________________ आत्मविवेचनम् ] . न्यायभाष्यम्। 219 योऽसौ चक्षुषा त्वर्गािन्द्रयेण चैकार्थस्य ग्रहीता भिन्ननिमित्तौ अनन्यकर्तृको प्रत्ययौ समानविषयौ प्रतिसंदधाति सोऽर्थान्तरभूत आत्मा / कथं पुनर्नेन्द्रियेणैककर्तृको ?. इन्द्रियं खलु स्वं स्वं विषयग्रहणमऽनन्यकर्तृकं प्रतिसंधातुमर्हति नेन्द्रियान्तरस्य विषयान्तरग्रहणमिति / कथं न संघातकर्तृको ?. एकः खल्वयं भिन्ननिमित्तौ स्वात्मकर्तृको प्रत्ययौ प्रतिसंहितौ वेदयते न संघातः, कस्मात् ?. अनिवृत्तं हि संघाते प्रत्येकं विषयान्तरग्रहणस्याअतिसंधानम् इन्द्रियान्तरेणेवेति // 1 // न-विषयव्यवस्थानात् // 2 // न देहादिसंघातादन्यश्चेतनः, कस्मात् 1. विषयव्यवस्थानात= व्यवस्थितविषयाणीन्द्रिनिरूपितत्वं इन्द्रियनिरूपितैकत्वविशिष्टकर्तृको इत्यर्थः, किं वा इन्द्रियेणैककर्तृको= एकेन्द्रियकर्तृको इत्यर्थः, तृतीयार्थस्तु चिन्त्य एव / निगमयति- तदिति, एकार्थस्य= दौहित्रादेः, भिन्ननिमित्तौ= चक्षुस्त्वक् च भिन्ने निमित्ते= करणे ययोः प्रत्यययोस्तौ भिन्ननिमित्तौ अनन्यकर्तृकौ= एककर्तृको समानविषयौ- एकविषयको, प्रतिसंदधाति= स्मरति, अत्रोक्तप्रत्यययोरुत्पत्त्यनन्तरं स्मरणं नानुपपन्नम् , प्रतिसंद्धाति= अनुभवतीत्यथों वा तथा चैतादृशविशिष्टप्रत्ययद्वयस्य य आधार स आत्मा. न चैतादृशप्रत्ययाधारत्वं देहादिसंघाते संभवतीति तदतिरिक्त एवेत्मा नित्य इत्यर्थः / उक्तप्रत्यययोरिन्द्रियस्य कर्तृत्वाभावहेतुं जिज्ञासते- कथमिति / उत्तरमाह- इन्द्रियमिति, स्वदृष्टस्यैव स्मरणं संभवति नान्यदृष्टस्येति नियमाद् इन्द्रियमपि स्वकर्तृकमेव विषयज्ञानं स्वदृष्टमेव च विषयं स्मर्तुमर्हति न विन्द्रियान्तरकर्तृक विषयान्तरग्रहणमिति चक्षुःकर्तृकस्य प्रत्ययस्य चक्षुर्दृष्टस्य च विषयस्य त्वचा स्मरणं न संभवतीति नोक्तप्रत्ययौ इन्द्रियेणैककर्तृकावित्यर्थः “विषयान्तरग्रहणम्" इत्यत्र प्रकृतानुरोधात् 'विषयग्रहणम् ' इति वक्तव्यमासीत् / उक्तप्रत्यययोदेहादिसंघातस्य कर्तृत्वाभावहेतुं जिज्ञासते- कथं नेति / संघातस्यैकत्वादुक्तानुपपत्तिर्नास्तीत्याशयः / प्रथमं वस्तुस्थितिमाह- एक इति, प्रतिसंहितौ स्मृतिविषयौ इत्यर्थः स्मर्यमाणविषयकाविति यावत् , अत्रोक्ते चाक्षुषप्रत्यभिज्ञाकाले पार्शनप्रत्यक्षस्य पार्शनप्रत्यभिज्ञाकाले च चाक्षुषप्रत्यक्षस्य स्मृतिविषयत्वात् 'प्रतिसंहितौ' इतिद्विवचनोपपत्तिः, एतादृशप्रत्ययद्वयवेत्तृत्वं संघातस्य नोपपद्यते एतादृशप्रत्ययवेत्तुश्चैकत्वं स्पष्टमेव तदपि संघाते नोपपद्यते- देहादिसंघातस्य परिणामित्वेन विनाशात् तेन च पूर्वोत्तरकालयोर्भेदेनैकत्वासंभवादित्यर्थः / उक्त हेतुं जिज्ञासतेकस्मादिति / उत्तरमाह- अनिवृत्तमिति, यथेन्द्रियान्तरदृष्टस्येन्द्रियान्तरेण प्रतिसंधानम्= स्मरणं न संभवति- परस्परं भेदात् तथा संघातस्याप्यवयवसमूहरूपत्वादवयवैरेव स्मरणं वक्तव्यम् अवयवाश्चेन्द्रियादिलक्षणा एव तत्र संघाते प्रत्येकम्= एकेनैकेनावयवेन= तैस्तैरवयवैविषयान्तरग्रहणस्य अप्रतिसंधानम्= अस्मरणम्= अनिवृत्तम्= न निवर्तते इति स्मरणं नोपपद्यते- परस्परं भेदात् अन्यदृष्टस्य चान्येन स्मरणासंभवादिति संघातावयवेन चक्षरादिना दृष्टस्य त्वगादिना स्मरणं नोपपद्यते अवयवसमुदायातिरिक्तश्च न कोपि संघातपदार्थ इति नोक्तप्रत्ययौ संघातकर्तृको किं तु संघातातिरिक्तनित्यात्मकर्तृकावेवेत्यर्थः // 1 // ___पूर्वपक्षी पूर्वोक्तमात्मनः संघातातिरिक्तत्वं निराकरोति- नेति, आत्मा देहादिसंघातादन्यो न किं तु देहादिसंघात एवात्मा-विषयव्यवस्थानात् रूपं चक्षुष एव विषयो गन्धो प्राणस्यैव विषयो नान्यस्येति विषयव्यवस्थादर्शनात्, यदि देहादिसंघातातिरिक्त आत्मा स्यात् तदा स स्वतन्त्र एव सर्वविषयवेत्तेति गन्धादिकं चक्षुरादिनापि वेदयेत न चैवमस्तीति न संपातातिरिक्त आत्मेति सूत्रार्थः, किं वा चक्षु रूपमेव गृह्णातीत्यादिरूपा विषयव्यवस्था दृश्यते तेन रूपादिग्राहकाणां चक्षुरादीनामेवात्मत्वं प्राप्तमिति संघात एवात्मेति प्राप्तं यदि संघातारिक्त आत्मा स्यात्तदा तेन प्रेरितं चक्षुरादिकं गन्धादिकमपि गृह्णीयात् स च चक्षुरादिकं विनापि रूपादिकं गृह्णीयात् न चैवमस्तीति न देहादिसं