________________ 220 प्रसन्नपदापरिभूषितम्- [3 अध्याये. १आह्निकेयाणि- चक्षुष्यऽसति रूपं न गृह्यते सति च गृह्यते. यञ्च यस्मिन्नऽसति न भवति सति (च) भवति तस्य तदिति विज्ञायते, तस्माद् रूपग्रहणं चक्षुषः चक्षू रूपं पश्यति, एवं घ्राणादिष्वपीति / तानीन्द्रियाणीमानि स्वस्वविषयग्रहणात् चेतनानि- इन्द्रियाणां भावाभावयोर्विषयग्रहणस्य तथाभावात् , एवं सति किमन्येन चेतनेन // संदिग्धत्वादहेतुः / ___ योऽयमिन्द्रियाणां भावाभावयोर्विषयग्रहणस्य तथाभावः स किं चेतनत्वात् ? आहोस्वित् चेतनोपकरणानां ग्रहणनिमित्तत्वात् ? इति संदिह्यते, चेतनोपकरणत्वेऽपीन्द्रियाणां ग्रहणनिमित्तत्वाद् भवितुमर्हति // 2 // यच्चोक्तम्- " विषयव्यवस्थानात" इति तद्व्यवस्थानादेवाऽऽत्मसद्भावादप्रतिषेधः // 3 // घातातिरिक्त आत्मेति सूत्रार्थः / व्याचष्टे- नेति / उक्ते हेतुं जिज्ञासते- कस्मादिति। हेतमाहविषयेति, एतद्व्याचष्टे- व्यवस्थितेति, व्यवस्थितविषयाणि= स्वग्राह्यरूपादिमात्रग्राहकाणि चक्षुरादी. नीत्यर्थः, एतद्विशदयति- चक्षुषीति / व्याप्तिमाह- यच्चेति, यत्= रूपादिग्रहणम् , यस्मिन् = चक्षुरादौ / उपसंहरति- तस्मादिति / एवम् गन्धग्रहणं घ्राणस्य शब्दग्रहणं श्रोत्रस्येत्येवं योज्यम् / पर्यवसितमाहतानीति, तानीमानीन्द्रियाणीत्यन्वयः / इन्द्रियाणां चैतन्ये हेतुमाह- इन्द्रियाणामिति, तथाभावात् भावाभावसत्त्वात् . इन्द्रियाणां भावे= सत्त्वे विषयग्रहणस्य भावः अभावे चाऽभाव इत्यन्वयव्यतिरेको प्रसिद्धौ तत्र विषयग्राहकस्यैव चैतन्यं युक्तम् अन्यथा मृतशरीरस्यापि चैतन्यं स्यात् त्वयापि विषयग्राहकस्यैवात्मत्वमुच्यते विषयग्राहकत्वं चेन्द्रियाणां प्रत्यक्षमेवेतीन्द्रियाणां चेतनत्वं प्राप्तं तेन तत्समुदायस्य देहादिसंघातस्यात्मत्वं प्राप्तमित्यर्थः, सिद्धान्तं प्रत्याचष्टे- एवमिति, एवम्= इन्द्रियाणां चैतन्ये सिद्धे सति / अन्येन- देहादिसंघातातिरिक्तेन, स्पष्टमन्यत् // ___उक्तपूर्वपक्षं भाष्यकारो निराकरोति- संदिग्धेति " विषयव्यवस्थानात्" इति यो हेतुरुक्तः स अहेतुः= इन्द्रियाणां चैतन्यसाधको न संभवति- संदिग्धत्वात्= उक्तविषयव्यवस्थानस्येन्द्रियाणां कर• णत्वपक्षेपि संभवाद् संदिग्धत्वं तेनाऽसाधकत्वं प्राप्तम् , यथा दण्डादिकरणं विना घटाद्युत्पादनक्रिया न संभवति अथापि दण्डादेर्न कर्तृत्वं तथेन्द्रियादिकरणं विनाप्यात्मनो विषयग्रहणक्रिया न संभवति अथापि न विषयग्रहणकर्तृत्वमिन्द्रियाणां किं तु करणत्वमेवेत्यर्थः / स्वयं व्याचंष्टे- योयमिति, अयम्= पूर्वसूत्रभाष्ये प्रदर्शितः / तथाभावः= भावाभावौ / संदेहमाविष्करोति- स इति, इन्द्रियाणां चेतनत्वाविवार दिनीयमाह-माहोइदि निमितला सरमामात्, इन्द्रियाणा भावामाक्योकि ग्रहणस्य भावाभावावित्ययं नियम इन्द्रियाणां चेतनत्वेपि संभवति संघातातिरिक्तात्मानं प्रति विषयग्रहणकरणत्वेपि संभवति- करणं विनापि कार्यासंभवादित्येवं संदेहः / स्वपक्षमाह-चेतनोपकरणत्वेपीति, इन्द्रियाणां चेतनोपकरणत्वेन विषयग्रहणकरणत्वादप्युक्तनियमो भवितुमर्हति संभवति तव पक्षे तु पूर्वोदाहृता प्रत्यभिज्ञा नोपपद्यते इति संघातातिरिक्त एवात्मेत्यर्थः // 2 // अग्रिमसूत्रमवतारयति- यच्चोक्तमि / उक्तपूर्वपक्षं सूत्रकारो निराकरोति- तदिति, तद्व्यवस्थानात्= उक्तविषयव्यवस्थानादेव आत्मसद्भावात्= संघातातिरिक्तात्मनः सिद्धिरस्तीति अप्रतिषेधः= संघातातिरिक्तात्मनः प्रतिषेधो नोपपद्यते इत्यन्वयः, यदीन्द्रियमेवात्मा स्यात्तदा तत् शब्दस्पर्शादिसर्वविषयग्राहकं स्यात् तथा चोक्ता शब्दादिष्वेककविषयग्रहणलक्षणा विषयव्यवस्था न स्यात् न चैवमस्ति किं तु चक्षु रूपस्यैव ग्राहकमित्यादिरूपा विषयव्यवस्था दृश्यते तेन ज्ञायते चक्षुरादिद्वारा सर्वविषय