________________ 200 प्रसन्नपदापरिभूषितम्- [2 अध्याये. २आलिके सुवर्णादीनां पुनरापत्तेरहेतुः // 47 // अननुमानादिति न- इदं ह्यनुमानम्- सुवर्ण कुण्डलत्वं हित्वा रुचकत्वमापद्यते रुचकत्वं हित्वा पुनः कुण्डलत्वमापद्यते, एवमिकारो यणि यकारत्वमापन्नः पुनरिकारो भवतीति // 47 // व्यभिचारादननुमानम्- यथा पयो दधिभावमापन्नं पुनः पयो न भवति-किमेवं वर्णानां न पुनरापत्तिः 1. अथ सुवर्णवत् पुनरापत्तिरिति ? / सुवर्णोदाहरणोपपत्तिश्च न- तद्विकाराणां सुवर्णभावाव्यतिरेकात् // 48 // पत्तिनोंपपद्यते इत्यर्थः / अत्र- " अननुमानादिति प्रमाणाभावमुपलक्षयति" इति तात्पर्यटीका / वर्णेषु पुनरापत्तिमाह- इकार इति, विकारत्वविरुद्धा पुनरापत्तिवर्णेषूपलभ्यमाना विकारत्वं निवारयतीत्यर्थः / विपक्षे बाधकमाह- नेति, इकारस्य स्थाने यकारस्य प्रयोगः= आदेशो भवतीत्यत्रानुमानम्= प्रमाणं नास्तीति न किं त्वस्ति प्रमाणं विकारधर्मस्य= प्रकृत्यनुविधानस्यानुपलब्धिः विकारत्वविरुद्धा पुनरापत्तिश्चेति न वर्णविकारपक्ष उपपद्यते इत्यर्थः // 46 // पूर्वपक्षी विकाराणामपि पुनरापत्तिदाहरति- सुवर्णेति, सुवर्णादिविकारेषु पुनरापत्तेर्दर्शनात् " अपुनरापत्तेः” इति यो हेतुरुक्तः सोऽहेतुः= वर्णविकाराभावसाधाको न संभवतीति सूत्रान्वयः / ब्याचष्टे- अननुमानादिति, पूर्वसूत्रभाष्ये “पुनरापत्तेरननुमानात्" इति यदुक्तं तन्न युक्तमित्यर्थः / विकाराणां पुनरापत्तौ प्रमाणमाह- इदमिति / अनुमानम्= प्रमाणम् / प्रत्यक्षप्रमाणमुदाहरतिसुवर्णमिति, रुचकादिविकाराणां कुण्डलत्वाद्यापत्तिरूपा पुनरापत्तिरनेन प्रदर्शिता / प्रकृतमाह- एवमिति, यणि= यणादेशेन, तथा च पुनरांपत्तेर्विकारत्वविरुद्धत्वाभावाद् वर्णानां पुनरापत्त्या विकारत्वबाधो न संभवतीति वर्णविकारपक्षः सिद्ध इत्यर्थः / / 47 // ___ भाष्यकारः स्वोक्तं विकाराणां पुनरापत्तौ प्रमाणाभावमुपपादयति- व्यभिचारादिति, तदेतद् भाष्यमुक्तपूर्वपक्षखण्डनपरम् / पुनरापत्तेर्व्यभिचारादननुमानम्= प्रमाणाभाव इत्यन्वयः, यत्र यत्र विकारत्वं तत्र तत्र पुनरापत्तिरिति व्याप्तिर्नास्ति दुग्धविकारेषु पुनरापत्तरसंभवादिति न विकारत्वव्यभिचारिण्या पुनरापत्त्या वर्णानां विकारः सिध्यतीत्यर्थः / व्यभिचारमुदाहरति- यथेति, तथा च विकारभूतेषु दध्यादिषु पुनरापत्तिर्न दृश्यते सुवर्णादिविकारेषु च दृश्यते इति व्यभिचारस्तदत्र वर्णविकारपक्षे दध्यादिष्विव वर्णेषु पुनरापत्त्यभावो वा वक्तव्यः किं वा सुवर्णादिविकारेष्विव पुनरापत्तिर्वक्तव्येति संदेहः, दृश्यते च वर्णेषु पुनरापत्तिः सा च विकारत्वव्यभिचारिणीति नोक्तसुवर्णविकारदृष्टान्तेन वर्णविकार उपपद्यते इत्यर्थः / वस्तुतस्तु वर्णेषु पुनरापत्तेः प्रदर्शितत्वात्तत्संदेहोयं प्रामादिक एवेत्यनुसंधेयम् // स्ववक्तव्यमाह- सुवर्णेति, सुवर्णोदाहरणोपपत्तिश्च न संभवतीति सूत्रघटकनकारेणान्वयः / नेतितद्विकाराणाम् सुवर्णविकाराणां कुण्डलादीनां सुवर्णभावस्य= सुवर्णत्वस्य अव्यतिरेकात्= अलोपादित्यन्वयः, यत्र हि प्राकृतरूपत्यागानन्तरं प्राकृतरूपस्य पुनर्ग्रहणं भवति तत्र पुनरापत्तिरित्युच्यते कटकादीनां च प्रकृतिः सुवर्णमेव न तु. कुण्डलादिकं कटकादिभिश्च सुवर्णरूपता न परित्यज्यते यदि परित्यज्येत तदा पुनः सुवर्णरूपतापत्त्या पुनरापत्तिरुपपद्येतापि न चैवमस्तीति न सुवर्णविकारेषु पुनरापत्तिरस्ति येन सुवर्णविकारदृष्टान्तात् पुनरापत्तियुक्तानां वर्णानां विकारत्वं सिध्येतेति सूत्रार्थः / व्याचष्टे-अवस्थितमिति, हीयमानेन कुण्डलस्वादिना धर्मेण. उपजायमानेन रुचकत्वादिना धर्मेण, सुवर्णस्यावस्थितत्वेनाऽनुवर्तमानत्वं प्राप्तं तेन सुवर्णरूपताया अनिवृत्तिः प्राप्ता. तया च पुनरापत्त्यभावः