________________ अथ सटीके // न्यायभाष्ये तृतीयाध्यायस्य प्रथममाह्निकम् // परीक्षितानि प्रमाणानि प्रमेयमिदानीं परीक्ष्यते- तच्चाऽऽत्मादीति आत्मा विविच्यतेकिं देहेन्द्रियमनोबुद्धिवेदनासंघातमात्रमात्मा? आहो स्वित् तद्यतिरिक्तः ? इति / कुतः संशयः?, व्यपदेशस्योभयथा सिद्धः, क्रियाकरणयोः कर्ता संवन्धस्याभिधानं व्यपदेशः स द्विविधःअवयवेन समुदायस्य- 'मूलैक्षस्तिष्ठति' 'स्तम्भैः प्रासादो धियते' इति, अन्येनान्यस्य व्यपदेशः- 'परशुना वृश्चति' 'प्रदीपेन पश्यति' (इति), अस्ति चायं व्यपदेशः- 'चक्षुषा अथ तृतीयाध्यायप्रसन्नपदा वाजिवक्त्रं हरिं नत्वा भक्ताभीष्टफलप्रदम् / तृतीयाध्यायटीकेयं न्यायभाष्यम्य तन्यते / / उद्दिष्टानां लक्षितानां च प्रमेयाणां परीक्षणार्थ तृतीयाध्यायमारभते- परीक्षितानीति, पूर्वत्र द्वितीयाध्याये इतिशेषः / सांप्रतं कर्तव्यमाह- प्रमेयमिति, इदानीम्= इत आरभ्य / प्रमेयव्यक्तिमाहतञ्चेति, तत्= प्रमेयम् / आत्मादीति- "आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम् 1-1-9" इति प्रमेयोद्देशसूत्रे प्रथममात्मैवोद्दिष्ट इति प्रथममात्मा विविच्यते= परीक्ष्यते इत्यन्वयः / अत्र- "अत्र सकलवादिप्रतिवादिप्रत्यक्षसिद्धस्यात्मनो देहादिभेदाभेदविषयैव विप्रतिपत्तिर्न तु धर्मिणि, असति धर्मिणि वक्ष्यमाणहेतूनां साध्यस्य नास्तित्वस्य चाश्रयाऽसिद्धेरभावकोटयुपस्थानाऽसंभवात्" इति श्रीगुरुचरणाः / आत्मस्वरूपं द्विधा विकल्पयति-किमिति, तत्र देहेत्यादि पूर्वपक्षिमतेन. तद्व्यतिरिक्तः= देहादिसंघातव्यतिरिक्त आत्मेति सिद्धान्तेन विकल्पः / अत्र देहेन्द्रियमनोबुद्धयः प्रसिद्धा एव वेदना हि सुखदुःखादिप्रत्ययप्रवाहः, एतेषां संघातः= समुदायः, कल्पोयं चार्वाकमतेनेति विज्ञेयम्- तत्र शरीरस्यैव जीवत आत्मत्वस्वीकारात् शरीरस्य चेन्द्रियादिविशिष्टस्यैवात्मत्वसंभवे देहादिसंघातस्यात्मत्वोपपत्तेः, न तु बौद्धादिमतेन-तैः शरीरातिरिक्तस्यैव ज्ञानादेरात्मत्वस्वीकारादित्यनुसंधेयम् / संशये जाते हि परीक्षा संभवतीति परीक्षामूलस्य संशयस्य प्राप्तिकरणं जिज्ञासते-कुत इति / उत्तरमाह- व्यपदेशस्येति / उभयथेति- प्रकृते 'चक्षुषा पश्यति' इत्यादिरेव व्यपदेश आत्मसत्तासाधकः स च उभयथा= आत्मनो देहादिसंघातरूपत्वेपि संभवति देहादिसंघातव्यतिरिक्तत्वेपि संभवतीत्यर्थः / अभिप्रेतव्यपदेशस्य स्वरूपमाह- क्रियेति, यथा 'चक्षुषा पश्यति' इत्यत्र दर्शनक्रियायाश्चक्षुर्लक्षणकरणस्य चात्मलक्षणेन का सह संबन्धोऽभिधीयते इत्ययं व्यपदेशः / व्यपदेशद्वैविध्यमाह- स इति, सः= व्यपदेशः / प्रथमं व्यपदेशमाह- अवयवेनेति, अवयवेन समुदायस्य= अवयविनो व्यपदेश इत्यन्वयः, एनमुदाहरति- मूलैरिति, अत्रावयवभूतानां मूलानां करणत्वेन स्थितिक्रियायाश्च वृक्षण का संबन्धोभिधीयते, स्तम्भरित्यत्राऽवयवभूतानां स्तम्भानां धारणक्रियायाश्च प्रासादेन संबन्धोभिधीयते इत्यन्वयः / द्वितीयं व्यपदेशमाह- अन्येनेति, एनमुदाहरति- परशुनेति, अत्र परशुलक्षणकरणस्य छेदनरूपक्रियायाश्च चैत्रादिना का संबन्धोभिधीयते. प्रदीपलक्षणकरणस्य दर्शनक्रियायाश्च का संबन्धोभिधीयते प्रदीपादिकं च चैत्रादेः कर्तु वयवभूतं किं त्वन्यदेवेत्यऽन्येनान्यस्य व्यपदेशः संबन्धाभिधानमित्यन्वयः /