________________ पदलक्षणम् ] न्यायभाष्यम् / स्थान्यादेशभावादप्रयोगे प्रयोगो विकारशब्दार्थः स भिद्यते- गुणान्तरापत्तिः= उदातस्यानुदत्त इत्येवमादिः, उपमर्दो नाम एकरूपनिवृत्तौ रूपान्तरोपजनः, हासः= दीर्घस्य हस्वः, वृद्धिा= हस्वस्य दीर्घः तयोर्वाप्लुतः, लेशः= लाघवम् ‘स्तः' इत्यस्तेर्विकारः, श्लेषः= आगमः प्रकृतेः प्रत्ययस्य वा, एते एव विशेषाः विकारा इति एते एवादेशाः. एते चेद्विकारा उपपद्यन्ते तर्हि वर्णविकारा इति // 58 // ते विभक्त्यन्ताः पदम् // 59 // यथादर्शनं विकृता वर्णा विभक्त्यन्ताः पदसंज्ञा भवन्ति / विभक्तिर्द्वयी- नामिकी आख्यातिकी च 'ब्राह्मणः ''पचति' इत्युदाहरणम् / उपसर्गनिपातास्तहि न पदसंज्ञाः लक्षपरिणामात्= पूर्ववर्णस्योत्तरवर्णरूपत्वेन परिणामाद्वेति सूत्रान्वयः, शेषं भाष्ये स्पष्टमेव / अत्र- "तु शब्दः पुनरर्थे. एतेभ्यः पुनर्वर्णविकारोपपत्तेः= वर्णविकारस्य= एकवर्णप्रयोगे वर्णान्तरप्रयोगस्योपपत्तेवर्णविकार इति व्यवव्हियते” इति विश्वनाथभट्टाः / व्याचष्टे- स्थान्यादेशेति, स्थान्यादेशभावात् स्थानिभूतस्य पूर्ववर्णस्याऽप्रयोगे= अप्रयोगावस्थायामुत्तरवर्णस्य यः प्रयोगः स एव विकारशब्दार्थों न तु परिणामो वा कार्यकारणभावो वा. तथा च स्थान्यादेशभावेन पूर्ववर्णस्य विनाशादुत्तरवर्णस्य च तत्रोत्पत्तेर्वर्णानामनित्यत्वमेव प्राप्तं न नित्यत्वमित्यर्थः / सः= उक्तरूपो विकारः। भिद्यते= गुणान्तरापत्त्यादिभ्यो विविध इत्यर्थः / गुणान्तरापत्तिमुदाहरति- गुणेति, यथा 'देवीं वाचम् ' इत्यत्र " अनुदात्तस्य च " इत्यनेनाऽनुदात्तस्योदात्तः, " अनुदात्तौ सुप्तिपौ" इत्यनेनोदात्तत्वप्राप्तौ चानुदात्तत्वं विधीयते एवमन्यत्रापि बोध्यम् , स्वरस्य गुणभूतत्वात् स्वरान्तरापत्तिर्गुणान्तरापत्तिरेव / उपमर्दमाहउपमर्द इति, यथा 'दध्यत्र' इत्यत्र " इको यणचि " इत्यनेन इकारे निवृत्ते यकारोत्पत्तिः / हासमाह- व्हास इति, यथा 'चित्रगुः' इत्यत्र "गोत्रियोः” इत्यनेन ह्रस्वादेशः / वृद्धिमाह-वृद्धिरिति, यथा 'गार्गिः' इत्यत्र " तद्धितेषु " इत्यनेनादिह्रस्वस्य दीर्घः, तयोः- हस्वदीर्घयोः यथा 'देवदत्त 3 // इत्यत्र " दूराद्भूते च" इत्यनेनान्त्यह्रस्वस्य प्लुतः, 'हे 3 राम' इत्यत्र च " हैहेप्रयोगे” इत्यनेन दीर्घस्य हेशब्दैकारस्य प्लुतः, लेशमाह- लेश इति, यथाऽस्धातोः " असोरल्लोपः” इत्यनेनाऽकारलोपे जाते 'स्तः' इति भवति तदेतल्लाघवमपि विकार एव, श्लेषमाह- श्लेष इति, यथा- 'स्कुन्दते' इत्यत्र "इदितो नुम् धातोः" इत्यनेन प्रकृतेर्नुमागमः, 'रामाणाम् ' इत्यत्र " ह्रस्वनद्यापो नुट् // इत्यनेन प्रत्ययस्य नुडागमः / उपसंहरति- एते एवेति, ये एते उदाहृता विशेषा एते एव विकारा इति आदेशा इति चोच्यन्ते. एते चेद्विकारास्तदा वर्णविकारा अपि सिध्यन्ति न चैते परिणामरूपा वा कार्यरूपा वा विकाराः किं त्वादेशरूपा एव- प्रत्यक्षमेव वर्णानामुत्पत्तिविनाशयोर्दशनादित्यनित्या एव वर्णा इत्यर्थः // 58 // // इति वर्णानामनित्यत्वप्रतिपादनं समाप्तम् // पदार्थोपस्थापकत्वं पदानामेवास्ति न वर्णानामिति संप्रति पदलक्षणमाह- ते इति, ते= वर्णा एवाभिमतानुपूर्वीविशिष्टा विभत्तयन्ताः पदमित्युच्यते यथा- 'रामः' इति ‘पचति' इति चेति सूत्रार्थः / व्याचष्टे- यथेति, यथादर्शनम्= व्याकरणशास्त्रानुसारेण विकृताः= पूर्वसूत्रोक्तविकारविशिष्टा विभक्त्यन्ता वर्णाः पदसंज्ञाः= पदसंज्ञका भवन्ति तदुक्तम् " सुप्तिङन्तं पदम् " इति, विकृता इत्युपलक्षणम्- विकारस्य सर्वत्रासंभवात् / विभक्तेद्वैविध्यमाह-विभक्तिरिति, नामिकी नानो जायमाना सुब्विभक्तिर्यथा 'ब्राह्मणः' इत्यत्र. अत्र सुबन्तत्वात् पदत्वम्, आख्यातिकी= धातोर्जायमाना तिकिभक्तिर्यथा 'पचति' इत्यत्र. अत्र तिङन्तत्वात् पदत्वम् / उपसर्गाणां प्रादीनां निपातानां च चादीनां विभक्त्यन्तत्वादशात् तेषां पदसंज्ञा न स्यादिति तेषां पदत्वस्य लक्षणान्तरं वक्तव्यमित्याशङ्कते- उप