________________ शब्दार्थनिरूपणम् ] न्यायभाष्यम्। 209 द्रव्याभिधायकम् , ' गवां समूहः' इति भेदाद् द्रव्याभिधानं. न जातेः- अभेदात् , 'चैद्याय गां ददाति' इति द्रव्यस्य त्यागो. न जातेः- अमूर्तत्वात् प्रतिक्रमानुक्रमानुपपत्तेश्व, परिग्रहः= स्वत्वेनाभिसंबन्धः ‘कौण्डिन्यस्य गौः' 'ब्राह्मणस्य गौः' इति द्रव्याभिधाने द्रव्यभेदात संबन्धभेद इत्युपपन्नम्. अभिन्ना तु जातिरिति, संख्या- 'दश गावो विंशतिर्गावः' इति भिन्न द्रव्यं संख्यायते. न जाति:- अभेदादिति, वृद्धिः= कारणवतो द्रव्यस्याऽवयवोपचयः- 'अवर्धत गौः' इति. निरवयवा तु जातिरिति, एतेनाऽपचयो व्याख्यातः, वर्ण:- 'शुक्ला गौः कपिला गौः' इति द्रव्यस्य गुणयोगो न सामान्यस्य, समासः- 'गोहितं गोसुखम् ' इति द्रव्यस्य सुखादियोगो न जातेरिति, अनुबन्ध:- सरूपप्रजननसन्तान:- 'गौर्गा जनयति' इति तद् उत्पत्तिधर्मत्वाद् द्रव्ये युक्तं. न जातौ- विपर्ययादिति / द्रव्यं व्यक्तिरिति हि नार्थान्तरम् // 61 // अत्र गोशब्दस्य व्यक्तिवाचकत्वे हेतुमाह- नेदमिति, पदार्थस्य भेदे सत्येव तत्र यच्छब्दप्रयोगः संभवति जातेश्च न भेदः= अभेदात्= ऐक्यादिति न यच्छब्दघटितवाक्येन जातेरभिधानं संभवति, द्रव्यस्य= व्यक्तेस्तु भेदः प्रत्यक्षसिद्ध एवेति व्यक्तेरेवाभिधायकमिति व्यक्तिरेव शब्दवाच्येत्यर्थः / समूहप्रयोगमुदाहरति- गवामिति, व्यक्तीनामनेकत्वेन समूहः संभवति न तु जातेरपि- एकत्वादिति व्यक्तिरेव शब्दवाच्येत्यर्थः / भेदात्= द्रव्यस्य= व्यक्तेर्भेदात्= अनेकत्वादित्यन्वयः / त्यागप्रयोगमुदाहरति- चैद्यायेति, ददातिपदवाच्यस्त्यागो व्यक्तेरेव संभवति- मूतत्वात् न तु जाते:- अमूर्तत्वादिति व्यक्तिरेव शब्दार्थ इत्यर्थः, जातेः शब्दाऽवाच्यत्वे हेत्वन्तरमाह- प्रतिक्रमेति, दानाङ्गभूतयोः प्रतिक्रमानुक्रमयोर्जातावसंभवाद् व्यक्तौ च संभवान्न जातिः शब्दवाच्येत्यर्थः / प्रतिक्रमः= प्रदक्षिणीकरणम् अनुक्रमः= अनुगमनम् इत्यर्थः प्रतिभाति / परिग्रहमुदाहरति- परिग्रह इति, स्वत्वेनाभिसंबन्धः= स्वस्वत्वोत्पादनम् , दानानन्तरं कौण्डिन्यकर्तृकपरिग्रहेण गौः कौण्डिन्यस्य जातेति ‘कौण्डिन्यस्य गौः' इत्युच्यते. द्रव्याभिधाने शब्दस्य व्यक्तिवाचकत्वे व्यक्तीनां भेदात् काचिद् गौः कौण्डिन्यस्य काचिद् ब्राह्मणस्येति संबन्धभेद उपपद्यते. न तु जातौ संबन्धभेद उपपद्यते- जातेरेकत्वादित्यर्थः / संख्यामुदाहरति- संख्येति, व्यक्तीनामनेकत्वात् तत्र दशत्वादिसंख्याया अन्वयः संभवति न तु जातावपि- जातेरेकत्वादित्यर्थः / वृद्धिमाह- वृद्धिरिति, कारणवतः= सावयवस्य पदार्थस्य अवयवोपचय एव वृद्धिपदार्थः स च व्यक्तौ संभवति- व्यक्तेः सावयवत्वाद् न तु जातावपि-- जातेनिर्वयवत्वादिति 'अवर्धत गौः' इत्यादौ व्यक्तिरेव वाच्येत्यर्थः / उक्तमपचये= क्षयेऽतिदिशति- एतेनेति, 'क्षीणा गौः' इत्युक्ते व्यक्तेः क्षयः संभवतिसावयवत्वादनित्यत्वाञ्च न तु जातेरिति व्यक्तिरेव वाच्येत्यर्थः / वर्णमुदाहरति- वर्ण इति, द्रव्यस्य= व्यक्तेः शुक्लत्वादिगुणयोगः संभवति न सामान्यस्य= जाते:- अरूपत्वादिति व्यक्तिरेव वाच्येत्यर्थः / समासमुदाहरति- समास इति, गोहितं गोहितं गोः सुखं गोसुखम्. अत्रोच्यमानः सुखादियोगो द्रव्यस्य= व्यक्तौ संभवति न जाताविति व्यक्तिरेव वाच्येत्यर्थः / अनुबन्धमाह- अनुबन्ध इति, सरू. पस्य= स्वसदृशस्य प्रजननस्य संतानः= परम्परा. स्वसदृशसंतानोत्पादकत्वमित्यर्थः, उत्पादकत्वम् उत्पाद्यत्वं च द्रव्ये= व्यक्तावेव संभवति- उत्पत्तिधर्मविशिष्टत्वाद् न जातौ- विपर्ययात्= उत्पत्तिरहितत्वात् नित्यत्वादिति व्यक्तिरेव वाच्येत्यर्थः / तदेवं याशब्दप्रयोगादिवशाद् व्यक्तेरेव शब्दवाच्यत्वमुपपद्यते न जातेरिति प्रघट्टकार्थः / द्रव्यपदार्थमाह- द्रव्यमिति, नार्थान्तरम्= द्रव्यव्यक्तिशब्दयोरर्थभेदो नास्तीति प्रयुक्तं द्रव्यपदं व्यक्तिपरमेवेत्यर्थः / / 61 / /