________________ 198 प्रसन्नपदापरिभूषितम्- [2 अध्याये. वाहिकेयथाऽनडुहः स्थानेऽश्वो वोढुं नियुक्तो न तद्विकारो भवति. एवमिवर्णस्य स्थाने यकारः प्रयुक्तो न विकार इति / न चात्र नियमहेतुरस्ति- दृष्टान्तः साधको न प्रतिदृष्टान्त इति // 42 // द्रव्यविकारोदाहरणं च न- अतुल्यप्रकृतीनां विकारविकल्पात् // 43 // अतुल्यानां द्रव्याणां प्रकृतिभावो विकल्पते विकारश्च प्रकृतीनुविधीयते, न त्विवर्णमनुविधीयते यकारः तस्मादनुदाहरणम्- 'द्रव्यविकारः' इति // 43 // द्रव्यविकारे वैषम्यवद् वर्णविकारविकल्पः // 44 // यथा द्रव्यभावेन तुल्यायाः प्रकृतेर्विकारवैषम्यम् एवं वर्णभावेन तुल्यायाः प्रकृतेर्विकारविकल्प इति // 44 // त्वदुक्तं नोपपद्यते इत्यर्थः / स्वयं व्याचष्टे- यथेति, अनडुहः-वृषभस्य, वोढुम् शकटादिवहनार्थम् / तद्विकारः वृषभविकारो न भवतीति प्रसिद्धमेव / प्रकृतमाह- एवमिति / विकारः इकारविकारो न भवति। स्वोक्तप्रतिदृष्टान्तस्यास्य विकाराभावसाधकत्वाभावे बाधकमाह-न चेति, 'दृष्टान्तः साधको भवति न प्रतिदृष्टान्तः' इत्यत्र नियमहेतोरभावादुक्तप्रतिदृष्टान्तेन वर्णानां विकाराभावः सिद्ध इत्यर्थः // 42 // अग्रिमसूत्रमवतायति- द्रव्येति, पूर्वपक्षिणा वर्णविकारसाधनाथै यद् द्रव्यविकारोदाहरणं पूर्वसूत्रे प्रदर्शितं तन्न युक्तमित्येवं सूत्रघटकनकारेणान्वयः / पूर्वसूत्रोक्तं प्रत्याचष्टे-नेति, न्यूनसमाधिकेत्यादिना यदुक्तं तन्न संभवतीत्यर्थः, अत्र हेतुमाह- अतुल्येति, अतुल्यप्रकृतीनाम्= भिन्नप्रकृतीनां विकाराणां विकल्पात्= भेददर्शनाद् भेद आवश्यको यथा वटवीजाद् वटवृक्षो विकारो वटवीजविलक्षणादश्वत्थबीजाश्वत्थवृक्षो विकारो जायते एतादृक्षस्थलेषु प्रकृतिविकारभावः स्वीक्रियते किं वा प्रकृतिविकारभावस्थले प्रकृतिभेदेन विकारवैलक्षण्यं दृश्यते यथाम्रादिबीजानां वैलक्षण्येन तद्विकाराणां वृक्षफलादीनां वैलक्षण्यं प्रत्यक्षमेव प्रकृते च हस्वदीर्घाभ्यामिकाराभ्यां जायमानस्य यकारस्य वैषम्यं न दृश्यते इति न प्रकृतिविकारभाव उपपद्यते इति द्रव्यविकारदृष्टान्तेन वर्णविकारसिद्धिर्न संभवतीति सूत्रार्थः / अत्र "विकारविकल्पात्" इत्यत्र 'विकाराणां विकल्पात् / इतिवक्तव्यमासीत् / व्याचष्टे- अतुल्यानामिति, मतुल्यानां द्रव्याणां वटादिबीजानां प्रकृतिभावः- प्रकृतित्वं विकल्पते= विविधो विलक्षणो भवति तेन विकाराणामपि वैलक्षण्यं भवति, विकारश्च प्रकृती:= स्वस्वप्रकृतिमनुविधीयते= प्रकृतिसदृशो भवतीति प्रकृतिविकारभावस्य मर्यादा, "प्रकृतिभावः” इत्यत्र 'विकृतिभावः' इतिवक्तव्यमासीत् / प्रकृतमाहनेति, यकारस्तु इकारस्य हस्वत्वे व्हस्वो वा दीर्घत्वे दीपों वा न भवतीति इकारानुविधानाभावान्न यकार इकारविकार इत्युपसंहरति- तस्मादिति / अत्र- " अतुल्यायाः प्रकृतेर्विकारा विकल्पन्ते= प्रकृतिभेदमनुविधीयन्ते " इति तात्पर्यटीका // 43 // ____ अत्र पूर्वपक्ष्याह- द्रव्येति, वृक्षबीजयोर्यथा द्रव्यत्वेन तुल्यत्वेपि स्वरूपभेदो भवतीति द्रव्यविकारेषु वैषम्यम्= प्रकृत्यपेक्षया वैलक्षण्यं दृश्यते इति विकारणां न प्रकृत्यनुविधाननियमस्तथा प्रकृते इकारयकारयोर्वर्णत्वेन तुल्यत्वेपि स्वरूपभेदो दृश्यते इति वर्णविकारस्यापि विकल्पः= प्रकृत्यपेक्षया वैलक्षण्यमुपपन्नमिति न हस्वदीर्घत्वादिरूपेण प्रकृत्यनुविधानाभावाद् वर्णविकारस्यानुपपत्तिरिति सूत्रार्थः / अत्र- "न प्रकृतिभेदमवश्यमनुविधीयन्ते विकाराः” इति तात्पर्यटीका / व्याचष्टे- यथेति, यथा द्रव्यभावेन= द्रव्यत्वेन विकारतुल्याया अपि प्रकृतेर्विकारवैषम्यम्= विकारस्य वृक्षादेः प्रकृत्यपेक्षया वैलक्षण्यं भवति तथा वर्णभावेन= वर्णत्वेन विकारतुल्याया अपि प्रकृतेरिकारस्य विकारे यकारे विकल्पः= वैलक्षण्यमुपपद्यते इति नेकारसादृश्याभावाद् यकारस्येकारविकारत्वानुपपत्तिरित्यर्थः // 44 //