________________ 211 / शब्दार्थनिरूपणम् ] . न्यायभाष्यम्। अतद्भावेपि तदुपचार इति= अतच्छब्दस्य तेन शब्देनाभिधानमिति, सहचरणात्'यष्टिकां भोजय' इति यष्टिकासहचरितो ब्राह्मणोऽभिधीयते इति, स्थानात्- 'मञ्चाः क्रोशन्ति' इति मञ्चस्थाः पुरुषा अभिधीयन्ते, तादात्- कटार्थेषु वीरणेषु व्यूद्यमानेषु 'कटं करोति' इति भवति, वृत्तात्- 'यमो राजा' 'कुबेरो राजा' इति तद्वद्वर्तते इति, मानात्आढकेन मिताः सक्तवः ‘आढकं सक्तवः' इति, धारणात्- तुलया धृतं चन्दनम् 'तुला च. न्दनम् ' इति, सामीप्यात्- 'गङ्गायां गावश्वरन्ति' इति देशोऽभिधीयते संनिकृष्टः, योगात्कृष्णेन रागेण युक्तः शाकट: 'कृष्णः' इत्यभिधीयते, साधनात्- ' अन्नं प्राणाः' इति, आधिपत्यात्- 'अयं पुरुषः कुलम् ' 'अयं गोत्रम्' इति / तत्रायं सहचरणाद् योगाद् वा जातिशब्दो व्यक्तौ प्रयुज्यते इति // 63 // यदि ‘गौः' इत्यस्य पदस्य न व्यक्तिरर्थः ? अस्तु तर्हि आकृतिः- तदपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः // 64 // विज्ञेयः, अन्यत्सर्व भाष्ये स्पष्टमेव / व्याचष्टे- अतदिति / उक्तं व्याचष्टे- अतच्छन्दस्येति, तच्छब्दावाच्यस्येत्यर्थः, यथा गङ्गाशब्दावाच्यस्य तीरस्य गङ्गाशब्देनाभिधानं सहचरणादिषु सामीप्यसंबन्धादेवेति लाक्षणिकमेव तथा केवलाया व्यक्तेरप्यभिधानं सहचरणादिनिमित्ताल्लाक्षणिकमेवेत्यन्वयः / सहचरणमुदाहरति- सहेति, यष्टिकासहचरणनिमित्ताद् यष्टिकाशब्दाऽवाच्येपि ब्राह्मणे यष्टिकाशब्दस्य प्रयोगो भवति 'यष्टिकां भोजय ' इति, यष्टिकायां भोजनकर्तृत्वस्य बाधाद् यष्टिधरे ब्राह्मणे लक्षणा सहचरणं चात्र साहित्यम् / स्थाननिमित्तमुदाहरति-स्थानादिति, स्थानात् मञ्चे स्थित्या मञ्चशब्दस्य मञ्चस्थपुरुषेत्र प्रयोगः / तादर्थ्यनिमित्तमुदाहरति- तादादिति, वीरणेषु= तृणविशेषेषु व्यूह्यमानेषु= एकत्रीक्रियमाणेषु. वीरणानां कटार्थत्वादत्र कटशब्दस्य वीरणेषु प्रयोगः / वृत्तनिमित्तमुदाहरतिवृत्तादिति, वृत्तम्= चरित्रम्, क्रूरचरित्रनिमित्ताद् यमशब्दस्य उदारचरित्रनिमित्ताञ्च कुबेरशब्दस्यात्र राजनि प्रयोगः / तद्वतत्= यमवद् वर्तते= आचरति, एवं कुबेरवदाचरतीत्यर्थः / किं वात्र राजशब्दस्य यमादौ प्रयोगो विज्ञेयः / माननिमित्तमुदाहरति- मानादिति, आढकपरिमाणनिमित्तादत्राढकशब्दस्य सक्तुषु प्रयोगः / धारणनिमित्तमुदाहरति-धारणादिति, तुलया धारणनिमित्तात्र तुलाशब्दस्य चन्दने प्रयोगः / सामीप्यनिमित्तमुदाहरति- सामीप्यादिति, सामीप्यनिमित्तादत्र गङ्गाशब्दस्य तीरे प्रयोगः, संनिकृष्टः= समीपस्थः / योगनिमित्तमुदाहरति- योगादिति, योगलक्षणनिमित्तादत्र कृष्णशब्दस्य शाकटे= वस्त्रविशेषे प्रयोगः / साधननिमित्तमुदाहरति- साधनादिति, अन्नस्य प्राणसाधनत्वादत्रान्नशब्दस्य प्राणेषु प्रयोगः / आधिपत्यनिमित्तमुदाहरति- आधिपत्यादिति, आधिपत्त्यनिमित्तादत्र कुलशब्दस्य गोत्रशब्दस्य च पुरुषे प्रयोगः / एवं तच्छब्दावाच्येपि तच्छब्दप्रयोगानुदाहृत्य प्रकृतमाहतत्रायमिति, तत्र= तथा च ' या गौः' इत्यादिस्थलेष्वयं जातिशब्दः= जातिवाचकोपि गोशब्दः सहचरणाद्वा योगाद्वा गोव्यक्तौ प्रयुज्यते इति न व्यक्तिः शब्दवाच्या- केवलव्यक्तौ लक्षणया प्रयोगात्. जातिव्यक्त्योश्च सहचरणम्= साहित्यं योग:= आधाराधेयसंबन्धश्च प्रसिद्ध एवेत्यर्थः / / 63 / / ___ अग्रिमसूत्रमवतारयति- यदीति, 'अस्तु तर्हि आकृतिरेवार्थः' इत्येवमन्वयः / आकृतिरितिआकृतिः शब्दवाच्या- सत्त्वव्यवस्थानसिद्धेः= 'अयं गौः' 'अयमश्वः' इत्यादिरूपाया द्रव्यव्यवस्थायाः सिद्धेः तत्तद्विषयकव्यवहारस्य च तदपेक्षत्वात्= आकृत्यधीनत्वात्. 'अयं गौ श्वः' इत्यादिव्यवस्था चाकृत्यधीनेति स्पष्टमेब तथा च व्यवहारव्यवस्थादिप्रयोजकीभूताऽऽकृतिरेव गवादिशब्दवाच्येति युक्त