________________ 204 प्रसन्नपदापरिभूषितम्- [2 अध्याये. २आहिकेतीति / न च वर्णोपलब्धिर्वर्णनिवृत्तौ वर्णान्तरप्रयोगस्य निर्वर्तिका, योऽयमिवर्णनिवृत्तौ यकारस्य प्रयोगः यद्ययमिवर्णोपलब्ध्या निर्वर्तते तदा तत्रोपलभ्यमान इवों यत्वमापद्यते इति गृह्येत ?, तस्माद्वर्णोपलब्धिरहेतुर्वर्णविकारस्येति // 53 // विकारधर्मित्वे नित्यत्वाभावात् कालान्तरेऽविकारोप पत्तेश्वाऽप्रतिषेधः // 54 // " तद्धर्मविकल्पात् " इति न युक्तः प्रतिषेधः- न खलु विकारधर्मकं किंचिद् नित्यमुपलभ्यते इति / " वर्णोपलब्धिवत् " इति (च) न युक्तः प्रतिषेधः- अवग्रहे हि 'दधि अत्र' इति प्रयुज्य चिरं स्थित्वा ततः संहितायां प्रयुङ्क्ते- 'दध्यत्र' इति. चिरनिवृत्ते ताहगेतत= 'वर्णोपलब्धिवद् वर्णविकारोपलब्धिः' इदं वाक्यं भवति नाम तथा वर्णोपलब्ध्या वर्णविकारो न सिध्यति- वर्णोपलब्धेर्वर्णविकारसंबद्धत्वाभावादित्यर्थः / विपक्षे बाधकमाह- न चेति, वर्णनिवृत्तौपूर्ववर्णनिवृत्तौ जातायाम् उत्तरवर्णप्रयोगस्य निर्वतिका निष्पादिका नेत्यन्वयः / सामान्येनोक्तं प्रकृते विशेषरूपेण समन्वयति- योयमिति, निवर्तते= निष्पद्येत, तत्र= इकारस्थाने 'दध्यत्र ' इत्यत्र, उपलभ्यमानो यकारप्रयोग इत्यन्वयः किं वा तत्र यकारप्रयोगे उपलभ्यमानः सन् इवर्ण इत्यन्वयः। गृह्येतविज्ञायेत, यथा सुवर्णोपलब्ध्या कुण्डलोपलब्धिर्भवतीति सुवर्ण कुण्डलत्वमापद्यते इति सिध्यति तथेवोंपलब्ध्या यदि यकारप्रयोगः= यकारो निर्वर्तेत तदोपलभ्यमानेपि यकारप्रयोगे उपलभ्यमानेन इवर्णेन 'इवणों यत्वमापद्यते / इति सिध्येतापि. न चैवमस्ति- इव!पलब्धौ सत्यां यकारप्रयोगासंभवादित्यन्वयः, यथा कुण्डलावस्थायामुपलभ्यमानत्वेन सुवणे कुण्डलत्वमापन्नमिति गृह्यते तथा यदि यकारावस्थायामिकार उपलभ्येत तदा इकारो यत्वमापन्न इति गृह्येतापि न चैवमस्ति यकारावस्थायाम् 'दध्यत्र' इत्यादाविकारस्योपलम्भाभावादित्यर्थः / उपसंहरति- तस्मादिति, वर्णोपलब्धिर्वर्णविकारस्याऽहेतुः= अनुमापिका न भवतीत्यन्वयः // 53 // "नित्यानाम् " " अनवस्थायित्वे " इत्युक्तसूत्रद्वयमपि प्रत्याचष्टे- विकारेति, वर्णानां विकारधर्मित्वे विकारित्वे नित्यत्वाभावात् नित्यत्वं न संभवतीति यः " नित्यानाम् " इत्यादिसूत्रेण न्यायसिद्धान्तस्य प्रतिषेध उक्त सोऽप्रतिषेधः= प्रतिषेधो नोपपद्यते, तथा " अनवस्थायित्वे " इत्यादिसत्रेण वर्णानित्यत्वपक्षे वर्णविकारोपादनेन न्यायसिद्धान्तस्य यः प्रतिषेध उक्तः सोप्रतिषेधः= प्रतिषेधो नोपपद्यते- कालान्तरे= पूर्ववर्णनिवृत्त्यनन्तरकालेऽविकारोपपत्तेः= विकारोपपत्तेरसंभवात्. विकारो हि प्रकृतिविनाशानन्तरकाले न भवति न हि दुग्धविनाशानन्तरं दधि जायते प्रकृते च इकारनाशानन्तरमेव यकारो जायते इति न विकारो भवतीति न वर्णविकार उपपद्यते इतिसूत्रार्थः / अनेनैकेनैव सूत्रेण पूर्वोक्तसूत्रद्वयं प्रत्याख्यातम् / अत्र सूत्रे- " अविकारोपपत्तेः” इत्यस्य स्थाने 'विकारानुपपत्तेः' इति वक्तव्यमासीत् / अत्र- " प्रत्यक्षं हि वर्णस्य द्वितीयक्षणे युज्यते विकारस्तु कालान्तरीयः (कालान्तरे) न युज्यते " इति विश्वनाथभट्टाः। सूत्रस्य पूर्वभागं व्याचष्टे- तद्धर्मेति, " नित्यानाम" इतिसत्रोक्तो यः " तद्धर्मविकल्पात् " इति न्यायसिद्धान्तप्रतिषेधः स न युक्त इत्यर्थः / उक्ते हेतुत्वेन विकारधर्मित्वे नित्यत्वासंभवमाह- नेति, वर्णनित्यत्वपक्षे वर्णविकारो नोपपद्यते विरोधात्= नित्यानां विकारधर्मित्वासंभवादित्यर्थः / उत्तरभागं व्याचष्टे- वर्णेति, " अनवस्थायित्वे " इतिसूत्रोक्तो यः “वर्णोपलब्धिवत्" इति न्यायसिद्धान्तप्रतिषेधः स न युक्त इत्यन्वयः / सूत्रोक्तहेतुभागं व्याचष्टे- अवग्रहे इति, अवग्रहे= विग्रहावस्थायाम् 'दधिअत्र' इति विग्रहप्रयोगं कृत्वा चिरं स्थित्वा चिरकालानन्तरम् चिरेण इकारविनाशानन्तरं संहितावस्थायाम् ' दध्यत्र' इति प्रयुके, तत्रेकारनाशानन्तरं जायमानस्य यकारस्य