________________ 214 प्रसन्नपदापरिभूषितम्- [2 अध्याये. २आह्निकेव्यज्यते इति व्यक्तिः= इन्द्रियग्राह्येति. न सर्व द्रव्यं व्यक्तिः, यो गुणविशेषाणां स्पर्शान्तानां गुरुत्वघनत्वद्रवत्वसंस्काराणाम् अव्यापिनः परिमाणस्याश्रयो यथासंभवं तद्रव्यं मूर्तिःमूर्छितावयवत्वादिति // 68 // __ आकृतिर्जातिलिङ्गाख्या // 69 // यया जातिर्जातिलिङ्गानि च प्रख्यायन्ते तामाकृति विद्यात्. सा च नाऽन्या सत्त्वावयवानां तदवयवानां च नियताद् व्यूहादिति / नियतावयवव्यूहाः खलु सत्त्वावयवा जातिलिगम्- शिरसा पादेन गामनुमिन्वन्ति= नियते च सत्त्वावयवानां व्यूहे सति गोत्वं प्रख्यायते इति / अनाकृतिव्यङ्गयायां जातौ 'मृत्' 'सुवर्णम् ' ' रजतम्' इत्येवमादिष्वाकृतिनिवर्तते= जहाति पदार्थत्वमिति // 69 // श्रयभूता मूर्तिः= मूर्त द्रव्यं व्यक्तिरित्युच्यते इति सूत्रार्थः / व्याचष्टे- व्यज्यते इति, व्यज्यते इति व्यक्तिरिति निर्वचनम्. इन्द्रियप्राह्येति तस्यार्थ इत्यन्वयः, अस्य फलमाह- नेति, तथा चाकाशादिकं द्रव्यमपि व्यक्तिर्न भवति- इन्द्रियग्राह्यत्वाभावादित्यर्थः / व्यक्तिलक्षणमाह- य इति, स्पर्शान्तानाम्= रूपरसगन्धस्पर्शानां गुरुत्वादीनां चाऽव्यापिनः परिमाणस्य च यथासंभवमाश्रयो यस्तादृशं द्रव्यं मूर्तिरित्युच्यते सैव व्यक्तिरित्यर्थः / मूर्तिशब्दस्य व्युत्पत्तिमाह- मूञ्छितेति, मूच्छितावयवत्वात्= उपचितावयवत्वाद् मूर्तिरित्युच्यते इत्यर्थः / संस्कारपदेनात्र स्थितिस्थापकसंस्कारो ग्राह्यः / अव्यापिनः परिमाणस्येत्याकाशादिव्यावृत्त्यर्थम् / स्पष्टमन्यत् // 68 // आकृतिलक्षणमाह- आकृतिरिति, जातिलिङ्गमित्याख्या= नाम यस्याः सा जातिलिडाख्या आकृतिः, लिङ्गयते= ज्ञायतेऽनेनेति लिङ्गम् , आकृतिश्च जातिज्ञापिकेति प्रसिद्धमेव- गवादीनां संस्थानविशेषरूपाकृत्यैव गोत्वादिजातेायमानत्वादिति सूत्रार्थः / व्याचष्टे- ययेति, यया अवयवसंस्थित्या गोत्वादिजातिः जातिलिङ्गानि= शिरःकराद्यवयवाश्च प्रख्यायन्ते= विज्ञायन्ते तामाकृतिं विद्यात्= जानीयात् , जातेोतिलिङ्गानां च या ज्ञापिका साऽऽकृतिरित्यर्थः। आकृतेः स्वरूपमाह- सेति, सा चाकृतिः सत्त्वावयवानाम्= व्यक्त्यवयवानां शिरःकरादीनां तदवयवानाम् शिरःकराद्यवयवानां च नियताद् व्यूहात्= संयोगाद् नाऽन्या किं त्वयवसंयोगरूपैवेत्यर्थः / जातिलिङ्गपदार्थमाह- नियतेति, नियतोऽवयवानां व्यूहः= संयोगो येषां ते नियतावयवव्यूहाः शिरःकरादिरूपाः सत्त्वस्य= व्यक्तेः प्रधाना अवयवा एव जातिलिङ्गमित्यर्थः, मत्र हेतुमाह- शिरसेति, शिर आरभ्य पादपर्यन्तावयवैः प्रधानैर्गाम गोत्वजातिम्= इयं गौरित्यनुमिन्वन्तीति गोत्वानुमापकत्वात् शिरःप्रभृत्यवयवानां जातिलिङ्गत्वं प्राप्तम्. उक्तमेव विशदयति- नियते इति, सत्त्वावयवानां व्यूहे नियते सति गोत्वादिकं प्रख्यायते न तु सत्त्वावयवव्यूहस्य नियतत्वाभावेपीत्यर्थः, तथा चाऽवयवसंयोगस्य नियतत्वे एवावयवानां जातिख्यापकत्वे प्राप्ते प्राप्ताप्राप्तविवेकन्यायेनाकृतेरेव जातिख्यापकत्वं प्राप्तम्- नियतावयवसंयोगस्यैवाकृतिपदार्थत्वादि. त्यवधेयम् , तथा जातिलिङ्गानां शिरःप्रभृतीनामपि ज्ञानं तत्तदाकृत्यैव संभवतीति जातिलिङ्गप्रख्यापकत्वमप्याकृतेः सिद्धम् / अत्र- " शिरोनासिकाललाटचिबुकादीनां शिरोवयवानां व्यूहा मनुष्यत्वजातिलिङ्गं शिर आचष्टे” इति तात्पर्यटीका / आकृत्यऽव्यङ्गया यत्र जातिस्तत्राकृतेः पदार्थत्वं न भवतीत्याह- अनाकृतीति, आकृतिव्यङ्गया न भवतीति अनाकृतिव्यङ्गया तस्यां मृत्त्वसुवर्णत्वादिरूपायां जातो, मृत्त्वादिजातिश्च नाकृतिव्यङ्गया- मृदाद्यवयवव्यूहस्य नियतत्वाभावात् अवयवव्यूहस्य नियतत्वे एव जातेराकृतिव्यङ्गयत्वसंभवादिति 'इयं मृत् ' 'इदं सुवर्णम् ' इत्यादिप्रयोगस्थलेषु आकृतिनिवर्तते पदार्थत्वं जहाति= आकृतस्तत्र शब्दवाच्यत्वं न भवति किं तु जातिव्यत्योरेव शब्दवाच्यत्वं भवतीत्यर्थः / वस्तुतस्तु मृदादीनामाकृतिर्नास्त्येव-नियतावयवव्यूहस्याभावात्- नियतावयवव्यूहस्यैवांकृतिपदार्थत्वात्।