________________ 212 प्रसन्नपदापरिभूषितम्- [2 अध्याये. २आह्निके___ आकृतिः पदार्थः, कस्मात ?. तदपेक्षत्वात् सत्त्वव्यवस्थानसिद्धः सत्त्वावयवानां तदवयवानां च नियतो व्यूह आकृतिः तस्यां गृह्यमाणायां सत्त्वव्यवस्थानं सिध्यति- 'अयं गौः' 'अयमश्वः' इति. नाऽगृह्यमाणायाम्. यस्य ग्रहणात् सत्त्वव्यवस्थानं सिध्यति तं शब्दोऽभिधातुमर्हति= सोऽस्यार्थ इति // नैतदुपपद्यते- यस्य जात्या योगस्तदत्र जातिविशिष्टमभिधीयते- 'गौः' इति. न चावयवव्यूहस्य जात्या योगः। कस्य तर्हि 1. नियतावयवव्यूहस्य द्रव्यस्य, तस्माद् नाऽऽकृतिः पदार्थः // 64 // अस्तु तर्हि जातिः पदार्थःव्यक्त्याकृतियुक्तेप्याप्रसंगात् प्रोक्षणादीनां मृद्वके जातिः // 65 // जातिः पदार्थः, कस्मात् 1. व्यक्त्याकृतियुक्तेपि मृद्गवके प्रोक्षणादीनामप्रसङ्गादिति 'गां प्रोक्षय' 'गामानय ''गां देहि' इति नैतानि मृद्गवके प्रयुज्यन्ते, कस्मात् ?. जातेरभावात् , अस्ति हि तत्र व्यक्तिरस्ति आकृतिः, यदभावात् तत्राऽसंप्रत्ययः स पदार्थ इति॥६५॥ मिति सूत्रार्थः / आकृतिश्चावयवसंयोग एव तदेतद् भट्टमतम् / व्याचष्टे- आकृतिरिति / आकृतेः शब्दवाच्यत्वे हेतुं जिज्ञासते- कस्मादिति / उत्तरमाह- तदपेक्षत्वादिति / उक्तमपि व्याचष्टे- सत्त्वावयवानामिति, सत्त्वावयवानाम्= व्यक्त्यवयवानां तवयवानाम्= अवयवावयवानां च नियतो व्यूहः= संयोगः संनिवेशो वा आकृतिपदार्थः, तस्याम्= आकृतौ गृह्यमाणायाम्= ज्ञातायामेव ' अयं गौः, 'अयमश्वः' इत्यादिरूपा सत्त्वव्यवस्था सिध्यति न चाकृतावगृह्यमाणायामपीत्यन्वयः, पर्यवसितमाह- यस्येति, यस्य= भाकृतिपदार्थस्य, तम्= आकृतिपदार्थम् , उक्तं व्याचष्टे- स इति, सः= आकृतिपदार्थः, अस्य= शब्दस्येत्यन्वयः, तथा च सर्वेषु शाब्दव्यवहारेषु प्रतीयमानत्वादाकृतिरेव शब्दवाच्या न व्यक्तिर्वा जातिबेंत्यर्थः / तदेवमाकृतेर्वाच्यत्वं पूर्वपक्षिमतेनोपपाद्य तत् प्रत्याचष्टे- नैतदिति, आकृतेर्वाच्यत्वं नोपपद्यते इत्यर्थः / वाच्यपदार्थमाह- यस्येति, यस्य= व्यक्तिपदार्थस्य, तत्= जातिविशिष्टमित्यन्वयः / जातिरहितपदार्थस्य वाच्यत्वस्वीकारेऽनुगमकाभावेन व्यभिचारादिदोषादित्यर्थः / आकृतेर्जातियोगाभावमाह-न चेति, अवयवव्यूहस्य= आकृतेः / जातियुक्तं जिज्ञासते- कस्येति / उत्तरमाह- नियतेति, नियतोऽवयवानां व्यूहः= संयोगो यस्य तस्य द्रव्यस्य= व्यक्तिपदार्थस्यैव जात्या योग इति सैव= जातिविशिष्टा व्यक्तिरेव शब्दवाच्येत्यर्थः / उपसंहरति- तस्मादिति // 64 // __ अग्रिमसूत्रमवतारयति- अस्त्विति, वद्याकृतेरपि वाच्यत्वं नोपपद्यते तदेत्यर्थः / जातेर्वाच्यत्वे हेतुमाह- व्यक्त्येति, व्यक्त्याकृतिभ्यां युक्तेपि मृद्गवके= मृन्निर्मितगवि 'गां प्रोक्षय' इत्यादिवाक्योक्तानां प्रोक्षणादीनामप्रसङ्गात् जातिरेव शब्दवाच्येति सिध्यति- मृद्वके गोत्वजातेरभावादेव प्रोक्षणादीनामप्रसंगात् . यदि व्यक्तिर्वाऽऽकृतिर्वा शब्दवाच्या स्यात्तदा मृद्वकेपि व्यक्त्याकृत्त्योः सत्त्वात् तस्यापि गोशब्देनोपस्थितिः स्यादिति मृगवकेपि प्रोक्षणादीनां प्रसङ्गः स्याद् न चैवं भवतीति यस्या जातेरभावाद् मृद्भवके प्रोक्षणादीनामप्रसङ्गः सा जातिरेव शब्दवाच्येति सूत्रार्थः, तदेतद् वेदान्तिमतम् / व्याचष्टेजातिरिति / जातेर्वाच्यत्वे हेतुं जिज्ञासते- कस्मादिति / हेतुमाह- व्यक्त्याकृतीति / हेतुवाक्यं व्याचष्टेगामिति / एतानि= 'गां प्रोक्षय' इत्यादिवाक्यानि किं वैतद्वाक्योक्तप्रोक्षणादीनि मृद्गवके न प्रयुज्यन्ते इत्यन्वयः / मृगवके प्रयोगाभावकारणं जिज्ञासते- कस्मादिति, कस्मान्न प्रयुज्यन्ते इत्यन्वयः / उत्तरमाहजतिरिति, जातेरभावादेव मृद्भवके प्रोक्षणादीनि प्रोक्षणादिवाक्यानि वा न प्रयुज्यन्ते इत्यन्वयः / मृगवके व्यक्त्याकृत्योः सत्त्वमाह-अस्तीति, तत्र-मृद्रवके। स्वाभिप्रायमाह- यदिति, यत्- यस्या जातेर