________________ 208 प्रसन्नपदापरिसूषितम्- [2 अध्याये. २आहिकेणान्तरं वाच्यमिति, शिष्यते च खलु नामिक्या विभक्तेरव्ययाल्लोपस्तयोः पदसंज्ञार्थमिति / पदेनार्थसंप्रत्यय इति प्रयोजनम् // 59 // नामपदं चाधिकृत्य परीक्षा- गौरिति (नाम) पदं खलु. इदमुदाहरणम् तदर्थे व्यक्त्याकृतिजातिसंनिधावुपचारात् संशयः // 60 // अविनाभाववृत्तिः संनिधिः, अविनाभावेन वर्तमानासु व्यक्त्याकृतिजातिषु गौरिति प्रयुज्यते तत्र न ज्ञायते- किमन्यतमः पदार्थः ? उत सर्वः? इति // 60 // शब्दस्य प्रयोगसामर्थ्यात् पदार्थावधारणं तस्मात्याशब्दसमूहत्यागपंरिग्रहसंख्यावृद्धयपँचवर्णसंमासा - बन्धानां व्यक्तावुपचाराद् व्यक्तिः॥ 61 // व्यक्तिः पदार्थः, कस्मात् ?. याशब्दप्रभृतीनां व्यक्तावुपचारात् / उपचारः= प्रयोगः, 'या गौस्तिष्ठति या गौर्निषण्णा' इति. नेदं वाक्यं जातेरभिधायकम्- अभेदात्. भेदात्तु सर्गेति / उत्तरमाह- शिष्यते इति, उपसर्गनिपाता ह्यव्ययान्तर्गता एव अव्ययशब्देभ्यश्च प्राप्ताया विभक्तेः "अव्ययादाप्सुपः” इत्यनेन लुक्= लोपो भवति तथा च लुप्तविभक्त्यन्तत्वादुपसर्गादीनामप्यनेनैव सूत्रेण पदत्वं प्राप्तमित्यर्थः, तयोः= उपसर्गनिपातयोः / पदसंज्ञाविधानस्य प्रयोजनमाहपदेनेति, 'ब्राह्मणः / 'पचति' इत्यादिविभक्त्यन्तवर्णसमुदायेनैवार्थप्रत्ययो भवतीत्यर्थप्रत्यायकस्य वर्णवृन्दस्य काचित्संज्ञाऽऽवश्यकीति पदसंज्ञा कृता व्याकरणानुरोधेनेत्यर्थः // 59 // ___ पदं निरूप्य तदर्थनिरूपणमारभते- नामपदमिति, अधिकृत्य= समाश्रित्य, गौरिति नामपदम् इदमेवोदाहरणं व्यक्त्यादिष्यस्य कोऽर्थ इति विचार्यते इत्यर्थः / अत्र "पदम्" इत्यत्र 'नामपदम् ' इतिवक्तव्यमासीत् / विचारो हि संशयपूर्वको भवतीति पदार्थे सूत्रेण संशयकारणमाह- तदर्थे इति, तदर्थे= पदस्यार्थे संशयः- पदस्य व्यक्त्याकृतिजातीनां संनिधौ= समुदाये उपचारात्= प्रयोगात् , व्यक्तिः= पिण्डः जाति:= गोत्वादिसामान्यम् आकृतिः= अवयवसंयोगविशेषः एतेषां समुदायमुद्दिश्यैव पदं प्रयुज्यते तत्र न ज्ञायते व्यक्त्यादिषु कः पदस्यार्थ इतिहेतोः पदार्थनिरूपणमारभ्यते इति सूत्रार्थः / व्याचष्टेअविनेति, अविनाभावेन= व्याप्त्या= अव्यभिचारेण= साहित्येन या वृत्तिः= वर्तमानता सा संनिधिरित्युच्यते सूत्रे, जात्याकृतिव्यक्तयश्च पृथग् पृथगू न भवन्तीति अविनाभावेन वर्तमानत्वं विज्ञेयम् / उपचारमाह- अविनाभावेनेति / गौरिति= गौरितिपदम् / संशयमाह- तत्रेति, अन्यतमः= व्यक्ति वाऽऽकृतिर्वा जातिर्वा पदार्थः किं वा सर्वः= व्यक्त्याकृतिजातय इति त्रितयमेव पदार्थ इति न ज्ञायते इतिहेतोः पदार्थे संशय इत्यन्वयः // 60 // अग्रिमसूत्रमवतारयति- शब्दस्येति, शब्दस्य प्रयोगसामर्थ्यात्= प्रयोगानुसारेण शब्दार्थस्य निश्चयः संभवति तस्मात् यस्मिन् प्रयोगो भवति य पदार्थमुद्दिश्य शब्दः प्रयुज्यते स एव पदार्थस्तस्य शब्दस्याऽर्थ इति शब्दानां व्यक्तौ प्रयोगाद् व्यक्तिरेव शब्दार्थ इत्यर्थस्तदेतद् बौद्धमतं बौद्धमते "स्वलक्षणं स्वलक्षणम्" इत्युक्त्या जातेः प्रतिषिद्धत्वादाद व्यक्तेर्वाच्यत्वं प्राप्तम् / व्यक्तिवाच्यत्ववादिनो मतेन सूत्रमाह- येति, याशब्दादीनां व्यक्तौ उपचारात्= प्रयोगाद् व्यक्तिरेव शब्दवाच्येति सूत्रान्वयः / समूहादिशब्दैः समूहादिवाचकाः शब्दा ग्राह्याः किं वा समूहादीनामुपचारः संबन्धो विज्ञेयः, अन्यत् सर्व भाष्ये स्पष्टमेव / ब्याचष्टे- व्यक्तिरिति, पदस्यार्थः पदार्थः / व्यक्तेर्वाच्यत्वकारणं जिज्ञासते- कस्मादिति / उत्तरमाह- याशब्देति / उपचारपदार्थमाह- उपचार इति / याशब्दप्रयोगमुदाहरति- या गौरिति,