________________ आत्मविवेचनम् ] न्यायभाष्यम् / 223 शरीरग्रहणेन शरीरेन्द्रियबुद्धिवेदनासंघातः पाणिभूतो गृह्यते, प्राणिभूतं शरीरं दहतः पाणिहिंसाकृतपापं पातकमित्युच्यते. तस्याभाव:- तत्फलेन कर्तुरसंबन्धात् अकर्तुश्च संबन्धात्शरीरेन्द्रियबुद्धिवेदनाप्रबन्धे खल्वन्यः संघात उत्पद्यतेऽन्यो निरुध्यते. उत्पादनिरोधसंततिभूतः प्रबन्धो नाऽन्यत्वं बाधते- देहादिसंघातस्याऽन्यत्वाधिष्ठानत्वात्. अन्यत्वाधिष्ठानो ह्यसौ प्रख्यायते इति, एवं सति यो देहादिसंघातः पाणिभूतो हिंसां करोति नासौ हिंसाफलेन संबध्यते. यश्च संबध्यते न तेन हिंसा कृता, तदेवं सत्त्वभेदे कृतहानमकृताभ्यागमः प्रसज्यते, सति च सत्वोत्पादे सत्वनिरोधे चाऽकर्मनिमित्तः सत्त्वसर्गः प्रामोति तत्र मुक्त्यर्थो ब्रह्मचर्यवासो न स्यात् / तद् यदि देहादिसंघातमात्रं सत्त्वं स्यात् शरीरदाहे पातकं न भवेत्. अनिष्ट चैतत्. तस्माद् देहादिसंघातव्यतिरिक्त आत्मा नित्य इति // 4 // शरीगतिरिक्त एवात्मेति' इतिसूत्रकाराशयो भाति / व्याचष्टे- शरीरेति, शरीरग्रहणेन= शरीरशब्दनेति यावत् / प्राणिभूतः= प्राणविशिष्टः- मृतशरीरस्य दाहे पातकाभावादत्र शरीरदाहशब्देन जीव छरीरदाहो ग्राह्य इत्यर्थः / पातकपदार्थमाह-प्राणिभूतमिति, प्राणिभूतम्= प्राणविशिष्टम् / प्राणिहिंसाकृतं पापं पातकमित्यन्वयः / पातकाभावपदार्थमाह- तस्येति, तत्फलेन= हिंसादिफलेन पापेन सह हिंसादिकर्तुरसंबन्धात्= यः संबन्धाभावः= भोगाभावः तस्मादेव तस्य= पातकस्याभावः / अत्र कृतहानिमुक्त्त्वाऽकृताभ्यागममाह- अकर्तुरिति, यदि तत्र पातकफलं भवति तदा तत्फलं पातकाऽकर्तुरेव स्यात् यतः संघातस्य प्रतिक्षणं भेदेन पातककञपेक्षया तत्फलभोक्ता संघातोऽन्य एव संभवतीत्यर्थः / संघातस्य प्रतिक्षणं भेदमुपपादयति- शरीरेन्द्रियेति, प्रबन्धे= संताने प्रवाहे= समुदाये प्रतिक्षणमन्यः संघात उत्पद्यते अन्यः= पूर्वश्च संघातः प्रतिक्षणं निरुध्यते= विनश्यति दीपज्वालेव, संघातो हि अन्नादिकार्य एवेति कारणीभूतान्नादिरसपरमाणूनामुत्तरोत्तरं भेदात् तत्कार्यभूतसंघातस्यापि प्रतिक्षणं भेद आवश्यकस्तत्रानेकसंघातदर्शनाभावात् पूर्वः पूर्वः संघातो विनश्यति उत्तरोत्तरश्चोत्पद्यते इति स्वीकार्यमेव तथा च हिंसादिकर्तुस्तत्फलभोगकाले सत्त्वासंभवेन फलभोगासंभवात् पातकाभावः प्रसक्तः, येन च पातकफलं भुज्यते तेन तु पातकं न कृतं तस्य पातकोत्पत्तिकाले सत्त्वासंभवादित्यर्थः / ननु संतानैकत्वं संघातनानात्वस्य बाधकं भविष्यतीत्याशङ्कयाह- उत्पादेति, संघातप्रतियोगिकयोरुत्पादनिरोधयोः= उत्पत्तिविनाशयोः संततिभूतः= नैरन्तर्येणाश्रयीभूतः प्रबन्धः= देहेन्द्रियादिसमुदायः संतानः संघातनानात्वं न बाधते- अन्यत्वस्य= नानात्वस्य देहादिसंघातनिष्ठत्वात्. नहि नद्येकत्वं प्रवाहनानात्वबाधक भवति तथैवात्रापि विज्ञेयम् / अत्र प्रत्यक्षं प्रमाणयति- अन्यत्वेति, असौ= संघातो बाल्याद्यवस्थाभेदेन नाना प्रख्यायते= प्रत्यक्षमीक्ष्यते स च भेदः प्रतिक्षणं भेदं विना न संभवतीति सिद्धं संघातनानात्वम् / वस्तुतस्त्वत्र "नान्यत्वं बाधते" इत्यत्र 'अन्यत्वमापादयति इति वक्तव्यमासीत् / कृतहान्यकृताभ्यागमदोषेणोपसंहरति-एवं सतीति, एवम् = उक्तरीत्या संघातनानात्वे सिद्धे सति हिंसकस्य संघातस्य हिंसोत्तरक्षणे एव विनाशाद् हिंसाफलप्राप्तिन संभवति, यस्य च संघातस्य हिंसाफलप्राप्तिर्भवति तेन तु हिंसा न कृता- तस्य हिंसाकाले उत्पत्तेरेवाभावादिति तदेवं सत्त्वभेदे= संघातलक्षणात्मनो भेदे सिद्धे संघातात्मपक्षे कृतस्य= पातकस्य हानिः= फलभोगाभावो हिंसकस्य, अकृतस्य च पातकस्य अभ्यागमः फलभोगो हिंसकान्यसंघातस्य प्रसज्यते एत्तच्च न युक्तमिति संघातातिरिक्तो नित्य आत्मा स्वीकार्य इत्यर्थः / संघातात्मपक्षे दोषान्तरमाह- सति चेति, एवं सत्त्वस्य= संघातलक्षणात्मनो नानात्वे सिद्धे कृतहान्यकृताभ्यागमदोषेण तादृशसत्त्वस्य सर्गः अकर्मनिमित्तः प्राप्नोति= कर्मनिमित्तो न संभवतिकर्मकर्तुस्तदुत्तरक्षणे विनाशेन फलभोगकाले सत्त्वस्यैवासंभवात् तथा च संघातात्मवादिनो मोक्षार्थों ब्रह्मचर्यवासो निष्फल एव स्यात- तत्फलप्राप्तेरसंभवात मोक्षश्च स्वयमेव म्यात तथा च वार्तिकम