________________ 202 प्रसन्नपदापरिभूषितम्- [2 अध्याये. २आह्रिके___'नित्या वर्णाः' इत्येतस्मिन् पक्षे इकारयकारौ वर्णी इत्युभयोनित्यत्वाद् विकारानुपपत्तिः, नित्यत्वेऽविनाशित्वात् कः कस्य विकार इति ? / अथ ' अनित्या वर्णाः' इतिपक्षः ? एवमप्यनवस्थानं वर्णानाम् / किमिदमनवस्थानं वर्णानाम् ?, उत्पद्य निरोधः, उत्पद्य निरुद्धे इकारे यकार उत्पद्यते. यकारे चोत्पद्य निरुद्ध इकार उत्पद्यते, कः कस्य विकारः ? / तदेतद् अवगृह्य संधाने. संधाय चाऽवग्रहे वेदितव्यमिति // 51 // नित्यपक्षे तु तावत्समाधिः नित्यानामतीन्द्रियत्वात्तद्धर्मविकल्पाच वर्ण विकाराणामप्रतिषेधः // 52 // 'नित्या वर्णा न विक्रियन्ते' इति विप्रतिषेधः, यथा नित्यत्वे सति किंचिदतीन्द्रिय किंचिदिन्द्रियग्राह्यम् इन्द्रियग्राह्याश्च वर्णाः. एवं नित्यत्वे सति किंचिन्न विक्रियते वास्तु विक्रियन्ते इति // विरोधादहेतुः- तद्धर्मविकल्पः, नित्यं नोपजायते नाऽपैति= अनुपजनापायशित्वेनानुवर्तमानत्वाभावात् प्रकृतित्वं नोपपद्यते तथा च पूर्ववर्णस्याऽनवस्थानात् प्रकृतित्वाभावे उत्तरवर्णस्य विकृतित्वमपि न संभवति-विकारत्वस्य प्रकृतित्वनिरूपितत्वादिति न वर्णविकारः पक्षद्वयेपि संभवतीति सूत्रार्थः / व्याचष्टे- नित्या इति, उभयोः= इकारयकारयोर्वर्णत्वेन नित्यत्वं तेन च विकारत्वानुपपत्तिरित्यर्थः / उक्तमेव काकाप्याह- नित्यत्वे इति, को वर्णः कस्य वर्णस्य विकारः स्यात् ? सर्वेषामपि वर्णानां नित्यत्वस्वीकारादित्यर्थः / वर्णानित्यत्वपक्षे विकारानुपपत्तिमाह- अथेति, एवमपि= एवं हि= अनित्यत्वे ह्यनवस्थानम् = अननुवर्तमानत्वं विनाशित्वं वा वर्णानां प्राप्तम्- अनित्यत्वात् . अनवस्थितस्य च प्रकृतित्वं नोपपद्यते प्रकृतित्वाभावे च तद्विकारोपि नोपपद्यते इति वर्णानामनित्यत्वपक्षेपि प्रकृतिविकारभावो नोपपद्यते इत्यर्थः / अनवस्थानस्वरूपं जिज्ञासते-किमिदमिति / उत्तरमाहउत्पद्येति, उत्पद्य= उत्पत्त्यनन्तरं यो निरोधः= विनाशः स एवाऽनवस्थानम् / अनवस्थानं वर्णेषु समन्वयति- उत्पद्येति, निरुद्ध= विनष्टे, इकारस्य क्षणविनाशित्वेनानुवर्तमानत्वाभावात् प्रकृतित्वं नोपपद्यते. इकारस्य प्रकृतित्वाभावे च यकारस्य विकृतित्वमपि नोपपद्यते इत्यर्थः / विपरीतक्रममाह- यकारेति / आक्षिपति- क इति, को वर्णः कस्य वर्णस्य विकारः स्यात् ?- अनुवर्तमानस्य कस्यापि वर्णस्याभावात् / इकारयकारयोरुत्पत्तिनिरोधस्थलमाह- तदेतदिति, अवगृह्य= विगृह्य= 'दधि अत्र ' इति विग्रहानन्तरं संघाने 'दध्यत्र' इति संधिकायें कृते 'इकारे निरुद्धे यकार उत्पद्यते / इति वेदितव्यम् , संधाय'दध्यत्र' इति संधिकार्यानन्तरम् अवग्रहे= 'दधि अत्र' इति पुनर्विग्रहे कृते ‘यकारे निरुद्धे इकार उत्पद्यते / इति वेदितव्यमित्यन्वयः // 51 // अग्रिमसूत्रमवतारयति- नित्येति, वर्णानां नित्यत्वपक्षे विकारत्वस्य समाधिः- उपपादनमनेन सूत्रेण क्रियते इत्यर्थः / नित्यानामिति- नित्यानामपि पदार्थानां धर्मविकल्पात्= धर्मस्य नानाविधत्वात् तत्राकाशादीनां नित्यानामतीन्द्रियत्वं चकाराद् गोत्वादीनां नित्यानामिन्द्रियग्राह्यत्वमिति यथा धर्मभेदस्तथा केषां चिन्नित्यानां विकारत्वानुपपत्तावपि वर्णानां नित्यानामपि इन्द्रियग्राह्यत्वाद् विकारत्वं संभवतीति वर्णविकाराणाम् अप्रतिषेधः= प्रतिषेधो नोपपद्यते इति वर्णनित्यत्वपक्षेपि वर्णविकार उपपन्न इति सूत्रार्थः / व्याचष्टे- नित्या इति, 'नित्या वर्णा न विक्रियन्ते' इति यो वर्णविकारप्रतिषेधः स विप्रतिषेधः= विरुद्धः= अयुक्तः प्रतिषेधः- नित्यत्वेपि विकारसंभवादित्यर्थः / उदाहरति- यथेति, नित्यं सदतीन्द्रियमाकाशादि. नित्यं सदिन्द्रियग्राह्यं गोत्वादि, तत्र नित्या अपि वर्णा इन्द्रियग्राह्या इति यथाऽऽकाशादिनित्यापेक्षया वैषम्यं तथा विकारलक्षणं वैषम्यमपि संभवतीति प्रकृतमाह- एवमिति, किंचित