________________ वर्णानित्यत्वप्रतिपादनम् ] न्यायभाष्यम् / 205 चायमिवणे यकारः प्रयुज्यमानः कस्य विकार इति प्रतीयते ? / कारणाभावात् कार्याभाव इत्यनुयोगः प्रसज्यते इति // 54 // इतश्च वर्णविकारानुपपत्तिः प्रकृत्यनियमाद् वर्णविकाराणाम् // 55 // इकारस्थाने यकारः श्रूयते. यकारस्थाने खल्विकारो विधीयते- विध्यति (इति), तद् यदि स्यात् प्रकृतिविकारभावो वर्णानाम् ? तस्य प्रकृतिनियमः स्यात्- दृष्टो विकारधमित्वे प्रकृतिनियम इति // 55 // अनियमे नियमाद् नाऽनियमः // 56 // योयं प्रकृतेरनियम उक्तः स नियतः= यथाविषयं व्यवस्थितः- नियतत्वान्नियम इति भवति, एवं सत्यनियमो नास्ति. तत्र यदुक्तम्- "प्रकृत्यनियमात्" इति एतदयुक्तमिति॥५६॥ इकारविकारत्वं नोपपद्यते इत्यर्थः / एवं क्रमं निरूप्य पर्यवसितमाह- चिरेति, चिरनिवृत्ते इवणे अयं प्रयुज्यमानो यकारः कस्य विकारः प्रतीयते= कथमिकारविकारः प्रतीयेत- प्रकृतिविनाशानन्तरं जायमानस्य तद्विकारत्वासंभवादित्यर्थः / “कस्य प्रतीयते" इत्यत्र 'न प्रतीयते' इति वक्तव्यमासीत् / विकारपक्षे प्रतिकूलतर्कमाह- कारणेति, कारणाभावे कार्य न संभवतीति नियमाद् इकारे नष्टे उत्पद्यमानो यकारः कथमिकारकायै स्यादित्यनुयोगः= आक्षेपः प्रसज्यते इति न वर्णविकार उपपद्यते इत्यर्थः // 54 // ___ अग्रिमसूत्रमवतारयति इतश्चेति, इतः= एतत्सूत्रोक्तहेतोः / प्रकृतीति- प्रकृतिविकारेषु प्रकृतिविकत्योर्नियमो भवति यथा दुग्धं दधिप्रकृतिरेव भवति न तु दधिविकृतिरपि दधि च दुग्धविकृतिरेव भवति न तु दुग्धप्रकृतिरपि, वर्णविकारत्वेन चाभिमतानां तु वर्णानामयं प्रकृतिनियमो नास्ति'दध्यत्र' इत्यत्रेकारस्य प्रकृतित्वेपि 'विध्यति' इत्यादिसंप्रसारणस्थले इकारस्यैव विकृतित्वात् , 'दध्यत्र' इत्यत्र यकारस्य विकृतित्वम् 'विध्यति' इत्यत्र च यकारस्य प्रकृतित्वम् , प्रकृतिविकारभावस्थले चैतादृशः प्रकृत्यनियमो विकृत्यनियमश्च न दृष्टः किं तु प्रकृतिः प्रकृतिरेव भवति न विकृतिः, विकृतिश्च विकृतिरेव भवति न प्रकृतिरिति वर्णेषु प्रकृतिविकृत्योर्नियमाभावान्न वर्णविकारा उपपद्यन्ते इति सूत्रार्थः / व्याचष्टेइकारेति, 'दध्यत्र' इत्यत्र इतिशेषः, यणादेशस्थले इत्यर्थः / तदनेनेकारस्य प्रकृतित्वमुक्तम् , इकारस्य विकृतित्वमुदाहरति- यकारेति, 'विध्यति' इत्यत्र “अहिज्याव्यधि" इतिसूत्रेण व्यधधातोर्यकारस्थाने इकारो भवतीति इकारस्य विकृतित्वमपि प्राप्तम् / स्वाभिप्रायमाह- तदिति तस्य= वर्णविकारस्य, तथा चेकारस्य प्रकृतित्वे विकृतित्वं न स्याद् न चैवमस्तीति न वर्णेषु प्रकृतिविकारभाव उपपद्यते इत्यर्थः / प्रकृतिविकारभावस्थले प्रकृतिनियमे प्रत्यक्षं प्रमाणयति- दृष्ट इति, यथा दुग्धादीनां दधिप्रकृतित्वमेव दृष्टं न दधिविकृतित्वं दध्यादीनां च विकृतित्वमेव दृष्टं न प्रकृतित्वमित्यर्थः // 55 // ___अस्य च्छलेन पूर्वपक्ष्युत्तरमाह- अनियमति, नाऽनियमः= योयं प्रकृत्यनियम उक्तः स न युक्तःप्रकृतिनियमाभावेपि अनियमे= प्रकृत्यनियमस्य नियमात्, प्रकृत्यनियमस्तु निश्चितत्वाद् नियत एवेति नियमोपलब्ध्या प्रकृत्यनियमो न हानिकरस्तथा च यत्र प्रकृतित्वं तत्र न विकृतित्वं यत्र च विकृतित्वं तत्रतु न प्रकृतित्वमिनिन प्रत्यक्षविरोध इति सूत्रार्थः ।व्याचष्टे- योयमिति / प्रकृत्यनियमस्य नियतत्वमाहयथेति, यथाविषयम्= विषयभेदेन यथा ' दध्यत्र ' इत्यादाविकारस्य प्रकृतित्वमेव. 'विध्यति' इत्यादाविकारस्य विकृतित्वमेवेत्यर्थः / उक्ते हेतुमाह-नियतत्वादिति / उपसंहरति- एवमिति, एवम् प्रकृत्यनियमस्य नियतत्वे सति / उक्तसिद्धान्तं प्रत्याचष्टे- तत्रेति, तत्र= प्रकृत्यनियमस्य नियतत्वे // 56 //