________________ 203 वर्णानित्यत्वप्रतिपादनम् ] न्यायभाष्यम् / धर्मकं नित्यम्. अनित्यं पुनरुपजनापाययुक्तम् . न चान्तरेणोपजनापायौ विकारः संभवति. तद् यदि वर्णा विक्रियन्ते ? नित्यत्वमेषां निवर्तते, अथ नित्याः ? विकारधर्मत्वमेषां निवर्तते, सोयं विरुद्धो हेत्वाभासो धर्मविकल्प इति // 52 // अनित्यपक्षे समाधिःअनवस्थायित्वे च वर्णोपलब्धिवत् तद्विकारोपलब्धिः // 53 // यथाऽनवस्थायिनां वर्णानां श्रवणं भवत्येवमेषां विकारो भवतीति // असंवन्धादसमर्था / अर्थप्रतिपादिका वर्णोपलब्धिर्न विकारेण संबन्धादसमर्था या गृह्यमाणा वर्णविकारमनुमापयेदिति, तत्र यादृगिदम्- यथा गन्धगुणा पृथिवी एवं शब्दसुखादिगुणापीति. तादृगेतद् भवगोत्वादि // एवं वर्णानां नित्यत्वपक्षेपि विकारत्वं सूत्रानुसारेण व्याख्याय तस्य प्रत्याख्यानमारभतेविरोधादिति, "तद्धर्मविकल्पात्" इति यः सूत्रे वर्णविकारसाधनार्थ हेतुरुक्तः स विरोधादहेतुरित्यन्वयः / नित्यस्वरूपमाह- नित्यमिति, नापैति= न विनश्यति, अनुपजनापायधर्मकम्= उत्पत्तिविनाशहीनमेव नित्यमित्युच्यते / अनित्यस्वरूपमाह- अनित्यमिति, उपजनापाययुक्तम् उत्पत्तिविनाशयुक्तं चानित्यमित्युच्यते / पर्यवसितमाह-न चेति, उपजनापायौ= उत्पत्तिविनाशौ अन्तरेण= विना, पूर्वस्य विनाशं विना उत्तरस्य चोत्पत्तिं विना प्रकृतिविकारभावो नोपपद्यते यथा दुग्धदनोः / प्रकृतमाहतदिति, वर्णविकारपक्षे वर्णानां नित्यत्वं नोपपद्यते- विकारत्वेनाऽनित्यत्वप्रसङ्गात् / एषाम्= वर्णानाम् / नित्यत्वपक्षे च विकारो नोपपद्यते इत्याह- अथेति / उपसंहरति- सोयमिति, धर्मविकल्पः= धर्मविकपादिति हेतुर्विरुद्धत्वाद् हेत्वाभास एवेति न वर्णविकारसाधकः संभवति. विरुद्धत्वं च नित्यानां विकारत्वासंभवात् विकारत्वसाधकस्य नित्येष्वसंभवात् अनित्यत्वव्याप्यत्वाच नित्यत्वविकारत्वादिविरुद्धधर्माणामेकत्रासंभवाञ्च विज्ञेयमिति न नित्यत्वपक्षे वर्णविकारः संभवतीत्यर्थः // 52 // ___ अग्रिमसूत्रमवतारयति- अनित्येति, वर्णानामनित्यत्वपक्षे समाधिः= विकारोपपादनमनेन सूत्रेण क्रियते इत्यर्थः। अनवस्थितत्वे इति- वर्णानामनवस्थायित्वे= अनित्यत्वे यथोपलब्धिः= प्रत्यक्षं भवति तथा तत्= तेषां वर्णानां विकारोपलब्धिः= विकारोपि संभवति, क्षणिकानामिकारादिवर्णानां यथा प्रत्यक्षविषयत्वमुपपद्यते तथा यकारादिवर्णोत्पादकत्वमपि संभवतीत्यनित्यत्वपक्षेपि वर्णविकार उपपन्न इति सूत्रार्थः / व्याचष्टे- यथेति / एषाम् वर्णानाम् / अन्यथाऽनवस्थायित्वे प्रत्यक्षविषयत्वमपि न स्यात् अवस्थितस्यैव प्रत्यक्षविषयत्वदर्शनादित्याशयः / एवमनित्यत्वपक्षेपि वर्णविकारं सूत्रानुसारेण व्याख्याय तस्य प्रत्याख्यानमारभते- असंबन्धादिति, वर्णविकारसाधकत्वेन या वर्णोपलब्धिनिर्दिष्टा सा वर्णविकारेण सहाऽसंबन्धात्= असंबद्धत्वादेव असमर्था= वर्णविकारसाधनसमर्था नास्ति-संबद्धस्यैव साधकत्वाद् धूमादेरिवेत्यर्थः / अत्र- " तस्मादसंबन्धादसमर्था वर्णोपलब्धिर्वर्णविकारप्रतिपादने इत्यर्थः" इति तात्पर्यटीका। नन्वसमर्थापि वर्णोपलब्धिः कथं न वर्णविकारमनुमापयेत् ? इत्याशङ्कयाह- अर्थेति, अर्थप्रतिपादिका वर्णविकारप्रतिपादकत्वेनाभिमता वर्णोपलब्धिर्वर्णविकारेण सह संबन्धादसमर्था नास्ति या गृह्यमाणा वर्णविकारमनुमापयेदित्यन्वयः, यदि वर्णोपलब्धिर्वर्णविकारसंबन्धादसमर्था स्यात्तदाऽसाम ात् वर्णविकारसंबन्धस्य तेन वर्णविकारस्यानुमापिका स्यादपि न चैवमस्तीत्यर्थः / अत्र " मा भूदगोपलब्धिर्वर्णविकारेण साक्षात्संबद्धा. आदेशविरोधितया तु तन्निवृत्त्या पारिशेष्याद्विकारं साधयिष्यतीत्यत आह- न च वर्णोपलब्धिरिति” इति तात्पर्यटीका / वर्गोंपलब्धेर्वर्णविकाराननुमापकत्वे दृष्टान्तमाह- तत्रेति, 'पृथिवी शब्दसुखादिगुणा गन्धगुणात्वात् / किं वा 'यथा पृथिवी गन्धगुणा तथा शब्दसुखादिगुणापि ' इत्युक्ते यादृगिदं वाक्यं नाम यथा गन्धवत्त्वेन शब्दसुखादिमत्त्वं न प्राप्नोति.