________________ 210 प्रसन्नपदापरिभूषितम्- [2 अध्याये. २आहिकेअस्य प्रतिषेधः न-तदनवस्थानात् // 62 // न व्यक्तिः पदार्थः, कस्मात् ?. अनवस्थानात , याशब्दप्रभृतिभिर्यों विशेष्यते स गोशब्दार्थ:- “या गौस्तिष्ठति या गौर्निषण्णा' इति न द्रव्यमात्रमविशिष्टं जात्या विनाऽभिधीयते / किं तर्हि 1. जातिविशिष्टं तस्मान व्यक्तिः पदार्थः / एवं समूहादिषु द्रष्टव्यम् // 62 // __यदि न व्यक्तिः पदार्थः कथं तर्हि व्यक्तावुपचार इति ?. निमित्तादऽतद्भावेपि तदुपचारो दृश्यते खलु संहचरणस्थानतादर्थ्यवृत्तमानधारणसामीप्ययोगसाधनाऽधिपत्येभ्यो ब्राह्मणमञ्चकैटराजसंक्तुचन्दनगङ्गा कटा ऽन्नपुरुषेष्वऽतद्भावेपि तदुपचारः // 63 // अग्रिमसूत्रमवतारयति- अस्येति, अस्य= उक्तस्य केवलव्यक्तेर्वाच्यत्वस्य अनेन सूत्रेण प्रतिषेधो बोध्य इत्यर्थः / नेति- केवलव्यक्तेर्वाच्यत्वं न संभवति- तत्= तस्याः व्यक्तेरनवस्थानात्= व्यभिचारा. दित्यन्वयः, शक्तिमहं विना पदात् पदार्थबोधो न संभवति अनन्तासु च व्यक्तिषु शक्तिमहो न संभवति एकत्र व्यक्तौ शक्तिग्रहेण तदन्यव्यक्तेर्बोधस्वीकारे शक्तिप्रहशाब्दबोधयोर्व्यभिचारः स्यादिति न केवलव्यक्तेर्वाच्यत्वं संभवतीति सूत्रार्थः, यस्मिन् शक्तिग्रहस्तद्विषयक एव शाब्दबोधो जायते इति नियमोस्ति तस्य केवलव्यक्तेर्वाच्यत्वपक्षे यो भङ्गः स एवात्र व्यभिचारो बोध्यः, किं वा जाति विना व्यक्तीनां शक्तिग्रहार्थम् अनवस्थानात्= व्यवस्थाया असंभवात्= उपसंहारासंभवादित्यर्थः / व्याचष्टेनेति / व्यक्तेः पदार्थत्वाभावे= वाच्यत्वाभावे कारणं जिज्ञासते-- कस्मादिति / उत्तरमाह- अनवस्थानादिति / पूर्वसूत्रोक्तमनुवदति- याशब्देति / स्वाभिप्रायमाह- नेति, ' या गौस्तिष्ठति ' इत्यादिवाक्येन द्रव्यमात्रम्= व्यक्तिमात्रम्. अविशिष्टम्= विशेषणरहितम्= शुद्धं जात्या विना=जातिमकोडीकृत्य नाभिधीयते इति न केवलव्यक्तेर्वाच्यत्वं संभवति- अभिधीयमानस्यैव पदार्थस्य वाच्यत्वसंभवादित्यन्वयः / वाच्यं जिज्ञासते-किमिति / उत्तरमाह- जातीति, गोत्वादिजातिविशिष्टमेव द्रव्यं शब्दवाच्यमस्तिजातिविशिष्टस्यवाभिधानादिति न व्यक्तिमात्रं पदार्थ इत्यन्वयः / उक्तं समूहादिप्रयोगेष्वतिदिशतिएवमिति, पूर्वोदाहृतेषु ' गवां समूहः' इत्यादिप्रयोगेष्वपि जातिविशिष्टस्यैवाभिधानात्तदेव शब्दवाच्यं विज्ञेयं न तु केवला व्यक्तिः शब्दवाच्येत्यर्थः / विशेष्यते= विशेषरूपेण बोध्यते // 62 // व्यक्तेरवाच्यत्वपक्षे व्यक्तौ शब्दप्रयोगहेतुं जिज्ञासते- यदीति, उपचारः शब्दप्रयोगः / उत्तरमाहनिमित्तादिति, अतद्भावेपि तच्छब्दाऽवाच्यत्वेपि तस्मिन् तदुपचारः= तच्छब्दप्रयोगः सहचरणादि. निमित्ताद दृश्यते यथा-'गहायां घोषः' इत्यत्र गहाशब्दावाच्येपि तीरे गहाशब्दस्य प्रयोगो भवति एवं केवलव्यक्तावपि शब्दप्रयोगो लाक्षणिक एवेति न केवलव्यक्तेर्वाच्यत्वमुपपद्यते इत्यर्थः / अतद्भावेपि तदुपचारस्य निमित्तानि सूत्रेणाह-सहेति, सूत्रे ब्राह्मणेत्यादिसप्तम्यन्तं पदमसंगतमेव तथा ह्यऽस्य पदस्य लाक्षणिकशब्दसंग्रहपरत्वेऽस्य स्थाने 'यष्टिमञ्चकटयमाढकतलागलाकृष्णान्नपुरुषाणाम' इति वक्तव्य. मासीत, लक्ष्यार्थसंग्रहपरत्वे चात्र 'ब्राह्मणमञ्चस्थवीरणराजसक्तचन्दनतीरशाकटप्राणकुलेषु / इतिवक्तव्यमासीदिति विभावनीयम्, अतावेपि= तच्छब्दावाच्यत्तेपि तदुपचारः तस्मिन् तच्छब्दप्रयोगः सहचरणादिनिमित्ताद् भवतीति व्यक्तेरप्यवाच्यत्वेपि व्यक्तौ तत्तच्छब्दप्रयोगः सहचरणादिनिमित्तात् लक्षणिकोस्तीति न केवलव्यक्तेर्वाच्यत्वापत्तिरिति सूत्रार्थः / सूत्रे सहचरणादीनां ब्राह्मणादिभिर्यथासंख्यमन्वयः, सहचरणाद् यष्टिशब्दस्य ब्राह्मणे यष्टिशब्दाऽवाच्येपि प्रयोगो भवति एवंमुत्तरत्राप्यन्वयो