________________ न्यायभाष्यम्। 213 शब्दार्थनिरूपणम् ] न- आकृतिव्यक्त्यपेक्षत्वाजात्यभिव्यक्तेः // 66 // जातेरभिव्यक्तिः आकृतिव्यक्ती अपेक्षते= नाऽगृह्यमाणायामाकृतौ व्यक्तौ (च) जातिमात्रं शुद्धं गृह्यते तस्मान्न जातिः पदार्थ इति // 66 // न वै पदार्थेन न भवितुं शक्यम् / कः खल्विदानी पदार्थ इति ? व्यक्त्याकृतिजातयस्तु पदार्थः // 67 // तुशब्दो विशेषणार्थः, किं विशिष्यते ?. प्रधानाङ्गभावस्याऽनियमेन पदार्थत्वमिति. यदा हि भेदविवक्षा विशेषगतिश्च तदा व्यक्तिः प्रधानमऽङ्गं तु जात्याकृती. यदा तु भेदोऽविवक्षितः सामान्यगतिश्च तदा जातिः प्रधानमङ्गं तु व्यक्त्याकृती, तदेतद् बहुलं प्रयोगेषु / आकृतेस्तु प्रधानभाव उत्पेक्षितव्यः // 67 // कथं पुनर्ज्ञायते नाना व्यक्त्याकृतिजातय इति ?. लक्षणभेदात् , तत्र तावत् व्यक्तिर्गुणविशेषाश्रयो मूर्तिः // 68 // भावात् गोशब्देन तत्र= मृद्गवकविषयकः संप्रत्ययः= बोधो न जायते तस्मात् सः= जातिपदार्थ एव पदार्थः= शब्दवाच्यः अन्यथा मृद्वकस्यापि गोशब्देन बोधः स्यादित्यर्थः // 65 // ___केवलजातेर्वाच्यत्वं निराकरोति-नेति, न केवला जातिरपि वाच्या- आकृति व्यक्तिं च विना जातिमात्रस्य भानासंभवात् , उक्ते हेतुमाह- आकृतीति, जात्यभिव्यक्तेः= जातिप्रतीतेराकृतिव्यक्त्यपेक्षत्वात्= आकृतिव्यक्तिप्रतीतिसापेक्षत्वात्= आकृतिव्यत्त्योः प्रतीतिं विना जातिप्रतीतिरेव न संभवति येन जातिमात्रस्य वाच्यत्वं स्यादिति सूत्रार्थः / जात्याकृतिव्यक्तीनां सह भासमानत्वेन त्रितयस्यैव शब्दवाच्यत्वं युक्तमित्याशयः / व्याचष्टे- जातेरिति, अभिव्यक्तिः= प्रतीतिः, 'आकृतिव्यक्ती' इति औटो रूपम् , आकृतिव्यक्तिप्रतीतिमपेक्षते इत्यर्थः / उक्तं व्याचष्टे- नेति / उपसंहरति-तस्मादिति॥६६॥ .' पदार्थाभावं निराकरोति- नेति, उक्तरूपेण केवलानां जात्याकृतिव्यक्तीनां वाच्यत्वाभावेपि पदानामर्थो नास्तीति न संभवति किं त्वस्तीत्यर्थः / केवलानां जात्याकृतिव्यक्तीनां पदार्थत्वस्य निरा. कृतत्वात् पदार्थ जिज्ञासते- क इति / सूत्रेण पदार्थमाह- व्यक्तीति, व्यक्त्याकृतिजातीनां मिलितानामेव पदार्थत्वमस्ति न तु केवलानां तत्र दोषाणां प्रदर्शितत्वादेवेति सूत्रार्थः, किं वा जात्याकृतिविशिष्टाया व्यक्तेर्वाच्यत्वभित्यर्थः / व्याचष्टे- तुशब्द इति, विशेषणार्थः= विशेषबोधनार्थः / अभिप्रेतविशेष जिज्ञासते- किमिति / उत्तरमाह- प्रधानेति, व्यक्त्याकृतिजातिषु शब्दवाच्यत्वे प्रधानाङ्गभावस्य= विशेष्यविशेषणभावस्य नियमो नास्तीति तुशब्देन सूत्रघटकेन बोध्यते इत्यर्थः, तथा च क्वचिद् व्यक्तेः कचिजाते: क्वचिच्चाकृतेः प्राधान्यं भवति / व्यक्तेः प्राधान्यस्थलमाह- यदेति, भेदविवक्षायां विशेषावगतौ च व्यक्त्याकृतिजातीनां तुल्येपि वाच्यत्वे व्यक्तेः प्राधान्यं भवति जात्याकृत्योस्त्वङ्गत्वं यथा ' इयं गौः कृष्णा इयं गौः शुक्ला ' इति, विशेषस्य भेदस्य च व्यक्तिमात्रनिरूपितत्वादित्यर्थः / जातेः प्राधान्यस्थलमाह- यदा विति, सामान्यगतिः= सामान्यज्ञानम् , यथा ‘गोदर्शनं शुभम् ' इत्यत्र सामान्यरूपेण गोमात्रस्याभिधानात् जातेरेव सामान्यरूपत्वादभिन्नत्वाच्च जातेरेव प्राधान्यं व्यक्त्याकृत्योश्वाङ्गत्वमित्यर्थः / उपसंहरति- तदेतदिति, एतत्= व्यक्तेर्वा जातेर्वा प्राधान्यं बहुत्र प्रयोगेषूपलभ्यते इत्यर्थः / आकृतेरिति- आकृतेः प्रधानभावः= प्राधान्यम 'पिष्टकमयी गौः' इत्यत्र विज्ञेयम्- आकृतिमात्रमाश्रित्य तत्र गोशब्दप्रयोगादित्यलम् / / 67 // ___ व्यत्तयाकृतिजातीनां भेदकारणं जिज्ञासते- कथमिति, नाना= परस्परं भिन्नाः / उत्तरमाहलक्षणेति / व्यक्तिलक्षणसूत्रमवतारयति-तत्रेति / व्यक्तिरिति-गुणविशेषाश्रयः= रूपादिविशेषगुणा