________________ 222 . प्रसन्नपदापरिभूषितम्- ..[ 3 अध्याये. १आह्निकेवेदयते, सर्वार्थविषयं च शास्त्रं प्रतिपद्यते. अर्थमविषयभूतं श्रोत्रस्य, क्रमभाविनो वर्णान् श्रुत्वा पदवाक्यभावं प्रतिसंधाय शब्दार्थव्यवस्थां च बुध्यमानोऽनेकविषयमर्थजातमग्रहणीयमेकैकेनेन्द्रियेण गृह्णाति, सेयं सर्वज्ञस्य ज्ञेयाऽव्यवस्थाऽनुपदं न शक्या परिक्रमितुम्।आकृतिमात्रं तूदाहृतम् , तत्र यदुक्तम्-' इन्द्रियचैतन्ये सति किमन्येन चेतनेन ' ( इति ) तदयुक्तं भवति // 3 // इतश्च देहादिव्यतिरिक्त आत्मा न देहादिसंघातमात्रम् शरीरदाहे पातकाभावात् // 4 // स्मरतीत्यन्वयः, तादृशप्रत्ययान् प्रतिसंधाय तद्विषयीभूतान् पदार्थान् वेदयते= स्मरति तत्तद्विषयकज्ञानस्मरणपूर्वकं च तत्तद्विषयस्मरणं विदुषां स्पष्टमेव, नानाविषयाणां ज्ञानानां च स्मरणं कस्यापीन्द्रियस्य न संभवतिइन्द्रियाणां शब्दादिमात्रग्राहकत्वेन ज्ञानग्राहकत्वाभावात् तथा नानाविषयग्राहकत्वाभावादित्यर्थः, आत्मा सर्वविषयकं शास्त्रमपि प्रतिपद्यते तत्र सर्वविषयकशास्त्रस्य प्रतिपत्तिरपीन्द्रियाणां न संभवति- सर्वविषयग्रहणसामर्थ्याभावादित्याह-सर्वेति, वाक्यस्य श्रोत्रप्राह्यत्वेपि वाक्यार्थस्य श्रोत्रग्राह्यत्वं नोपपद्यते नाप्यन्ये. षामिन्द्रियाणां वाक्यार्थग्राहकत्वमिति वाक्यार्थग्रहीता इन्द्रियातिरिक्त एवात्मेत्यर्थः / वाक्यार्थग्रहणस्यास्मकर्तृकत्वमाह- क्रमेति, धकारटकारादीनां वर्णानां क्रमभावेन श्रूयमाणानां घटादिपदत्वं भवति पदानां क्रमभावेन च वाक्यत्वं भवति तत्सर्वं प्रतिसंधाय शब्दार्थव्यवस्थाम् ' इदं पदमस्य वाचकम् ' इत्यादिरूपं वाच्यवाचकभावं बुध्यमानः= जानानः अनेकविषयम्= अनेकेषामिन्द्रियाणां विषयभूतम् अर्थजातम्= पदार्थवृन्दं शब्दस्पर्शरसादिकम् एकैकेनेन्द्रियेणाऽग्रहणीयम्= ग्रहीतुमशक्यमप्यात्मा गृह्णातीत्यन्वयः, चक्षुरादिना रसादिग्रहणं न संभवतीत्याशयेनोक्तम्- एकैकेनेति / तथा चैतादृशसकलपदार्थग्राहकत्वमिन्द्रियाणां नोपपद्यते- रसादितत्तद्विषयमात्रग्राहकत्वनियमादित्यात्मा सकलपदार्थग्राही इन्द्रियातिरिक्त एवेत्यर्थः / स्वपक्षे दाय॑माह- सेयमिति, सेयम्= उपपादितेयं सर्वज्ञस्य= सर्वपदार्थग्राहकस्यात्मनो ज्ञेयाऽव्यवस्था सर्वपदार्थग्राहकता अनुपदम्= इदानीम्= कथमपि परिक्रमितुम्= परावर्तयितुम्= प्रत्याख्यातुं शक्या नास्ति तस्मादिन्द्रियातिरिक्त एवात्मेति सिद्धमित्यर्थः, घ्राणं गन्धस्यैव ग्राहक नान्यस्येति व्यवस्था ज्ञेयव्यवस्था तदभावश्चेन्द्रियेषु नोपपद्यते- प्रत्यक्षविरोधादेव / उपपादनमुपसंहरति-आकृतीति, आकृतिमात्रम्= निदर्शनमात्रम्= अल्पमेवोदाहृतं विस्तरभयादित्यर्थः / उपसंहरति- तत्रेति, तत्र एवमिन्द्रियाणां सर्वग्राहकत्वाभावे आत्मनश्च सर्वग्राहकत्वे सिद्धे द्वितीयसूत्रभाष्यान्ते यदुक्तम्- “किमन्येन चेतनेन" इति तद्युक्तमेव- चेतनस्यात्मन इन्द्रियातिरिक्तत्वाभावे कस्यापीन्द्रियस्य सर्वविषयग्राहकत्वं प्रत्यक्षसिद्धं नोपपद्यतेत्यर्थः // 3 // अग्रिमसूत्रमवतारयति- इतश्चेति, इतः= सूत्रोक्तहेतोः। विपक्षे बाधकमाह- शरीरेति, देहादिसंघातस्यात्मत्वे शरीरदाहे पातकाभावात्= पातकाभावः प्रसज्येतेस्यन्वयः, अत्र- " पातकाभावात्= पातकाभावप्रसङ्गात्" इति वृत्तिः, यदि देहादिसंघात एवात्मा स्यात्तदा संघातस्य प्रतिक्षणं भिन्नत्वेन येन संघातेन जीवच्छरीरदाहः कृतस्तस्योत्तरकाले सत्त्वासंभवात् पातकं न स्यादिति पातकाभावः प्रसज्येत न चैवमस्तीति तादृशपातकस्योपपत्त्यर्थं संघातातिरिक्तो नित्य आत्मा स्वीकार्य इति सूत्रार्थः, संघातात्मवादिना च जीवच्छरीरदाहेपि पापलक्षणं पातकं न स्वीक्रियते इत्यत्र पातकपदेन राजदण्डो ग्राह्यः स च जीवच्छरीरदाहे नास्तिकस्यापि नानुपपन्नः, स च राजदण्डः संघातात्मक्षे नोपपद्यतेसंघातस्य प्रतिक्षणं भेदेनापराधकर्तुः संघातस्य दण्डकाले स्थित्यसंभवादिति दण्डोपपत्त्यर्थमपि संघातातिरिक्त आत्मा नित्यः स्वीकार्यः। सूत्रमिदं संघातात्मपक्षे दोषमात्रप्रदर्शनार्थं तदुक्तं वार्तिककृता- "तदिदं सूत्रं यस्यात्मा नास्ति तस्यायं दोष इति दोषप्रतिपादनार्थ न साधनार्थमिति" इति / वस्तुवस्तु 'यदि शरीरमेवात्मा स्यात्तदा मृतशरीरस्यापि दाहे * पातकं स्यात् न चैवमस्तीति पातकाभावादपि ज्ञायते