मनो यः कार्याश्रयः= भोगाश्रयः शरीरं तस्य स्वस्वविषयोपलब्धेः कर्तृणाम्= साधनानां चेन्द्रियाणां य उपघातपीडादिशब्दवाच्यः किं वा