________________ 199 शब्दानित्यत्वप्रतिपादनम् ] न्यायभाष्यम् / न-विकारधर्मानुपपत्तेः // 45 // अयं विकारधर्मः- द्रव्यसामान्ये यदात्मकं द्रव्यं मृदा सुवर्ण वा तस्यात्मनोऽन्वये पूर्वो व्यूहो निवर्तते व्यूहान्तरं चोपजायते तं विकारमाचक्षते, न वर्णसामान्ये कश्चित् शब्दात्माऽन्वयी य इत्वं जहाति यत्वं चापद्यते, तत्र यथा सति द्रव्यभावे विकारवैषम्ये नाऽनडुहोऽश्वो विकारः- विकारधर्मानुपपत्तेः, एवमिवर्णस्य न यकारो विकारः-विकारधर्मानुपपत्तेरिति॥४५॥ इतश्च न सन्ति वर्णविकाराः विकारप्राप्तानामऽपुनरापत्तेः // 46 // अनुपपन्ना पुनरापत्तिः / कथम् ?. पुनरापत्तेरननुमानादिति / इकारो यकारत्वमापन्नः पुनरिकारो भवति / न पुनरिकारस्य स्थाने यकारस्य प्रयोग इत्यत्रानुमानं नास्ति 1 // 46 // ___ उक्तं निराकरोति- नेति, विकारधर्मस्य= प्रकृत्यनुविधानस्य वर्णेषु अनुपपत्तेः= अदर्शनाद् वर्णविकारो नोपपद्यते, विकारभूतेषु च कटकादिषु प्रकृतिभूतसुवर्णसादृश्यस्य दर्शनात्. वृक्षेष्वपि बीजसादृश्यमस्त्येव तच्च न प्रत्यक्षं सूक्ष्मत्वादित्यन्यदेतत् किं वा बीजरससमानरसवत्त्वं वृक्षफलादिषु बीजसादृश्यं प्रत्यक्षमेव. अन्यथा बीजापेक्षया विलक्षणस्य वृक्षस्य संभवे वटबीजादश्वत्थवृक्षोपि जायेत न चैवमस्तीति विकारेषु प्रकृत्यनुविधानस्य नियमः सिद्ध इति उत्तरवणेषु पूर्ववर्णानुविधानस्याभावाद् विकारत्वाभावः सिद्ध इति सूत्रार्थः / व्याचष्टे- अयमिति / विकारधर्ममुपपादयति- द्रव्येति, प्रकृतिविकारयोर्द्रन्यसामान्ये= द्रव्यत्वेन साम्येपि किं वैकद्रव्यत्वे सति द्रव्यम्= प्रकृतिर्यदात्मकं मृत्- मृदास्मकं सुवर्णम्= सुवर्णात्मकं च भवति तस्य= मृदात्मकस्य सुवर्णात्मकस्य वा आत्मनः= स्वरूपस्यसुवर्णत्वादेरन्वये= अनुवृत्तौ सत्त्यामेव पूर्वो व्यूहः= कटकाद्याकारो निवर्तते तन्निवृत्त्या म्यूहान्तरम् कुण्डलाद्याकारो जायते तम् एतादृशम्= प्रकृतिसरूपं प्रकृत्यनुविधानविशिष्टं कार्य विकारमाचक्षते तथा च विकारेषु प्रकृत्यनुविधाननियमः सिद्ध इत्यर्थः / वर्णानां विकारत्वानुपपत्तिमाह-नेति, इकारयकारयोर्वर्णसामान्ये= वर्णत्वेन साम्येपि न कश्चित् शब्दात्मा कटकादिविकारेषु सुवर्णवद् अन्वयी अनुवर्तमानो दृश्यते य इकारत्वं हित्वा यत्वस्य ग्रहणेन यकारस्य प्रकृतिः स्याद् यकारश्च तस्य विकृतिः स्यादिति न वर्णेषु प्रकृतिविकारभाव उपपद्यते किं त्वादेशपक्ष एवेत्यर्थः / वर्णविकाराभावपक्षे दृष्टान्तमाह- तत्रेति, तत्र अनुवृत्त्यभावे सिद्धे, यथा वृषभाश्वयोद्रव्यभावे द्रव्यत्वसामान्येपि विकारवैषम्ये= विकारवैषम्यात् स्वरूपवैषम्यात् प्रकृतिविकारभावो न भवति तत्कस्य हेतोः? विकारधर्मानुपपत्तेः-प्रकत्यनुविधानादर्शनादेव अर्थाद् वृषभाश्वयोः प्रकृति विकृतिभावयोग्यसादृश्यस्यादर्शनादित्येव वक्तव्यं. प्रकृत्यनुविधाने च प्रकृतिविकृतिभावो भवति यथा वृषभतद्वत्सयोः, एवं यकारादिवर्णेष्वपि इकारादिवर्णानुविधानाभावादेव प्रकृतिविकृतिभावो नोपपद्यते इति न यकार इकारविकार इत्यर्थः // 45 // अग्रिमसूत्रमवतारयति- इतश्चेति / वर्णविकारासंभवे हेत्वन्तरमाह- विकारेति, विकारप्राप्तानाम्= विकृतानाम्= विकारभूतानाम् अपुनरापत्तेः= पुनः प्रकृतिरूपता नोपपद्यते यथा दुग्धविकारस्य दध्नो दुग्धरूपता न संभवति. प्रकृते तु इकारस्थाने उत्पन्नस्यापि यकारस्येकारभावः संभवति- 'दध्यत्र' इति वचनानन्तरम् 'दधि अत्र' इत्यस्यापि वक्तुं शक्यत्वादिति वर्णानां पुनः प्रकृतिरूपत्वसंभवाद् विकारत्वं नोपपद्यते इति सूत्रार्थः / वस्तुतस्तु वर्णानामपि पुनः प्रकृत्यापत्तिोंपपद्यते क्षणिकत्वस्वीकारादिति विभावनीयम् / ब्याचष्टे- अनुपपन्नेति, विकाराणां पुनरापत्तिः= पुनः प्रकृतिरूपताऽनुपपन्ना= न दृश्यते यथा दध्नो दुग्धरूपता न संभवतीत्यर्थः / विकाराणां पुनरापत्तेरनुपपत्तौ हेतुं जिज्ञासतेकथमिति / उत्तरमाह- पुनरापत्तेरिति, अननुमानात्= प्रमाणाभावात्= अदर्शनाद् विकारेषु पुनरा.