________________ 201 वर्णानित्यत्वप्रतिपादनम् ] न्यायभाष्यम्। अवस्थितं सुवर्ण हीयमानेनोपजायमानेन च धर्मेणधर्म भवति नैवं कश्चित् शब्दात्मा हीयमानेन इत्वेन उपजायमानेन यत्वेन च धर्मी गृह्यते तस्मात् सुवर्णोदाहरणं नोपपद्यते इति // 48 // ___ वर्णत्वाव्यतिरेकाद् वर्णविकाराणामप्रतिषेधः // 49 // वर्णविकारा अपि वर्णत्वं न व्यभिचरन्ति यथा सुवर्णविकारः सुवर्णत्वमिति // 49 // सामान्यवतो धर्मयोगो न सामान्यस्य / / 50 // कुण्डलरुचकौ सुवर्णस्य धर्मों न सुवर्णत्वस्य. एवमिकारयकारौ कस्य वर्णात्मनो धर्मों ? वर्णत्वं सामान्यं न तस्येमौ धौ भवितुमर्हतः, न च निवर्तमानो धर्म उपजायमानस्य प्रकृतिः= तत्र निवर्तमान इकारो न यकारस्योपजायमानस्य प्रकृतिरिति // 50 // इतश्च वर्णविकारानुपपत्तिः नित्यत्वेऽविकारादनित्यत्वे चानवस्थानात् // 51 // प्राप्तः- पूर्वरूपनिवृत्त्यनन्तरमेव पुनरापत्तेः संभवादित्यर्थः / प्रकृते सुवर्णोदाहरणानुपपत्तिमाह- नैवमिति, शब्दात्मा शब्दस्वरूपम् / यदि सुवर्णवत् कस्यचित् शब्दस्यानुवृत्तिः स्यात्तदा सुवर्णदृष्टान्तो घदेतापि न चैवमस्तीति न विकारेषु पुनरापत्तिः संभवतीति वर्णेषु दृश्यमानया पुनरापत्त्या विकारत्वं निवर्तते इत्यादेशपक्षः सिद्ध इत्यर्थः / उपसंहरति- तस्मादिति // 48 // ____ अत्र पूर्वपक्ष्याह- वर्णत्वेति, यथा सुवर्णविकारेषु सुवर्णत्वमनुवर्तते तथा वर्णविकारेष्वपि यकारादिषु वर्णत्वमनुवर्तते एवेति वर्णत्वस्याऽव्यतिरेकात् अव्यभिचारात्= अनुवर्तमानत्वादू वर्णविकाराणां प्रतिषेधो नोपपद्यते किं तु सुवर्णविकारवद् वर्णविकारोपि सिद्ध इति सूत्रार्थः / व्याचष्टे- वर्णविकारा इति, सूत्रव्याख्यानेन भाष्यमपि व्याख्यातं विज्ञेयम् // 49 // उक्तपूर्वपक्षं प्रत्याचष्टे- सामान्येति, दृष्टान्तपक्षे सामान्यवतः= सुवर्णत्वसामान्ययुक्तस्य सुवर्णस्य धर्मयोगः= कुण्डलत्वादिधर्मयोगो भवति न तु सुवर्णत्वसामान्यस्य. सुवर्ण चावस्थितत्वादनुवर्तमानमिति संभवति तस्य धर्मयोग इति सुवर्णकुण्डलादिषु प्रकृतिविकारभाव उपपद्यते. प्रकृते च इकारयकारयोरनुवर्तमानस्य वर्णत्वसामान्यस्य तु इत्वयत्वादिधर्मयोगो नैव संभवति- असंभवात् सामान्ये सामान्यानङ्गीकारात् . वर्णत्वसामान्यवांश्च न कोपि इकारयकारादावनुवर्तते येन यकारादिवर्णनां विकारत्वं स्यादिति न वर्णविकार उपपद्यते इति सूत्रार्थः / व्याचष्टे- कुण्डलेति, सुवर्णादिद्रव्यस्य कुण्डलत्वादिधर्मः संभवति- तत्र जायमानत्वात् . न तु सुवर्णत्वस्य- द्रव्यत्वाभावात् / प्रकृतमाह- एवमिति, प्रकृते सुवर्णवद् यकारादिष्वनुवर्तमानो वर्णः कोपि नोपलभ्यते यकारादयो यस्य विकाराः स्युः / वर्णत्वं च सामान्य स्वयमेव धर्मभूतमिति न तस्य इमौ= इकारयकारौ- इत्वयत्वे वा धर्मों संभवत इत्याह- वर्णत्वमिति / ननु इकारयकारयोरेव प्रकृतिविकारभावः किं न स्यादित्याशङ्कथाह- न चेति, अत्र "धर्मः" इत्यत्र 'धर्मी' इतिवक्तव्यमासीत्, निवर्तमानो धर्मी जायमानस्य प्रकृतिर्न भवति- अनुवर्तमानस्यैव प्रकृतित्वसंभवाद् इकारश्च यकारादेशेन निवर्तते एव नानुवर्तते इति न इकारो यकारस्य प्रकृतिः संभवतीत्यन्वयः / सामान्येनोक्तं विशेषरूपेण प्रकृते समन्वयति- तत्रेति / स्पष्टमन्यत् / तस्मान्न वर्णविकारपक्ष उपपद्यते इत्यर्थः // 50 // ____ अग्रिमसूत्रमवतारयति- इतश्चेति, इतः= सूत्रोक्तहेतोः। नित्यत्वे इति- वर्णानां नित्यत्वे अविकारात्= अविकारत्वादेव विकारत्वं नोपपद्यते येन वर्णविकार उपपद्येत- अनित्यस्यैव विकारत्वसंभवात्, नित्यानामात्मादीनां विकारत्वास्वीकारात्, वर्णानामनित्यत्वे चाऽनवस्थानात= प्रतिक्षणं विना 26