________________ 206 प्रसन्नपदापरिभूषितम्- [2 अध्याये. २आह्निकेनियमानियमविरोधादनियमे नियमाचाप्रतिषेधः // 57 // नियम इत्यत्रार्थाभ्यनुज्ञा. अनियम इति तस्य प्रतिषेधः. अनुज्ञातनिषिद्धयोश्च व्याघातादनन्तरत्वं न भवति. अनियमश्च नियतत्वाद् नियमो न भवतीति / नास्त्रार्थस्य तथाभावः प्रतिषिध्यते, किं तर्हि ?. तथाभूतस्यार्थस्य नियमशब्देनाभिधीयमानस्य नियतत्वाद् नियमशब्द एवोपपद्यते, सोयं नियमादनियमे प्रतिषेधो न भवतीति // 57 // न चेयं वर्णविकारोपपत्तिः परिणामात् कार्यकारणभावाद्वा, किं तर्हि ?गुणान्तरापत्त्युपमर्दहा वृद्धिलेशश्लेषेभ्यस्तु विकारोप पत्तेर्वर्णविकाराः॥ 58 // उक्तपूर्वपक्षं प्रत्याचष्टे- नियमादिति, पूर्वपक्षिणाऽनियमे= प्रकृत्यनियमस्य नियमात नियममुपपाद्य यः सिद्धान्तप्रतिषेध उक्तः स न युक्तः- नियमानियमविरोधात् नियमानियमयोः परस्परं विरोधादित्यन्वयः, वर्णेषु प्रकृत्यनियमस्य नियतत्वेपि प्रकृतिनियमो न संभवति, प्रकृतिविकारस्थले च प्रकृतिनियम उपपादितस्तदभावात् वर्णेषु प्रकृतिविकारभावो नोपपद्यते वह्नयभावे धूमवद्. वर्णेषु प्रकृतिनियमाभावश्चोपपादित एवेति सूत्रार्थः / व्याचक्षाणो नियमपदार्थमाह-नियम इति, अभ्यनुज्ञाखीकारः= निश्चय इतियावत् , नियमो भावपदार्थ इत्यर्थः / अनियमपदार्थमाह- अनियम इति, तस्यनियमस्य / नियमानियमयोः परस्परं विरोधमाह- अनुज्ञातेति, अनुज्ञातस्य नियमपदार्थस्य नियमप्राप्तस्य, निषिद्धस्य= अनियमपदार्थस्य= नियमप्रतिषेधप्राप्तस्य चाऽनर्थान्तरत्वम् एकपदार्थत्वं न संभवति- व्याघातात् परस्परं विरोधात् तथा च प्रकृत्यनियमोपि प्रकृतिनियमरूपो न संभवतीत्यर्थः / अनियमस्य नियमत्वानुपपत्तिमाह- अनियमश्चेति, अनियमः= उक्तः प्रकृत्यनियमो नियतत्वात= नियतत्वेपि नियमस्वरूपो न भवति यथा घटाभावो घटस्वरूपो न भवति तथेत्यर्थः / स्वाभिप्रायमाहनात्रेति, अर्थस्य= प्रकृत्यनियमस्य तथाभावः= नियतत्वं न प्रतिषिध्यते किं तु स्वीक्रियते एव तथा च प्रकृत्यनियमस्य नियतत्वादेव प्रकृतिनियमो वर्णेषु न प्राप्नोति. प्रकृत्यनियमस्य च नियतत्वेन प्रकृतिविकारभावोपि वर्णेषु न प्राप्नोतीत्यर्थः / पूर्वपक्षी प्रतिषेध्यं जिज्ञासते-किमिति / उत्तरमाह- तथाभूतस्येति, नियमशब्देनाभिधीयमानस्य= नियमशब्दप्रतिपाद्यस्य तथाभूतस्य निश्चितस्य- अव्यभिचरितस्य पदार्थस्य प्रकृतिविकारस्थले प्रकृतिनियमस्य नियतत्वात् तत्र नियमशब्द एवोपपद्यते न त्वनियमशब्दोपीत्यन्वयः, वर्णेषु प्रकृतिविकारभावस्योपपादनार्थ प्रकृतिनियम एवं प्रदर्शनीय आसीत् न तु प्रकृत्यनियमस्य नियम इति भावः, प्रकृत्यनियमस्य नियतत्वेपि वर्णेषु प्रकृतिनियमो नोपपद्यते इति प्रतिषिध्यते इत्याशयस्तथा च प्रकृतिनियमाभावाद् वर्णेषु प्रकृतिविकृतिभावो नोपपद्यते इत्यर्थः / उपसंहरति- सोयमिति, अनियमे प्रकृत्यनियमस्य नियमात्= नियमप्रदर्शनाद् यः सिद्धान्तप्रतिषेधः पूर्वसूत्रेणोक्तः स न संभवति किं तु मिथ्यैवेत्यन्वयः // 57 // ननु यदि वर्णविकारो नास्ति तदा वर्णविकारशब्दः कथं प्रवृत्तः ? कश्च तस्यार्थः ? इत्याशङ्कयाहन चेति, वर्णविकारोपपत्तिः= वर्णविकारशब्दप्रयोगो न परिणामवादमाश्रित्य वा कार्यकारणभावमाश्रित्य वा वर्णेषु प्रवृत्तो येन पूर्ववर्णाऽविलोपप्राप्त्या वर्णानां नित्यत्वमापद्यतेत्यर्थः / पूर्वपक्षी वर्णविकारशब्दप्रयोगप्रवृत्तेः कारणं जिज्ञासते-किमिति / अस्योत्तरं च सूत्रेण विज्ञेयम् / अत्र- " तदेवं प्रकृतिविकारभावं निराकृत्य विकारवचनव्यक्ति शब्दानामादेशपक्षे समर्थयति-न चेयं वर्णविकारोपपत्तिरिति" इति तात्पर्यटीका / गुणान्तरेति- गुणान्तरापत्त्यादिभ्यो यः खलु वर्णेषु विकारः= विशेषो जायते तदुपपत्तेः= तत्स्वीकाराद् वर्णविकाराः= वर्णविकारस्य व्यवहारो प्रवर्तते न तु वर्णानां कार्यकारणभावात्