________________ 218 . प्रसन्नपदापरिभूषितम्- [3 अध्याये. १आह्निकेपश्यति' 'मनसा विजानाति' 'बुद्धया विचारयति' 'शरीरेण सुखदुःखमनुभवति' इति, तत्र नावधार्यते- किमवयवेन समुदायस्य= देहादिसंघातस्य ? अथाऽन्येनाऽन्यस्य= तयतिरिक्तस्य ? इति // अन्येनायमन्यस्य व्यपदेशः, कस्मात् ? दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् // 1 // दर्शनेन यावदर्थो गृहीतः स्पर्शनेनापि सोऽर्थो गृह्यते- ' यमहमद्राक्षं चक्षुषा तं स्पर्शनेनापि स्पृशामि, इति. 'यं चाऽस्पाक्षं स्पर्शनेन तं चक्षुषा पश्यामि' इति, एकविषयौ चेमौ प्रत्ययौ एककर्तृको प्रतिसंधीयेते. न च संघातकर्तृको. न (वा.) इन्द्रियेणैककर्तृको, तद् प्रकृतमात्मपक्षीयं व्यपदेशमाह- अस्तीति, अत्र 'चक्षुषा पश्यति' इत्याद्याश्चत्वारो व्यपदेशा उदाहताः, अत्र चक्षुरादिकरणानां दर्शनादिक्रियाणां चात्मलक्षणेन का संबन्धोभिधीयते इति स्पष्टमेव / अत्र"दर्शनं क्रिया करणं चक्षुः करणस्य क्रियायाः क; संबन्धः- चक्षुषा पश्यतीति / परशुः करणं वृश्चतिः क्रिया ताभ्यां कर्तुरभिसंबन्धः- परशुना वृश्चतीति" इति वार्तिकम् / द्विविधमपि व्यपदेशमुदाहृत्य प्रकृतसंशयमवतारयति- तत्रेति, योयम् 'चक्षुषा पश्यति' इत्यादिळपदेशः स किं भूलैवृक्षस्तिष्ठति' इत्यादिवद् अवयवेन चक्षुषा समुदायस्य देहादिसंघातस्य व्यपदेशः किं वा 'प्रदीपेन पश्यति' इत्यादि वद् अन्येनाऽन्यस्यात्मनोव्यपदेश इति प्रमाणान्तरं विना नावधार्यते इत्यन्वयः, तद्व्यतिरिक्तस्यदेहादिसंघातव्यतिरिक्तस्य व्यपदेश इत्यर्थः / तत्र 'चक्षुषा पश्यति' इत्यत्र यद्यवयवेन समुदायस्य व्यपदेशस्तदा यथा मूलाद्यवयवानां समुदाय एव वृक्षो न तु तदतिरिक्तः पदार्थस्तथात्मापि चक्षुराद्यवयवसमुदायरूप एव स्यादिति देहादिसंघात एवात्मेति प्राप्नुयात्. यदि चान्येनान्यस्य व्यपदेशः स्यात्तदा यथा प्रदीपाद्यतिरिक्त एव दर्शनादिकर्ता चैत्रादिस्तथात्मापि चक्षुराद्यवयवसमुदायादतिरिक्त एव स्यादित्यर्थः / इत्युपोद्धातभाष्यार्थः // __ अत्र स्वसिद्धान्तमाह- अन्येनेति, यथा 'प्रदीपेन पश्यति' इत्यन्येनान्यस्य व्यपदेशस्तथा 'चक्षुषा पश्यति' इत्ययमप्यन्येनान्यस्य व्यपदेश इति देहादिसंघातातिरिक्त एवात्मेत्यर्थः / उक्ते हेतुं जिज्ञासतेकस्मादिति / सूत्रेणोत्तरमाह- दर्शनेति, दर्शनेन= चक्षुषा स्पर्शनेन= त्वचा चैकार्थग्रहणादित्यन्वयः, 'चक्षुषा यमहमद्राक्षं तं त्वचा स्पृशामि' इत्यादिप्रत्यभिज्ञास्थले चक्षुरादिना दृष्टस्य वत्सादिपदार्थस्य त्वचा ग्रहणं भवति तदेतद् ग्रहणं देहाद्यतिरिक्तात्मपक्षे उपपद्यते तत्रात्मनो नित्यत्वेन पूर्वदृष्टस्य कालान्तरेपि करणान्तरेण ग्रहणसंभवात् परशुना छेदनानन्तरं क्रकचेन कर्तनवत्. यदि च देहादिसंघात एवात्मा स्यात्तदा चक्षुषा दृष्टस्य त्वचः प्रत्यभिज्ञानं न स्यात्- अन्यदृष्टस्यान्येन प्रत्यभिज्ञानाऽसंभवादऽन्यथा चैत्रदृष्टं मैत्रेणापि प्रत्यभिज्ञातं स्यात् न चैवमस्तीति देहादिसंघातातिरिक्त एव नित्य आत्मा संभवतीति 'चक्षुषा पश्यति' इत्यादिव्यपदेशोऽन्येनान्यस्यैव व्यपदेश इति सूत्रार्थः / व्याचष्टे- दर्शनेनेति, दर्शनेन= चक्षुषा, यावत्= यावान्= यः स्पर्शनेन त्वचा, उदाहरति- यमिति, यम्= दौहित्रादिकम् , वृद्धावस्थायां चक्षुषोविनाशात् त्वचात्र प्रत्यभिज्ञा विज्ञेया / विपरीतक्रमेणोदाहरति- यं चेति, भार्यागर्भस्थबालस्य स्पर्शनानन्तरं चक्षुषा प्रत्यभिज्ञात्र विज्ञेया / अत्र वक्तव्यमाह- एकेति, इमौ= उक्तौ दार्शनस्पार्शनौ प्रत्ययौ, उभयोरपि प्रत्यययोरेकस्यैव चैत्रादेः कर्तृत्वेनैककर्तृको प्रतिसंधीयेते= विज्ञायते / पूर्वपक्षप्रतिषेधमाह- न चेति, देहादिसंघातस्य प्रतिक्षणं परिणामित्वेन विनाशित्वात् द्वितीयज्ञानपर्यन्तं स्थितिरेव न संभवति येनेदं प्रत्यभिज्ञानं देहादिसंघातकर्तृकं स्यादिति नोक्तौ प्रत्ययौ देहादिसंघातकर्तृकावित्यर्थः / नाप्यत्रैकस्येन्द्रियस्य कर्तृत्वमुपपद्यते चक्षुषा दृष्टस्य त्वचा प्रत्यभिज्ञानाऽसंभवात् चैत्रदृष्टस्य मैत्रेण प्रत्यभिज्ञानासंभववदित्याह-न वेति, इन्द्रियाणामेकत्वाभावादित्याशयः, इन्द्रियेणेति तृतीयार्थों