________________ आत्मविवेचनम् ] न्यायभाष्यम् / 221 यदि खल्वेकमिन्द्रियमऽव्यवस्थितविषयं सर्वज्ञम् सर्वविषयग्राहि चेतनं स्यात् कस्ततोऽन्यं चेतनमनुमातुं शक्नुयात् , यस्मात्तु व्यवस्थितविषयाणीन्द्रियाणि तस्मात् तेभ्योऽन्यश्चेतनः सर्वज्ञः सर्वविषयग्राही विषयव्यवस्थितिमऽतीतोऽनुमीयते, तत्रेदं प्रत्यभिज्ञानमऽप्रत्याख्येयं चेतनवृत्तमुदाहियते- रूपदर्शी खल्वयं रसं गन्धं वा पूर्वगृहीतमनुमिनोति. गन्धपतिवेदी च रूपरसावऽनुमिनोति. एवं विषयशेषेपि वाच्यम् / रूपं दृष्ट्वा गन्धं जिघ्रति. प्रात्वा च गन्धं रूपं पश्यति. तदेवमनियतपर्यायं सर्वविषयग्रहणम् एकचेतनाधिकरणमऽनन्यकर्तृकं प्रतिसंधत्ते, प्रत्यक्षानुमानागमसंशयान् प्रत्ययांश्च नानाविषयान् स्वात्मकर्तृकान् प्रतिसंदधाति प्रतिसंधाय ग्राहक आत्मा संघातातिरिक्त एव, तव पक्षे च प्रत्यभिज्ञा पूर्वोदाहृता नोपपद्यते इति सूत्रार्थः / व्याचष्टे- यदीति, आत्मन एकत्वमावश्यकम् आत्मानेकत्वे हि तेषां परस्परं विरुद्धाया अपीच्छायाः संभवात् शरीरमुन्मथितं स्यादिति नाऽनेकेषामिन्द्रियाणामात्मत्वं संभवतीत्यभिप्रायेणोक्तम्- एकमिति, व्यवस्थितविषयत्वं पूर्वमुक्तं तदभावोऽव्यवस्थितविषयत्वं तदेवाह- सर्वज्ञमिति, सर्वज्ञत्वमाह- सर्वविषयेति, शब्दस्पर्शादिसर्वविषयग्राहकमित्यर्थः नत्वीश्वरस्येव सर्वज्ञत्वम् , पर्यवसितमाह- क इति, अन्यम्= इन्द्रियादन्यम् , यदीन्द्रियमेकं शब्दादिसर्वविषयग्राहकं च स्यात्तदा स्यादप्यात्मा न चैवमस्तीति नेन्द्रियाणामात्मत्वं संभवतीत्यर्थः / व्यतिरेकमाह- यस्मादिति, इन्द्रियाणां व्यवस्थितविषयत्वादेव सर्वविषयग्राहकत्वं न संभवतीति हेतोरेव सर्वविषयग्राहक आत्मा इन्द्रियाद्यतिरिक्त एवेत्यनुमीयते इत्यन्वयः, यथैक एव चैत्रः भिन्नैः करणैर्भिन्नानि कार्याणि करोति तथैक एवात्मा संघातातिरिक्तश्चक्षुरादिकरण रूपादिकं गृह्णातीति युक्तमित्यर्थः / विषयव्यवस्थितिमतीतः= उक्तविषयव्यवस्थारहितः= सर्वविषयग्राहकोऽनुमीयते इत्यन्वयः / आत्मनः संघातातिरिक्तत्वसाधकं प्रत्यभिज्ञाख्यं प्रबलं साधनमवतारयतितत्रेति, तत्र आत्मनः संघातातिरिक्तत्वे, चेतनवृत्तम् = चेतनचरित्रभूतम् किं वा चेतने वृत्तम्वर्तमानं प्रत्यभिज्ञानमित्यर्थः / प्रत्यभिज्ञानस्य प्रत्याख्यानं तु न संभवति-प्रत्यक्षत्वात् तच्च संघातात्मपक्षे नोपपद्यते इति पूर्वमुपपादितमेव / प्रत्यभिज्ञानमत्राप्युदाहरति- रूपेति, अयं चेतन आम्रादीनां रूपदर्शी= रूपं दृष्टा तस्याम्रादेः पूर्वगृहीतं रसं वा गन्धं वाऽनुमिनोतीति स्पष्टमेव तत्रानुमानमपि ज्ञानमेव न चैकस्य कस्यचिदपीन्द्रियस्प रूपरसादीनामनेकेषां ज्ञानं संभवति नापि घाणादिगृहीतस्य गन्धादेः प्रत्यभिज्ञा चक्षुरादीनां संभवति. तथा विषयसंयोगे सत्येवेन्द्रियाणां ज्ञानं संभवति न चेदानी गन्धादीनां घ्राणादिभिः संयोगोस्ति येनात्र घ्राणादीनां गन्धादिज्ञानं स्यात् , संघातश्च प्रतिक्षणं भिन्न एवेति न तस्य गृहीतग्रहणरूपा प्रत्यभिज्ञा संभवतीति तदतिरिक्त एव नित्य आत्मेति सिद्धमित्यर्थः / प्रत्यभिज्ञाया उदाहरणान्तरमाह- गन्धप्रतिवेदीति / प्रत्यभिज्ञोदाहरणमुपसंहरति- एवमिति, विषयशेषे= शेषविषयेष्वपि वाच्यम्= उदाहर्तव्यम्- यथा रसप्रतिवेदी रूपादिकमनुमिनोतीति / आत्मनो रूपादिज्ञानानां क्रमाभावमुदाहरति- रूपमिति, किं वा ननूक्तस्थले रूपदर्शनं चक्षुषो गन्धज्ञानं च घाणस्येति व्यवस्था किं न स्यात् तथा च न संघातातिरिक्त आत्मा सिध्यतीत्याशङ्कयाह-रूपमिति, रूपादिज्ञानेषु क्रमो नास्ति- आत्मना रूपादीनां यथेच्छं गृह्यमाणत्वादित्यर्थः, उपसंहरति- तदेवमिति, अनियतपर्यायम्= अनियतक्रमम् , प्रतिसंधत्ते= आत्मा स्मरति किं वा सर्वोपि जनो जानातीत्यर्थः, सर्वेषां विषयाणां ज्ञानमेकचेतनसमवेतं ज्ञायते न चेन्द्रियाणामेकत्वं येन सर्वविषयज्ञानाश्रयत्वं स्यात् तथा च नेन्द्रियाणां चेतनत्वमुपपद्यते इत्यर्थः / यदीन्द्रियाणामेव चेतनत्वं स्यात्तदा तेषां समप्राधान्याद् चक्षुषा रूपग्रहणानन्तरं गन्धग्रहणार्थ घ्राणप्रवृत्तिर्न स्यात् ब्राणप्रवृत्त्यनन्तरं च चक्षुःप्रवृत्तिर्न स्यात् आत्मभूतानामिन्द्रियाणां समप्राध्यान्याभावे च प्रधानस्यैवेन्द्रियस्य प्रथमं प्रवृत्तिः स्यादिति रूपादिज्ञानानामक्रमो न स्यात् .आत्मनस्तदतिरिक्तत्वे त्वात्मप्रेरितानां पूर्वापरभावेनापि प्रवृत्तिरुपपद्यते इत्याशयः / उक्तमेव विशदयति- प्रत्यक्षेति, नानाविषयान् प्रत्यक्षादीन् प्रत्ययान स्वात्मकर्तृकान् प्रतिसंदधाति=